मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 496, कुल 760 में से
संदर्भ में पढ़ें४०८ | मृच्छकटिकम्
चन्दनकः--अज्जए ! ( आर्ये । )
एत्थ मए विण्णविदा पच्चईदा चन्दणं पि सुमरेसि ।
ण भणामि एस लुद्धो णेहस्य रसेण बोल्लामो ॥ २५ ॥
( अत्र मया विज्ञप्ता प्रत्ययिता चन्दनमपि स्मरसि ।
न भणामि एष लुब्धः स्नेहस्य रसेन ब्रूमः ॥ २५ ॥ )
टीका--स्वजीवनरक्षोपायं लब्ध्वाऽनुकूल्यं प्रतिपादयति—अये इति । अये ! आश्चर्ये इदम्, मया=आर्यकेण, शस्त्रम्=आयुधम्, प्राप्तम्=लब्धम्, दक्षिणः=वामेतरः, भुजः=बाहुः, स्पन्दते=स्फुरति, एतच्च पुरुषाणां मंगलसूचकम्, अतः सकलम्=सम्पूर्णम्, अनुकूलम् = साधकम् अस्ति, हन्त ! इदं प्रसन्नताबोधकमव्ययम्, अहम् = आर्यकः, संरक्षितः=परित्रातः, भाग्येनेति शेषः । एवञ्च न राज्ञो भयमिति भावः । समाधिरलंकारः, पथ्यावक्त्रं वृत्तम् ॥ २४ ॥
विमर्श--आर्यक जब तलवार पा लेता है तो उसे अपनी रक्षा का विश्वास होने लगता है, साथ ही ज्योतिषशास्त्रोक्त लक्षणों के अनुसार पुरुष के दाहिने अंगों का फड़कना शुभसूचक माना जाता है । यहाँ समाधि अलंकार है । पथ्यावक्त्र छन्द है ॥ २४ ॥
अन्वयः--अत्र, मया, विज्ञप्ता, प्रत्ययिता, ( त्वम् ) चन्दनम्, अपि, स्मरसि, एषः, लुब्धः, सन्, न, भणामि, किन्तु, स्नेहस्य, रसेन, ब्रूमः ॥ २५ ॥
शब्दार्थ--अत्र=विपत्ति के समय में, मया = मेरे द्वारा, विज्ञप्ता=पहचानी गयी, प्रत्ययिता = और विश्वास करायी गई, [ त्वम् = वसन्तसेना ], चन्दनम्= चन्दनक को, अपि=भी, स्मरसि = याद रखना, एषः=यह मैं, लुब्धः=लोभी, सन्=होता हुआ, न=नहीं, भणामि=कह रहा हूँ, किन्तु=लेकिन, स्नेहस्य=प्रेम के, रसेन=रस से, ब्रूमः=कह रहे हैं ॥ २५ ॥
अर्थ-चन्दनक --आर्ये !
इस विपत्ति के समय मेरे द्वारा पहचानी गयी और विश्वास कराई गयी [ तुम वसन्तसेना ], चन्दनक को भी याद रखना । यह मैं लोभी होकर [ किसी चीज को पाने की इच्छा से ] नहीं, अपि तु स्नेह के रस से कह रहा हूँ ॥ २५ ॥
टीका--विपत्तिं समुत्तीर्य राज्यप्राप्तौ ममापि स्मरणं करणीयमिति प्रतिपादयति – अत्रेति । अत्र=अस्मिन् विपत्तिकाले, मया=चन्दनकेन, विज्ञप्ता=परिज्ञाता, प्रत्ययिता = विश्वासमुपपादिता, [ त्वम्=वसन्तसेना ], चन्दनकम् = एतन्नामकम्, अपि, स्मरसि = स्मारंष्यसि, सामीप्ये लट्बोध्यः, एषः=अहम् चन्दनकः, लुब्धः= प्रत्युपकारलोभी, सन्, न=नैव, भणामि=वदामि, अपितु, स्नेहस्य=प्रेम्णः, रसेन= भावेन, ब्रूमः = वदामः । अत्र ब्रूमः, इति बहुवचनम्, भणामीति एकवचनमिति वचनभेदो न समीचीन इति बोध्यम् । गाथा वृत्तम् ॥ २५ ॥