मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 466, कुल 760 में से
संदर्भ में पढ़ें| ३७८ | मृच्छकटिकम् |
|---|
चेटी--जं अज्जआ आणवेदि । (यदार्या आज्ञापयति) (इति निष्क्रान्ता ।)
वसन्तसेना--(दक्षिणाक्षिस्पन्दं सूचयित्वा प्रवहणमधिरुह्य च ।) किण्णेदं फुरदि दाहिणं लोअअं ? अथवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जइस्यदि । (किन्नु इदं स्फुरति दक्षिणं लोचनम् ? अथवा चारुदत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति ।)
(प्रविश्य)
स्थावरकचेटः—ओशालिदा मए शअड़ा, ता जाव गच्छामि । (इति नाट्येनाधिरुह्य चालयित्वा स्वगतम् ।) भालिके पवहणे । अथवा चक्कप-लिवट्टिआए पल्लिशन्तरश भालिके पवहणे पडिभाशेदि । भोदु, गमिश्शं । जाध गोणा जाध । (अपसारिता मया शकटाः तद् यावद् गच्छामि । भारिकं प्रवहणम् । अथवा चक्र-परिवृत्तिकया परिश्रान्तस्य भारिकं प्रवहणं प्रतिभासते । भवतु, गमिष्यामि । यातं गावौ ! यातम् ।)
चेटी—आर्या की जैसी आज्ञा । (वह निकल जाती हैं।)
वसन्तसेना--(दाहिनी आँख का फड़कना सूचित करके और गाड़ी पर बैठकर) यह दाहिनी आंख किस लिये फड़क रही है ? अथवा चारुदत्त का दर्शन ही अपशकुन दूर करेगा ।
(प्रवेश करके)
स्थावरक चेट—मैंने गाड़ियाँ हटा दीं हैं, तो अब चलता हूँ । (यह कहकर अभिनय के साथ गाड़ी पर चढ़कर और चलाकर—अपने में) गाड़ी बोझदार लगती है । अथवा पहिया घुमाने में परिश्रम करने से थके हुये मुझको गाड़ी बोझ-वाली लग रही है । अच्छा, चलूं । चलो बैलों ! चलो ।।
टीका--**प्रवहणाधिरूढः=**वाह्नारूढः, **ग्रामशकटैः=**ग्राम्यवाहनैः, **रुद्धः=**अवरुद्धः, **अपसरत=**अपगच्छत, सभिकमिव = द्यूतसभाध्यक्षमिव, **प्रेक्ष्य=**विलोक्य, **द्यूतपला-यितः=**पराजितः सन् द्यूतस्थलात् अन्यत्र प्रयात:, **अपवार्य=**गोपायित्वा, **अपक्रान्तः=**पलायितः, **किम् एतेन=**एतेन किमपि साध्यं नास्ति, **चक्रपरिवृत्तिम्=**भूमादावरुद्ध-चक्रनिःसारणे साहाय्यमिति भावः, **शूरः=**वीरः, **तपस्वी=**वराकः, **एकाकी=**असहायः, नेमिशब्दः = चक्राधारयन्त्रावयवविशेषस्य ध्वनिः, **त्वरते=**प्रियमिलनायोत्कण्ठितं भवतीति भावः, **पक्षद्वारकम्=**पक्षद्वारगमनाय मार्गमित्यर्थः, **विश्राम्य=**विश्रामं कुरु, अत्रैव तिष्ठेति भावः, **दक्षिणाक्षिस्पन्दम्=**सव्येतरनेत्रस्फुरणम्, स्त्रीणां दक्षिणाङ्ग-स्फुरणमनिष्टसूचकमिति शास्त्रादावुक्तम्, **अनिमित्तम्=**अपशकुनम्, **प्रमार्जयिष्यति=**विनाशयिष्यति, भारिकम् = भारवत्, ठकि प्रत्यये साधु—भारमस्ति अस्येत्यर्थः,