भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 560, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 560

४७२ | मृच्छकटिकम्

( प्रकाशम् ) एवं भवतु, गच्छामि ।

वसन्तसेना--(पटान्ते गृहीत्वा) णं भणामि शलणागदम्हि । ( ननु भणामि शरणागतास्मि । )

विटः -- वसन्तसेने ! न भेतव्यं न भेतव्यम् । काणेलीमातः ! वसन्तसेना तव हस्ते न्यासः ।

शकारः--एव्वं, मम हत्थ एशा णाशेण चिट्ठदु । ( एवम्, मम हस्ते एषा न्यासेन तिष्ठतु । )


क्योंकि, कामः = कामभाव सम्भोग, विविक्तविश्रम्भरसः = एकान्त में और विश्वस्त में आनन्द देने वाला [ अस्ति = होता है । ] ॥ ३० ॥

अर्थविट — ( अपने में )

वसन्तसेना अपने घमण्डी स्वभाव के कारण, सम्भव है, हमारे सामने इस मूर्ख को स्वीकार न करे । इस लिये इसके लिये एकान्त कर दे रहा हूँ । क्योंकि काम-भाव एकान्त में और विश्वस्त [ स्थान ] में ही आनन्ददायक होता है ॥ ३० ॥

टीका -- धनादिलोभेन मातृराज्ञावशेन वा मनसा शकारमिच्छन्त्यपि अन्येषां समक्षं तं न स्वीकुर्यादतः किं करणीयमित्यत्र विटः चिन्तयति —अस्मदिति । वसन्तसेना = गणिकोत्तमा वसन्तसेना, शौण्डीर्यभावात् = उदारस्वभाववत्तया, दर्पयुक्त-प्रकृतिमत्तया वा, अस्माकम् = विटादीनाम्, समक्षम् = पुरतः, मूर्खम् = मूढं निर्गुणं शकारम्, = नैव, भजेत = सुरतभोगप्रदानेन प्रीणीयात्, सम्भावनायां लिङ् । तस्मात् = अस्मत्समक्षं मूर्खस्याङ्गीकारासम्भवात्, एषः, अहम् = विटः, अस्याः = वसन्तसेनायाः, कृते, विविक्तम् = निर्जनत्वम्, करोमि = विदधामि, हि = यतः, कामः = सुरतसम्भोगः, विविक्ते = विजने शून्ये वा, विश्रम्भे = विश्वस्ते, यद्वा, विजने यः विश्रम्भः, तत्र रसः = आनन्दः, यस्य तादृशो भवति । एवञ्चास्माभिरिहैकान्ते वसन्तसेना त्याज्या येन निर्विघ्नं सम्भोगसुखं प्राप्नुयादिति भावः । अर्थान्तर-न्यासोऽलंकारः, उपजातिवृत्तम् ॥ ३० ॥

अर्थ—( प्रकट रूप में ) ऐसा ही हो, तो चलता हूँ ।

वसन्तसेना—( कपड़े का छोर पकड़ कर ) मैं कह रही हूँ कि मैं आपकी शरण में आयी हूँ ।

विट—वसन्तसेना, मत डरो, मत डरो । काणेली के पुत्र ! वसन्तसेना तुम्हारे हाथ में मेरी धरोहर है ।

शकार—अच्छा, यह मेरे पास में धरोहर रूप से रहे ।

मृच्छकटिकम् (सटीक संस्कृत नाटक) · पृष्ठ 560, कुल 760 में से · BharatKosha