मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 503, कुल 760 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः ४१५
( प्रविश्य गुप्तार्यकप्रवहणस्थः । )
चेटः-- जाध गोणा जाध । ( यातं गावो ! यातम् । )
आर्यकः--( स्वगतम् )
नरपतिपुरुषाणां दर्शनाद्भीतभीतः
सनिगडचरणत्वात् सावशेषापसारः ।
अविदितमधिरूढो यामि साधोस्तु याने
परभृत इव नीडे रक्षितो वायसीभिः ॥ ३ ॥
( आर्यक जिसमें छिपा हुआ बैठा है ऐसी गाड़ी में बैठा हुआ प्रवेश करके ।)
**अर्थ--चेट--**चलो बैलों, चलो ।
**अन्वयः--**नरपतिपुरुषाणाम्, दर्शनाद्, भीतभीतः, सनिगडचरणत्वात्, सावशेषापसारः, तु, नीडे, वायसीभिः, रक्षितः, परभृतः, इव, ( अहम् आर्यकः ), साधोः, याने, अविदितम्, अधिरूढः, यामि ॥ ३ ॥
**शब्दार्थ--**नरपतिपुरुषाणाम् = राजपुरुषों रक्षक सिपाहियों आदि के, दर्शनाद् = देखने से, भीतभीतः = बहुत डरा हुआ, सनिगडचरणत्वात् = पैरों में बेड़ियाँ जकड़ीं हुईं होने के कारण, सावशेषापसारः = भागने में पूर्णतया समर्थ न होनेवाला, तु = लेकिन, नीडे = घोसले में, वायसीभिः = कौवे की पत्नियों द्वारा, रक्षितः = रक्षित, पोषित, परभृतः = कोयल के, इव = समान, ( अहम् = मैं आर्यक ), साधोः = सज्जन चारुदत्त की, याने = गाड़ी में, अविदितम् = बिना जानकारी के, छिपा हुआ, अधिरूढः = बैठा हुआ, यामि = जा रहा हूँ ।। ३ ।।
अर्थ--आर्यक--( अपने आप में )
राजा के सिपाहियों को देखने से अत्यन्त भयभीत, पैरों में बेड़ियाँ जकड़ी होने से भागने में पूर्णतया असमर्थ, लेकिन घोसले में कौवे की पत्नियों द्वारा रक्षित कोयल [के बच्चे] के समान [मैं आर्यक] उस सज्जन चारुदत्त की गाड़ी में छिपा बैठा हुआ जा रहा हूँ ॥ ३ ॥
टीका-- स्वकीयसुरक्षितगमने हेतुमाह आर्यकः-नरपतीति । नरपतेः = राज्ञः पालकस्य, पुरुषाणाम् = रक्षकजनानाम्, दर्शनाद् = अवलोकनाद्, भीतभीतः = अत्यन्तं भयभीतः, निगडेन सहितौ-सनिगडौ = श्रृंखलाबद्धौ चरणौ = पादौ यस्य सः सनिगडचरणः, तस्य भावः, तस्मात् श्रृंखलाबद्धचरणत्वात् सादशेषः = किञ्चिदवशिष्टः, अपसारः = पलायनं यस्य सः, स्वेच्छया पलायनेऽसमर्थ इति भावः, तु = किन्तु, नीडे = कुलाये, रक्षितः = पालितः पोषितश्च, परभृतः = कोकिलशावकः, इव = यथा, [ अहम् आर्यकः ), साधोः = सज्जनस्य चारुदत्तस्येत्यर्थः, याने = शकटे, अविदितम् = अज्ञातं यथा स्यात् तथा, अधिरूढः = आसीनः, प्रच्छन्नरूपेण स्थित इत्यर्थः, यामि = सकुशलं व्रजामि । उपमालंकार, मालिनी वृत्तम्-न-न-म-य-य-युतेयं मालिनी भोगिलोकैः ॥३॥