भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 528, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 528

४४० मृच्छकटिकम्

सन्तापादतिशङ्कितैर्न नगरीमार्गो नरैः सेव्यते तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित् संस्थितम् ॥ ११ ॥

शकारः--भावे !

शिलशि मम णिलीणे भाव ! शुज्जश्श पादे शउणि-खग-विहङ्गा लुक्खशाहाशु लीणा । णल-पुलिश-मणुश्शा उण्हदीहं शशन्ता घल-शलण-णिशण्णा आदपं णिव्वहन्ति ॥ १२ ॥

मार्गः, न, सेव्यते, [ अतः ], मन्ये, तप्ताम्, भूमिम्, अपास्य, प्रवहणम्, क्वचित् संस्थितम्, [ अस्ति ] ॥ ११ ॥

**शब्दार्थ--**गोकुलम्=गायों का झुण्ड, छायासु=छाया में, प्रतिमुक्तशष्पकवलम्=घास का चरना छोड़ता हुआ, निद्रायते=नींद ले रहा है, ( ऊँघ रहा है । ), च=और, तृष्णार्तैः=प्यास से व्याकुल, वनमृगैः=जंगली जानवरों के द्वारा, उष्णम्=गरम, सारसम्=तालाब का, पयः=पानी, पीयते=पिया जा रहा है । सन्तापात्=गरमी के कारण, अतिशङ्कितैः=अत्यधिक शंकाग्रस्त, नरैः=लोगों के द्वारा, नगरी-मार्गः=नगर की सड़क राजपथ, न=नहीं, सेव्यते=प्रयुक्त की जा रही है, अतः, मन्ये=सोंचता हूँ, कि, तप्ताम्=गरम, भूमिम्=पृथ्वी को, अपास्य=छोड़कर, प्रवहणम्=बैलगाड़ी, क्वचित्=कहीं, ठण्डी जगह, संस्थितम्=खड़ी हो गयी है ॥ ११ ॥

टीका शकारोक्तं मध्याह्नसन्तापं समर्थयन् विटोऽपि प्रवहणानागमने विलम्बहेतुं प्रतिपादयति-छायास्विति । गोकुलम्=गवां कुलम् गोपदेन स्त्री-पुंसयोरुभयोर्ग्रहणमिति बोध्यम्, छायासु=अनातपेषु, प्रतिमुक्ताः=परित्यक्ताः शष्पकवलाः=अर्धोपभुक्त-नवतृणग्रासाः, येन यत्र वा तद् यथा, स्यात् तथा, [क्रियाविशेषणम्] निद्रायते=निद्रामनुभवति, विश्राम्यतीति भावः, तृष्णार्तैः=पिपासितैः, वनमृगैः=आरण्यपशुभिः, उष्णम्=सूर्य-किरण-प्रभावात् तप्तम्, सारसम्=सरोवर्ति, पयः=जलम्, निपीयते=निःशेषेण आस्वाद्यते, सन्तापात्=औष्ण्यात्, अतिशङ्कितैः=अतिशंकाग्रस्तैः, नरैः=लोकैः, नगर्याः=उज्जयिन्याः, मार्गः=पन्थाः, राजपथः, न=नैव, सेव्यते=आश्रीयते, तप्तं मुख्यमार्गं विहाय पथ्यासु गम्यते गृहे एव वा स्थीयते, अतः, मन्ये=सम्प्रधारयामि, तप्ताम्=उष्णाम्, भूमिम्=धराम्, अपास्य=परित्यज्य, प्रवहणम्=शकटयानम्, क्वचित्=कुत्रचित् शीतलस्थाने इति भावः, संस्थितम्=अवस्थितम् । अत्रोत्प्रेक्षा-स्वभावोक्त्यादीनां सङ्करः, शार्दूलविक्रीडितं वृत्तम् ॥ ११ ॥

**अन्वयः--**हे भाव !, सूर्यस्य, पादः, मम, शिरसि, निलीनः, ( अस्ति ), शकुनिखगविहङ्गाः, वृक्षशाखासु, लीनाः, ( सन्ति ), नर-पुरुष-मनुष्याः, उष्णदीर्घम्, श्वसन्तः, गृह-शरण-निष्ष्णाः, आतपम्, निर्वहन्ति ॥ १२ ॥

मृच्छकटिकम् (सटीक संस्कृत नाटक) · पृष्ठ 528, कुल 760 में से · BharatKosha