मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 451, कुल 760 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ३६३
अपि च, —वयस्य !
धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् ।
आर्द्राणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥ ४६ ॥
प्रिये वसन्तसेने !
स्तम्भेषु प्रचलित-वेदि-सञ्चयान्तं शीर्णत्वात् कथमपि धार्यते वितानम् ।
एषा च स्फुटित-सुधा-द्रवानुलेपात् संक्लिन्ना सलिल-भरेण चित्रभित्तिः ।५०।
अन्वयः—ये, गृहम्, आगतानाम्, कामिनीनाम्, मेघोदकशीतलानि, आर्द्राणि, गात्राणि, गात्रेषु, परिष्वजन्ति, तेषाम्, जीवितानि, धन्यानि, खलु ॥ ४९ ॥
शब्दार्थ—ये = जो लोग, गृहम् = घर में, आगतानाम् = स्वतः आई हुयी, कामिनीनाम् = रमणियों के, मेघोदकशीतलानि = वर्षा के जल से शीतल, आर्द्राणि = गीले, गात्राणि = अंगों का, गात्रेषु = अंगों में, परिष्वजन्ति = कस कर आलिङ्गन करते हैं, तेषाम् = उन लोगों के, जीवितानि = जीवन, धन्यानि = धन्य हैं, खलु = निश्चत रूप से ॥ ४६ ॥
अर्थ—और भी, मित्र !
जो लोग घर में आई हुई कामनियों के वर्षा के जल से शीतल और गीले (कामसन्तापनिवारक) अङ्गों का अङ्गों में कसकर आलिङ्गन करते हैं, उनके जीवन निश्चित ही धन्य हैं ॥ ४६ ॥
टीका—गृहागतवसन्तसेनायाः समालिङ्गनेन स्वजीवनस्य साफल्यं प्रतिपादयति—धन्यानीति । ये=भाग्यवन्तः पुरुषाः, गृहम्=भवनम्, आगतानाम्=स्वयमेव समागतानाम्, कामिनीनाम्=कामयुक्तानां रमणीनाम्, मेघोदकेन=वारिदजलेन शीतलानि=शीतानि, आर्द्राणि=क्लिन्नानि, सन्तापनिवारकानीत्यर्थः, गात्राणि=अङ्गान्, गात्रेषु=अङ्गेषु, यद्वा शरीराणि शरीरेषु, परिष्वजन्ति=समाश्लिष्यन्ति, तेषाम्=तादृशसमागमसौख्ययुक्तानां जनानाम्, जीवितानि = जीवनानि, खलु = निश्चयेन, धन्यानि=सफलानीति भावः । ष्वज्धातोरारत्मनेपदित्वेऽपि कविना परस्मैपदप्रयोगः । अत्राप्रस्तुतप्रशंसालंकारः इन्द्रवज्रा वृत्तम् ॥ ४६ ॥
विमर्श—मेघोदकशीतलानि—इससे शरीरावयवों की शीतलता प्रतिपादित करके भी 'आर्द्राणि' यह कहना अत्यन्तशीतलता का द्योतक है । इससे अत्यन्त-कामसन्तप्त अङ्गों की शीतलता सम्भव है, यह भाव है। यहाँ अप्रस्तुतप्रशंसा अलंकार है, और इन्द्रवज्रा छन्द ॥ ४६ ॥
अन्वयः—प्रचलितवेदिसञ्चयान्तम्, वितानम्, शीर्णत्वात्, स्तम्भेषु, कथमपि, धार्यते, एषा, च, चित्रभित्तिः, स्फुटितसुधा-द्रवानुलेपात्, सलिलभरेण संक्लिन्ना ।५०।
शब्दार्थ—प्रचलितवेदिसञ्चयान्तम्=जिसकी वेदियों के समूह का अन्त भाग