भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 492, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 492

४०४ | मृच्छकटिकम्

वीरकः—णं भणउ भणउ । ( ननु भणतु भणतु । )
( चन्दनकः संज्ञां ददाति । )
वीरकः—अरे ! किं णेदं ? ( अरे ! किन्न्व इदम् ? )
चन्दनकः

सण्णी-सिलाअल-हत्थो पुरिसाणं कुच्च-गंठि-सण्ठवणो ।
कत्तरि-वावुद-हत्थो तुमं पि सेणावई जादो ॥ २२ ॥
( शीर्णशिलातलहस्तः पुरुषाणां कूर्च्च-ग्रन्थि-संस्थापनः ।
कर्त्तरी-व्यापृत-हस्तस्त्वमपि सेनापतिर्जातः ॥ २२ ॥ )


टीका—वीरकस्य जातेरकथने हेतुमाह—जानन्नपीति । तव=वीरकस्य, जातिम्=जन्मगोत्राश्रितां लोकप्रसिद्धां वा जातिम्, खलु, जानन्=विदन्, अपि, न च=नैव, भणामि = कथयामि, [ सा तव जातिः ] मम = चन्दनकस्य, मनसि=हृदये, एव, तिष्ठतु=अस्तु, हि=यतः, कपित्थेन=दधित्थेन, 'कैथा' इति लोकप्रसिद्धेन फलेन, भग्नेन = त्रोटनेन, किम् = न किमपि फलमिति भावः । अत्र दृष्टान्तालङ्कारः, आर्या वृत्तम् ॥ २१ ॥

**अर्थ - वीरक—**अरे ! बताओ, बताओ ।
( चन्दनक इशारा करता है । )
**वीरक—**अरे ! यह क्या है ?

अन्वयः—शीर्णशिलातलहस्तः, पुरुषाणाम्, कूर्च्चग्रन्थिसंस्थापनः, कर्त्तरी-व्यापृतहस्तः, त्वम्, अपि, सेनापतिः, जातः ॥ २२ ॥

शब्दार्थशीर्णशिलातलहस्तः=पुराने पत्थरके टुकड़े को हाथ में रखने वाले, पुरुषाणाम्=पुरुषों की, कूर्च्चग्रन्थिसंस्थापनः=दाढ़ी की गाँठ को स्वच्छ करने वाले, संवारने वाले, कर्त्तरीव्यापृतहस्तः=कैंची [ चलाने ] में लगे हुये हाथ वाले, त्वम्=तुम वीरक, अपि=भी, सेनापतिः=सेनापति, जातः=बन गये, हो ॥ २२ ॥

अर्थ—चन्दनक—
[ उस्तरा की धार पैनी करने के लिये ] पुराना पत्थर का टुकड़ा [ सिल्ली ] हाथ में रखने वाले, पुरुषों की दाढ़ी की गाँठों की सफाई करने वाले, कैंची [ चलाने ] में लगे हुये हाथ वाले अर्थात् नाई तुम वीरक भी सेनापति बन गये हो ॥ २२ ॥

टीका—वीरकस्य नापितत्वजातिसूचकानि चिह्नानि प्रतिपादयति—शीर्णेति । शीर्णम् = चिरकालपर्यन्तमुपयोगात् घर्षितपृष्ठम्, शिलातलम् = पाषाणखण्डतलम्, हस्ते=वामकरे, यस्य तादृशः, पुरुषाणाम्=मानवानाम्, कूर्चस्य=श्मश्रोः, ग्रन्थीनाम्=बन्धनस्थानाम्, मूलभागानामिति भावः, संस्थापनम्=समुच्छेदः येन तादृशः, पुरुष-श्मश्रुस्वच्छतादिसम्पादकः, कर्त्तर्याम्=पुरुषादिकेशानां कर्त्तनाय प्रयुक्ते लौहयन्त्र-