मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 547, कुल 760 में से
संदर्भ में पढ़ेंअष्टमोऽङ्कः ४५९
मि णं। भोदु, एव्वं दाव (प्रकाशम्) भावे! भावे! (योऽसौ मम वचना- नापमानेन तदा रोषाग्निः सन्धुक्षितः, अद्य एतस्याः पादप्रहारेणानेन प्रज्वलितः, तत् साम्प्रतं मारयाम्येनाम्। भवतु, एवं तावत्।) (भाव! भाव!)
जदिच्छशे लम्बदशा-विशालं पावालअं शुत्तशदेहि जुत्तम्। मंशं च खादुं तह तुट्ठिं अ कादुं चूहू चूहू चुक्कु चूहू चूहू त्ति ॥ २२ ॥
(यदीच्छसि लम्बदशाविशालं प्रावारकं सूत्रशतैर्युक्तम्।) मांसञ्च खादितुं तथा तुष्टिञ्च कर्तुं चूहू चूहू चुक्कु चूहू चूहू इति ॥ २२ ॥
[ भभक कर जलने लगी है।) अतः अब इसको मार डालूँगा। अच्छा ऐसा हो। (प्रकट में) भाव! भाव!
**टीका—**त्वम्=शकारः, उत्तिष्ठ=दूरं तिष्ठ, एकान्ते=एकस्मिन् भागे, वचनाव- मानेन=वचनानां वचनैर्वा अवमानः तिरस्कारः, तेन, तदा=पूर्वस्मिन् काले, रोषाग्निः=क्रोधाग्निः, सन्धुक्षितः=ज्वलनार्थं प्रदीप्तः, पादप्रहारेण=चरणतलताडनेन, प्रज्वलितः=प्रकृष्टरूपेण ज्वलितः, मारयामि=हन्मि।
**अन्वयः—**यदि, सूत्रशतैः, युक्तम्, लम्बदशाविशालम्, प्रावरकम्, तथा, चूहू, चूहू, चुक्कु, चूहू, चूहू' इति (ध्वनिं कुर्वन्), मांसम्, खादितुम्, तुष्टिम्, च, कर्तुम्, इच्छसि—॥ २२ ॥
**शब्दार्थ—**यदि=अगर, सूत्रशतैः=सैकड़ों सूतों-धागों से, युक्तम्=बना हुआ, लम्बदशाविशालम्=लम्बी किनारी होने से विशाल, प्रावरकम्=दुपट्टा को, तथा= और 'चूहू चूहू, चुक्कु चूहू, चूहू'—इस प्रकार की आवाज करते हुये, मांसम्=मांस को, खादितुम्=खाना, च=और तुष्टिम्=मन के सन्तोष को, कर्तुम्=करना, इच्छसि=चाहते हो—॥ २२ ॥
**अर्थ—**यदि सैकड़ों धागों से युक्त (बने हुये), लम्बी किनारी वाले विशाल दुपट्टे को (चाहते हो) तथा 'चूहू, चूहू, चुक्कु चूहू, चूहू' ऐसी आवाज करते हुये मांस खाना और (मन की) सन्तुष्टि करना चाहते हो तो—॥ २२ ॥
**टीका—**शकारः विटं प्रलोभयितुमाह-यदीति। यदि=चेत्, सूत्रशतैः= सूत्राणाम्=तन्तूनाम्, शतैः, युक्तम्=विशिष्टम्, निर्मितमिति भावः, प्रावरकम्= उत्तरीयम्, प्राप्तुमिच्छसि, तथा, 'चूहू चूहू चुक्कु, चूहू चूहू' इत्याकारकं ध्वनिं कुर्वन्, मांसम्=आमिषम्, खादितुम्=भोक्तुम्, च=तथा, तुष्टिम्=मनसः सन्तोषम्, कर्तुम्=विधातुम्, इच्छसि=अभिलषसि, अत्राग्रिमवाक्ये-अन्वयं कृत्वा निरपेक्षता सम्पादनीया। उपजातिवृत्तम् ॥ २२ ॥