मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 478, कुल 760 में से
संदर्भ में पढ़ें३९० | मृच्छकटिकम्
भण कस्स जन्म-छट्ठो जीवो णवमो तहेअ सूरसुओ । जीवंते चंदणए को सो गोवालदारअं हरइ ॥ १० ॥ ( भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः । जीवति चन्दनके कः स गोपालदारकं हरति ॥ १० ॥ )
वीरकः--भड चन्दणआ ! ( भट चन्दनक ! )
अवहरइ कोवि तुरिअं चंदणअ ! सवामि तुज्ज हिअएण । जह अद्धधुइद-दिणअरे गोवालअ-दारओ खुडिदो ॥ ११ ॥
जन्मस्य, पञ्चमः = पञ्चमस्थानीयः, भूमिसुतः = भौमः, वर्तते इति शेषः । एवञ्चै-तादृशग्रहयोगवतस्तस्य गोपालदारकापहारकस्य तस्य मृत्युर्ध्रुव इति भावः । आर्या वृत्तम् ॥ ६ ॥
विमर्श--यहाँ ज्योतिषशास्त्रानुसार मृत्युयोग का लक्षण बताया गया है । इसे और अग्रिम श्लोक को मिलाकर यह 'युग्मक' है ॥ ६ ॥
अन्वयः--भण, कस्य, जीवः, जन्मषष्ठः, तथा, सूरसुतः, नवमः, कः, सः, चन्दनके, जीवति, गोपालदारकम्, हरति ॥ १० ॥
शब्दार्थ--भण = बताओ, कस्य = किसके, जीवः=बृहस्पति, जन्मषष्ठः= जन्मराशि से या लग्न से छठें है, तथा, सूरसुतः=शनि, नवमः=नवें स्थान पर है, कः सः = वह कौन है, (जो), चन्दनके = चन्दनक के, जीवति=जीवित रहते, गोपालदारकम् = अहीर के बेटा आर्यक को, हरति = (कारागार से) ले जा रहा है ॥ १० ॥
अर्थ--बताओ, किसका बृहस्पति जन्मराशि (या लग्न) से छठे स्थान पर है और शनि नवम स्थान पर है ? वह कौन है जो (मुझ) चन्दनक के जीवित रहते गोपालपुत्र आर्यक को ले जा रहा है ? ॥ १० ॥
टीका--पुनरपि अपहारकस्य मृत्युयोगमेवाह-भणेति । भण=कथय, कस्य=जन्मस्य, जीवः = बृहस्पतिः, जन्मषष्ठः=जन्मराशेः लग्नात् वा षष्ठस्थानीयः, तथा, सूरसुतः=सूर्यपुत्रः शनिः, नवमः=नवमस्थानीयः, कः सः=किन्नामा सः, यः, चन्दनके=एतन्नामके मयि, जीवति = जीवनं धारयति सति, गोपालदारकम्=गोपालपुत्रम्, आर्यकमित्यर्थः, हरति=बन्धनान्मोचयित्वा, नयति, एवञ्च यस्यैतादृशाः मारणकारका ग्रहाः सञ्जाताः स एव तस्य अपहरणं करिष्यतीति भावः । गाथा वृत्तम् ॥ १० ॥
अन्वयः--हे चन्दनक !, तव, हृदयेन, शपे, कोऽपि, (आर्यकम्) त्वरितम्, अपहरति, यथा, अर्धोदितदिनकरे, गोपालदारकः, त्रुटितः ॥ ११ ॥