मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
अष्टमोऽङ्कः ४७१
शकारः—भावे ! एशा तव अग्गदो लज्जाअदि, ण मं अङ्गीकलेदि, ता गच्छ, थाअलअचेडे मए पिट्ठिदे गदे वि। एशे पलाइअ गच्छदि, ता तं गेण्हिअ आअच्छदु भावे। ( भाव ! एषा तवाग्रतो लज्जते, न मामङ्गीकरोति तद् गच्छ, स्थावरकचेटो मया ताडितो गतोऽपि। एष पलाय्य गच्छति, तत् तं गृहीत्वा आगच्छतु भावः । )
विटः— स्वगतम् )
अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् ।
तस्मात् करोम्येष विविक्तमस्या विविक्तविस्त्रम्भरसो हि कामः ॥ ३० ॥
सुक्षेत्रे=अच्छे खेत में, कण्टकिद्रुमाः = कांटेदार वृक्ष, भी, सुतराम् = अच्छी तरह, स्फीताः=विकसित, भवन्ति=होते हैं ॥ २६ ॥
अर्थ-विट —
कुल को बताने से क्या लाभ ? इस [ अनुचित काम को करने ] में स्वभाव ही प्रमुख कारण होता है। अच्छे खेत में कांटेदार पौधे भी खूब विकसित होने ( बढ़ने ) लगते हैं ॥ २६ ॥
टीका—अकार्यकरणे कुलं नैव, अपितु मानवस्वभाव एव प्रमुखं कारणमस्तीति विटः प्रतिपादयति—किमिति । कुलेन = उच्चवंशेन, उपदिष्टेन = कथनेन, किम्=किं प्रयोजनम्, न किमपीति भावः, अत्र = अनुचितकार्यकरणे, शीलम्=स्वभावः, एव, कारणम्=प्रमुखो हेतुः । दृष्टान्तेन समर्थयते—सुक्षेत्रे=उत्कृष्टभूमिवति क्षेत्रे, कण्टकिद्रुमाः=कण्टकयुताः वृक्षाः अपि, सुतराम्=भृशम्, स्फीताः=विकसिताः, भवन्ति=जायन्ते । एवञ्च संद्वंशे समुत्पन्नोऽपि दुःस्वभावतयाकार्यं कर्तुं शक्नोतीति तद्भावः । अत्रार्थान्तरन्यासोऽलंकारः, पथ्यावक्त्रं वृत्तम् ॥ २६ ॥
अर्थ—शकार—भाव ! तुम्हारे आगे यह वसन्तसेना लजा रही है, अतः मुझे नहीं स्वीकार कर रही है, इसलिये जाओ । मेरे द्वारा प्रताडित स्थावरक चेट चला भी गया है । वह भाग कर जा रहा है । अतः भाव उसको पकड़ कर आ जाइये ।
अन्वयः—वसन्तसेना, शौण्डीर्यभावात्, अस्मत्समक्षम्, मूर्खम्, न, भजेत, तस्मात्, एषः [ अहम् ], अस्याः ( कृते ), विविक्तम्, करोमि, हि, कामः, विविक्तविश्रम्भरसः, [ अस्ति ] ॥ ३० ॥
शब्दार्थ—वसन्तसेना=वसन्तसेना, शौण्डीर्यभावात्=घमण्डी स्वभाव के कारण, अस्मत्समक्षम्=हम लोगों के सामने, मूर्खम्=मूर्ख शकार को, न=नहीं, भजेत=स्वीकार करे [ करती हो ], तस्मात्=इस लिये, एषः=यह, [ अहम्=मैं विट ] अस्याः=इसके, [ कृते=लिये ], विविक्तम्=एकान्त, करोमि=कर दे रहा हूँ, हि=
४७२ | मृच्छकटिकम्
( प्रकाशम् ) एवं भवतु, गच्छामि ।
वसन्तसेना--(पटान्ते गृहीत्वा) णं भणामि शलणागदम्हि । ( ननु भणामि शरणागतास्मि । )
विटः -- वसन्तसेने ! न भेतव्यं न भेतव्यम् । काणेलीमातः ! वसन्तसेना तव हस्ते न्यासः ।
शकारः--एव्वं, मम हत्थ एशा णाशेण चिट्ठदु । ( एवम्, मम हस्ते एषा न्यासेन तिष्ठतु । )
क्योंकि, कामः = कामभाव सम्भोग, विविक्तविश्रम्भरसः = एकान्त में और विश्वस्त में आनन्द देने वाला [ अस्ति = होता है । ] ॥ ३० ॥
अर्थ—विट — ( अपने में )
वसन्तसेना अपने घमण्डी स्वभाव के कारण, सम्भव है, हमारे सामने इस मूर्ख को स्वीकार न करे । इस लिये इसके लिये एकान्त कर दे रहा हूँ । क्योंकि काम-भाव एकान्त में और विश्वस्त [ स्थान ] में ही आनन्ददायक होता है ॥ ३० ॥
