मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 529, कुल 760 में से
संदर्भ में पढ़ें| अष्टमोऽङ्कः | ४४१ |
|---|
( भाव !
शिरसि मम निलीनो भाव ! सूर्यस्य पादः
शकुनि-खग-विहङ्गा वृक्षशाखासु लीनाः ।
नर-पुरुष-मनुष्या उष्णदीर्घं श्वसन्तो
गृह-शरण-निष्षणा आतपं निर्वहन्ति ॥ १२ ॥ )
भावे अज्ज वि शे चेडो णाअच्छदि । अतणो विणोदणणिमित्तं किं पि गाइश्शं । ( इति गायति ) भावे ! भावे ! शुदं तुए, जं मए गाइदं । ( भाव ! अद्यापि स चेटो नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । ) ( भाव ! भाव ! श्रुतं त्वया यन्मया गीतम् ? )
शब्दार्थ—हे भाव !=श्रीमन्, सूर्यस्य=सूर्य की, पादः=किरण, मम=मेरे (शकार के), शिरसि=शिर पर, निलीनः=पड़ी हुई (अस्ति=है), शकुनिखगविहङ्गाः=पक्षी (खग=विहङ्ग), वृक्षशाखासु=पेड़ों की शाखाओं में, निलीनाः=छिपे हुये, (सन्ति=हैं), नरपुरुषमनुष्याः=मनुष्य (=नर=पुरुष), उष्णदीर्घम्=गरम और लम्बी, श्वसन्तः=सांसें लेते हुये, गृहशरणनिष्षणाः=गृह (=शरण) में बैठे हुये, आतपम्=गर्मी को, निर्वहन्ति=बिता रहे हैं ॥ १२ ॥
अर्थ—शकार—भाव !
सूर्य की किरण मेरे शिर पर गिर पड़ी है । (शकुनि, खग,) पक्षी लोग पेड़ों की शाखाओं में छिपे हुये हैं । (नर, पुरुष,) मनुष्य गरम और लम्बी सांसे लेते हुये, घरों में बैठे हुये गर्मी बिता रहे हैं (धूप का समय बिता रहे हैं) ॥ १२ ॥
टीका—शकारोऽपि ग्रीष्मातपस्य प्रभावं वर्णयति-शिरसीति । भाव इति गद्यस्थेन अन्वयो न कार्यः । भाव=श्रीमन्, सूर्यस्य=रवेः, पादः=किरणः, मम=शकारस्य, शिरसि=मूर्ध्नि, निलीनः=निपतितः, अस्ति, शकुनिखगविहङ्गाः=पक्षिणः, त्रयाणामेकत्वेऽपि शकारवचनात् न दोषः, तस्यैतादृशप्रयोगस्वभावात्, वृक्षाणाम्=पादपानाम् शाखासु=शाखास्थितपल्लवादीनां मध्ये इति भावः, लीनाः=ताभिः सह निःशब्दं विद्यमानाः, सुप्ताः वा, सन्ति, नर-पुरुष-मनुष्याः=मनुष्याः, त्रयोऽपि समानार्थाः, उष्णं तप्तं च तत् दीर्घम्=बहुकालव्यापि यथा स्यात् तथा, श्वसन्तः=श्वासं त्यजन्तः, गृहशरणनिष्षणाः = गृहे आसीनाः, गृहस्य शरणस्य च समानार्थता, 'शरणं गृहरक्षित्रो' रिति कोशात्, आतपम् = आतपयुक्तसमयम्, निर्वहन्ति = यापयन्ति । शकारवचनात् पुनरुक्तिदोषः सोढव्यः । मालिनी वृत्तम् ॥ १२ ॥
अर्थ—भाव ! अभी तक वह चेट (नौकर) नहीं आया है । अपना मन बहलाने के लिये कुछ गाऊँगा । (यह कह कर गाने लगता है ।) भाव ! तुमने सुना जो मैंने गाया ।