मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 465, कुल 760 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ३७७
एशे एआइ तवश्शी । ता एव्वं कलेमि, एदं पवहणं अज्जचालुदत्तश्श रुक्खवाड़िआए पक्खदुआलए थावेमि । ( इति प्रवहणं संस्थाप्य । ) एशे म्हि आअदे । ( आज्ञप्तोऽस्मि राज-श्यालक-संस्थानेन-'स्थावरक ! प्रवहणं गृहीत्वा पुष्पकरण्डकं जीर्णोद्यानं त्वरितमागच्छ' इति । भवतु तत्रैव गच्छामि । वहतं बलीवदौ ! वहतम् । कथं यामशकटैः रुद्धो मार्गः । किमिदानीमत्र करिष्यामि ? अरे रे ! अपसरत अपसरत । किं भणत-'एतत् कस्य प्रवहणम् ?' इति । एतत् राज्यश्यालक-संस्थानस्य प्रवहणमिति । तत् शीघ्रमपसरत । कथम् एषः अपरः सभिकमिव मां प्रेक्ष्य सहसैव द्यूतपलायित इव द्यूतकरः अपवार्यात्मानम् अन्यतः अपक्रान्तः । तत् कः पुनरेषः ? अथवा किं मम एतेन ? त्वरितं गमिष्यामि । अरे रे ग्राम्याः ! अपसरत अपसरत । किं भणथ-‘मुहूर्त्तकं तिष्ठ, चक्रपरिवृत्तिं देहि' इति । अरे रे ! राज-श्यालक-संस्थानस्य अहं शूरः चक्रपरिवृत्तिं दास्यामि ? अथवा एष एकाकी तपस्वी । तदेगं करोमि । एतत् प्रवहणमार्यचारुदत्तस्य वृक्षवाटिकायाः पक्षद्वारके स्थापयामि । एषोऽस्मि आगतः । ) ( इति निष्क्रान्तः । )
**चेटी—**अज्जए ! णेमिसद्दो विअ सुणीअदि, ता आअदो पवहणो । ( आर्ये ! नेमिशब्द इव श्रूयते, तदागतं प्रवहणम् । )
**वसन्तसेना—**हञ्जे ! गच्छ, तुवरदि मे हिअअं । ता आदेसेहि पक्खदुआरअं । ( हञ्जे ! गच्छ, त्वरते मे हृदयम् । तदादेशय पक्षद्वारकम् । )
**चेटी—**एदु, एदु अज्जआ । ( एतु, एतु आर्या । )
वसन्तसेना—(परिक्रम्य ।) हञ्जे ! वीसम तुमं । (हञ्जे विश्राम्य त्वम् ।)
अच्छा तो फिर यह कौन है ? अथवा मुझे इससे क्या [ प्रयोजन ] ? शीघ्र चलूँगा । अरे गाँववालों ! दूर हटो । ( सुनकर ) क्या कह रहे हो—'कुछ देर रुक जाओ, ( फंसे ) पहिये को घुमाने में सहायता कर दो ।' अरे मैं राजा के साले संस्थानक का बहादुर आदमी पहिया घुमाने में सहायता करूँगा ? अथवा यह बेचारा अकेला है । तो ऐसा करता हूँ ( इसकी सहायता कर देता हूँ । ) यह गाड़ी चारुदत्त के बगीचे के किनारे वाले दरवाजे के पास खड़ी करता हूँ । ( गाड़ी को खड़ी करके ) यह मैं आ गया । ( यह कहकर चला जाता है ।)
**चेटी—**आर्ये ! धुरी की आवाज सुनाई देती है, अतः गाड़ी आ गई [ ऐसा लगता है ] ।
**वसन्तसेना—**सखि ! आओ, मेरा हृदय मिलने के लिये उतावला है । अतः बगलवाला दरवाजा दिखाओ ।
**चेटी—**आर्या, आइये, आइये ।
वसन्तसेना—( घूमकर ) सखि ! तुम विश्राम करो ।