भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 485, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 485

षष्ठोऽङ्कः ३६७

वीरकः--तुमं पि रण्णो पच्चइदो वलवइ, ता तुमं ज्जेव अवलोएहि । ( त्वमपि राज्ञः प्रत्ययितो बलपतिः, तत् त्वमेव अवलोकय । ) चन्दनकः--मए अवलोइदं तुए अवलोइदं भोदि ? ( मया अवलोकितं त्वया अवलोकितं भवति ? ) वीरकः--जं तुए अवलोइदं तं रण्णा पालएण अवलोइदं । ( यत् त्वया अवलोकितं तत् राज्ञा पालकेनावलोकितम् । ) चन्दनकः--अरे ! उण्णामेहि धुरं । ( अरे ! उन्नामय धुरम् । )
( चेटस्तथा करोति )
आर्यकः--( स्वगतम् ) अपि रक्षिणो मामवलोकयन्ति ? अशस्त्रश्चास्मि मन्दभाग्यः । अथवा—

भीमस्यानुकरिष्यामि बाहुः शस्त्रं भविष्यति ।
वरं व्यायच्छतो मृत्युर्न गृहीतस्य बन्धने ॥ १७ ॥


वीरक—तुम भी राजा के विश्वस्त सेनापति हो, अतः तुम्हीं देख लो ।
चन्दनक—क्या मेरा देखा जाना तुम्हारा देखा जाना हो जायगा ।
वीरक—जो तुमने देख लिया वह राजा पालक ने देख लिया ।
चन्दनक—अरे ! इस गाड़ी का जुआ उठाओ ।
( चेट उसी प्रकार जुआ ऊपर उठाता है । )
आर्यक—( अपने आप में ) क्या सिपाही मुझे देखेंगे, और मैं अभागा बिना शस्त्र के हूँ । अथवा

अन्वय—[ अहम् ] भीमस्य, अनुकरिष्यामि, बाहुः [ मे ], शस्त्रम्, भविष्यति, व्यायच्छतः, मृत्युः, वरम्, गृहीतस्य, बन्धने, न, वरम् ॥ १७ ॥

शब्दार्थ—[ अहम् = मैं आर्यक ] भीमस्य = भीमसेन का, अनुकरिष्यामि = अनुकरण करूँगा, बाहुः = भुजा, [ मे = मेरा ] शस्त्रम् = शस्त्र, भविष्यति = बनेगा, व्यायच्छतः = लड़ते हुये, मृत्युः = मौत, वरम् = ठीक है, बन्धने = बन्धन, जेल आदि में, गृहीतस्य = पकड़े गये, मेरी मौत, न = ठीक नहीं हैं ॥ १७ ॥

अर्थ—[ मैं ] भीम का अनुकरण = नकल करूँगा, बाहु मेरा शस्त्र बनेगी, लड़ते हुये मर जाना ठीक है, बन्धन में पड़े हुये की मृत्यु ठीक नहीं है ॥ १७ ॥

टीका—तत्कालमुचितं विचार्य बाहुयुद्धमेव श्रेयस्करं मन्यते—भीमस्येति । भीमस्य = मध्यमपाण्डवस्य, अनुकरिष्यामि = अनुकरणं विधास्यामि, बाहुः = भुजा, मे = मम, शस्त्रम् = आयुधम्, भविष्यति = सम्पत्स्यते । यथा खलु भीमः बाहुयुद्धं कृतवान् तथैवाहमपि करिष्यामीति भावः । व्यायच्छतः = युद्धं कुर्वतः, ( मे = आर्यकस्य ) मृत्युः = मरणम्, वरम् = श्रेयस्करम्, बन्धने = कारागारादौ, निगृहीतस्य = निगडितस्य, अवरुद्धस्य, न वरमिति भावः । पद्यावक्त्रं वृत्तम् ॥ १७ ॥