भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 458, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 458
३७०मृच्छकटिकम्

आणावेदु भोदी । (यदाज्ञापयति ।) (आर्ये ! भणति भार्या धूता —'आर्यपुत्रेण युष्माकं प्रसादीकृता न युक्तं ममैतां ग्रहीतुम् । आर्यपुत्र एव मम आभरणविशेष इति जानातु भवती' ।')

( ततः प्रविशति दारकं गृहीत्वा रदनिका । )


प्रवेश करती है ।) आयें ! आर्या धूता यह कह रही हैं—'आर्यपुत्र ने प्रसन्न होकर आपको समर्पित की है, मेरा लेना ठीक नहीं है । आर्यपुत्र ही मेरे विशेष [ सर्व-श्रेष्ठ ] आभूषण हैं—यह आप जान लीजिये ।'

टीका—अद्यापि = इदानीमपि, विबुध्यते = जागर्ति, निद्रां परित्यजति, प्रति-बोधयिष्यामि = जागरयिष्यामि; आच्छादितम् = वस्त्रादिना आवृतं शरीरं=कलेबरं यस्याः सा, प्रसुप्ता = गभीरं सुप्ता, कामक्रीडोत्तरं दीर्घस्वापस्य स्वाभाविकत्वात्, वर्धमानम् = एतन्नामकं शकटवाहकम्, समादिश्य = सम्यग्रूपेण बोधयित्वा, पुष्पाणां करण्डकम् = मधुकोषः, यस्मिन् तत्, जीर्णोद्यानम् = जीर्णं च तद् उद्यानम्, योजय = सन्नद्धं कुरु, निध्यातः = अवलोकितः, अद्य = दिने इति भावः, प्रत्यक्षम् = स्वयमेवेत्यर्थः, चतसृणां शालानां समाहारः चतुःशालम्, आभ्यन्तरं च चतुःशालं चेति कर्मधारयः, षष्ठीतत्पुरुषो वा, सन्तप्यते = वेश्यागमनजन्यं कष्टमनुभवतीति भावः, परिजनः = संबन्धिजनः, जातावेकवचनम्, सन्तप्तव्यम् = सन्तापयुक्त्या भवितव्यम्, भगिन्ये = सम्मानातिशयबोधनार्थमिदम्, समर्पय = समर्पितं कुरु, गुणैः = दयादाक्षिण्यादिगुणैः, निर्जिता = वशीकृता, दासी = सेविका, तत्तुल्येति भावः, कोपिष्यति = कोपं करिष्यति, प्रसादीकृता = प्रसन्नतापूर्वकं समर्पिता, आभरणविशेषः = सर्वोत्कृष्टं भूषणमित्यर्थः, जानातु = अवगच्छतु । मत्कृते चारुदत्त एव सर्वस्वमिति ज्ञात्वैव भवत्या व्यवहरणीय-मिति भावः ।

शब्दार्थ—दारकम् = बच्चे को, शकटिकया = छोटी गाड़ी से, मृत्तिकाशकटिकया = मिट्टी की गाड़ी से, सनिर्वेदम् = दुःख के साथ, सुवर्णव्यवहारः = सोने का प्रयोग, अनलंकृतशरीरोऽपि = आभूषणरहित शरीरवाला भी, पुत्रकः = प्रिय बेटा, अनुकृतम् = पितृसदृश ही रूप धारण किया है, प्रतिवेशिकगृहपतिदारकस्य = पड़ोस के घरवाले के बच्चे की, सन्तप्यते = दुःखी हो रहा है, पुष्करपत्रपतितजलबिन्दुसदृशैः = कमलपत्र पर गिरे हुये पानी की बूंद के समान, पुरुषभागधेयैः = मनुष्य के भाग्य से, गुण-निर्जिता = गुणों से वश में की गयी, अतिकृच्छ्रम् = अत्यन्त दुःखद, अवतार्य = उतार कर, घटय = बनवा लो, पूरयित्वा = भर कर, कारय = बनवा लो ।

अर्थ—( इसके बाद बच्चे को लेकर रदनिका प्रवेश करती है ।)