मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 471, कुल 760 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः
३८३
तदत्र तावत् प्रविश्य तिष्ठामि ।
( नेपथ्ये )
जाध गोणा ! जाध । ( यातं गावो ! यातम् । )
आर्यकः—( आकर्ण्य ) अये ! प्रवहणमित एवाभिवर्त्तते ।
भवेद् गोष्ठीयानं न च विषमशीलैरधिगतं
वधूसंयानं वा तदभिगमनोपस्थितमिदम् ।
बहिर्नेतव्यं वा प्रवह्र-जन-योग्यं विधिवशाद्
विविक्तत्वाच्छून्यं मम खलु भवेद्दैवविहितम् ॥ ४ ॥
इसलिये इसमें घुसकर ( छिपकर ) बैठता हूँ ॥ ३ ॥
टीका—सम्मुखस्थं जीर्णं शीर्णं गृहं विलोक्य तत्स्वामिनोऽपि स्वतुल्यां दुर्दशां प्रतिपादयति —इदमिति । इदम् = पुरोदृश्यमानम्, गृहम्=भवनम्, भिन्नम्=अनेक-भागेषु विदीर्णम्, अस्ति, च=तथा, अदत्तदण्डः=अदत्तः दण्डः=पृष्ठभागे अवरोधाय काष्ठविशेषः, अर्गला वा यस्य तादृशः, विशीर्णसन्धिः=विशीर्णः=विश्रृंखलितः सन्धिः = काष्ठखण्डानां संयोजनस्थानानि यस्य सः, एतद् द्वयमपि महाकपाटस्य विशेषणम्, महाकपाटः=विशालकपाटः, अस्ति, [ एतेन इदं प्रतीयते=ज्ञायते यत् ] मम=आर्यकस्य, तुल्यभाग्यः=सदृशं भाग्यं यस्य तादृशः, भाग्यहीन इत्यर्थः, कुटुम्बी=गृहाधिपतिः, ध्रुवम्=निश्चितरूपेण, व्यसनाभिभूताम्=विपत्तिसमाक्रान्ताम्, दशाम्=दुरवस्थाम्, प्रपन्नः=प्राप्तः, एवञ्चायमपि मत्सदृश एव वर्तते । अतोऽयं मां रक्षिष्यतीति भावः । अत्रोपमालंकारः, उपेन्द्रवज्रा च वृत्तम् ॥ ३ ॥
विमर्शः—यहाँ 'अदत्तदण्डः' और 'विशीर्णसन्धिः' ये दोनों महाकपाट के विशेषण हैं। किवाड़ों के पीछे की ओर सुरक्षा के लिये एक लकड़ी लगाई जाती है, जिसे 'व्योड़ा' कहा जाता है, वह बन्द दरवाजे में ही लगता है। सांकड़ के स्थान पर भी इसका प्रयोग होता है। यह यहाँ नहीं लगा है क्योंकि दरवाजा खुला है। लकड़ियों के जोड़ ढीले होने से उस किवाड़ में कई काष्ठखण्ड लगे हुये प्रतीत होते हैं। विशाल भवन और विशाल दरवाजा देखकर मकान-मालिक की बीती हुई सम्पन्नता का अनुमान होता है। यहाँ उपमा अलंकार और उपेन्द्रवज्रा छन्द है ॥ ३ ॥
( नेपथ्य में )
अर्थ—चलो बैलों, चलो ।
अन्वयः—इदम्, विषमशीलैः, अधिगतम्, गोष्ठीयानम्, न, च, भवेत्, वा, वधूसंयानम्, तदभिगमनोपस्थितम्, [ भवेत् ], अथवा, प्रवरजनयोग्यम्, बहिः, नेतव्यम्, [ भवेत् ], विधिवशात्, विविक्तत्वात्, शून्यम्, मम, खलु, दैवविहितम्, भवेत् ॥ ४ ॥