भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 559, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 559

अष्टमोऽङ्कः ४७१

शकारः—भावे ! एशा तव अग्गदो लज्जाअदि, ण मं अङ्गीकलेदि, ता गच्छ, थाअलअचेडे मए पिट्ठिदे गदे वि। एशे पलाइअ गच्छदि, ता तं गेण्हिअ आअच्छदु भावे। ( भाव ! एषा तवाग्रतो लज्जते, न मामङ्गीकरोति तद् गच्छ, स्थावरकचेटो मया ताडितो गतोऽपि। एष पलाय्य गच्छति, तत् तं गृहीत्वा आगच्छतु भावः । )

विटः— स्वगतम् )

अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् ।
तस्मात् करोम्येष विविक्तमस्या विविक्तविस्त्रम्भरसो हि कामः ॥ ३० ॥


सुक्षेत्रे=अच्छे खेत में, कण्टकिद्रुमाः = कांटेदार वृक्ष, भी, सुतराम् = अच्छी तरह, स्फीताः=विकसित, भवन्ति=होते हैं ॥ २६ ॥

अर्थ-विट

कुल को बताने से क्या लाभ ? इस [ अनुचित काम को करने ] में स्वभाव ही प्रमुख कारण होता है। अच्छे खेत में कांटेदार पौधे भी खूब विकसित होने ( बढ़ने ) लगते हैं ॥ २६ ॥

टीका—अकार्यकरणे कुलं नैव, अपितु मानवस्वभाव एव प्रमुखं कारणमस्तीति विटः प्रतिपादयति—किमिति । कुलेन = उच्चवंशेन, उपदिष्टेन = कथनेन, किम्=किं प्रयोजनम्, न किमपीति भावः, अत्र = अनुचितकार्यकरणे, शीलम्=स्वभावः, एव, कारणम्=प्रमुखो हेतुः । दृष्टान्तेन समर्थयते—सुक्षेत्रे=उत्कृष्टभूमिवति क्षेत्रे, कण्टकिद्रुमाः=कण्टकयुताः वृक्षाः अपि, सुतराम्=भृशम्, स्फीताः=विकसिताः, भवन्ति=जायन्ते । एवञ्च संद्वंशे समुत्पन्नोऽपि दुःस्वभावतयाकार्यं कर्तुं शक्नोतीति तद्भावः । अत्रार्थान्तरन्यासोऽलंकारः, पथ्यावक्त्रं वृत्तम् ॥ २६ ॥

अर्थशकार—भाव ! तुम्हारे आगे यह वसन्तसेना लजा रही है, अतः मुझे नहीं स्वीकार कर रही है, इसलिये जाओ । मेरे द्वारा प्रताडित स्थावरक चेट चला भी गया है । वह भाग कर जा रहा है । अतः भाव उसको पकड़ कर आ जाइये ।

अन्वयः—वसन्तसेना, शौण्डीर्यभावात्, अस्मत्समक्षम्, मूर्खम्, न, भजेत, तस्मात्, एषः [ अहम् ], अस्याः ( कृते ), विविक्तम्, करोमि, हि, कामः, विविक्तविश्रम्भरसः, [ अस्ति ] ॥ ३० ॥

शब्दार्थवसन्तसेना=वसन्तसेना, शौण्डीर्यभावात्=घमण्डी स्वभाव के कारण, अस्मत्समक्षम्=हम लोगों के सामने, मूर्खम्=मूर्ख शकार को, =नहीं, भजेत=स्वीकार करे [ करती हो ], तस्मात्=इस लिये, एषः=यह, [ अहम्=मैं विट ] अस्याः=इसके, [ कृते=लिये ], विविक्तम्=एकान्त, करोमि=कर दे रहा हूँ, हि=