टीका -- धनादिलोभेन मातृराज्ञावशेन वा मनसा शकारमिच्छन्त्यपि अन्येषां समक्षं तं न स्वीकुर्यादतः किं करणीयमित्यत्र विटः चिन्तयति —अस्मदिति । वसन्तसेना = गणिकोत्तमा वसन्तसेना, शौण्डीर्यभावात् = उदारस्वभाववत्तया, दर्पयुक्त-प्रकृतिमत्तया वा, अस्माकम् = विटादीनाम्, समक्षम् = पुरतः, मूर्खम् = मूढं निर्गुणं शकारम्, न = नैव, भजेत = सुरतभोगप्रदानेन प्रीणीयात्, सम्भावनायां लिङ् । तस्मात् = अस्मत्समक्षं मूर्खस्याङ्गीकारासम्भवात्, एषः, अहम् = विटः, अस्याः = वसन्तसेनायाः, कृते, विविक्तम् = निर्जनत्वम्, करोमि = विदधामि, हि = यतः, कामः = सुरतसम्भोगः, विविक्ते = विजने शून्ये वा, विश्रम्भे = विश्वस्ते, यद्वा, विजने यः विश्रम्भः, तत्र रसः = आनन्दः, यस्य तादृशो भवति । एवञ्चास्माभिरिहैकान्ते वसन्तसेना त्याज्या येन निर्विघ्नं सम्भोगसुखं प्राप्नुयादिति भावः । अर्थान्तर-न्यासोऽलंकारः, उपजातिवृत्तम् ॥ ३० ॥
अर्थ—( प्रकट रूप में ) ऐसा ही हो, तो चलता हूँ ।
वसन्तसेना—( कपड़े का छोर पकड़ कर ) मैं कह रही हूँ कि मैं आपकी शरण में आयी हूँ ।
विट—वसन्तसेना, मत डरो, मत डरो । काणेली के पुत्र ! वसन्तसेना तुम्हारे हाथ में मेरी धरोहर है ।
शकार—अच्छा, यह मेरे पास में धरोहर रूप से रहे ।
अष्टमोऽङ्कः ४७३
विटः—सत्यम् ?
शकारः—सच्चं । ( सत्यम् । )
विटः—( किञ्चिद् गत्वा ) अथवा मयि गते नृशंसो हन्यादेनाम् । तद-
पवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । ( इत्येकान्ते स्थितः । )
शकारः—भोदु, मालइश्शं । अथवा कवडकावडिके एशे वम्हणे
वुड्ढखोडे कदावि ओवालिद-शलीले गदिअ, शिआले भविअ, हुलुमंलि
कलेदि ! ता एदश्श वञ्चणाणिमित्तं एव्वं दाव कलइश्शं ( कुसुमावचयं
कुर्वन्नात्मानं मण्डयति । ) वाशू ! वाशू ! वसन्तशेणिए ! एहि । ( भवतु, मार-
यिष्यामि । अथवा कपट-कापटिक एष ब्राह्मणो वृद्धशृगालः कदापि अपवारितं
शरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तम् एवं तावत्
करिष्यामि । ) ( बाले ! बाले ! वसन्तसेने एहि । )
विटः—अये ! कामी संवृत्तः । हन्त ! निर्वृत्तोऽस्मि । गच्छामि ।
( इति निष्क्रान्तः । )
शकारः—
शुवण्णं देमि पिअं वदेमि पडेमि शीशेण शवेष्टणेण ।
तधावि मं णेच्छशि शुद्धदन्ति ! किं शेवअं कष्टमआ मणुश्शा ॥ ३१ ॥
विट—सच ?
शकार—सच ।
विट—( कुछ दूर जाकर ) अथवा मेरे चले जाने पर पापी यह वसन्तसेना
को मार सकता है। इस लिये अपने शरीर को छिपाकर इसकी इच्छा ( क्या
करना चाहता है ) को देखता हूँ । ( यह कह कर एकान्त में खड़ा हो गया । )
शकार—अच्छा, मार डालूँगा । अथवा यह धूर्त ब्राह्मण बूढ़ा सियार कहीं
अपना शरीर छिपाता हुआ सियार बन कर छल कर रहा हो । तो अब इसको
धोखा देने के लिये ऐसा करता हूँ । ( फूल तोड़ता हुआ अपने को सजाता है । )
बाले, बाले, वसन्तसेने, आओ ।
विट—अरे ! यह तो कामुक बन गया । हां, अब मैं निश्चिन्त हो गया ।
अब चलता हूँ । ( यह कह कर निकल गया । )
अन्वयः—( तुभ्यम् ), सुवर्णकम्, ददामि, प्रियम्, वदामि, सवेष्टनेन, शीर्षेण,
पतामि, तथापि, हे शुद्धदन्ति !, माम्, सेवकम्, न, इच्छसि, मनुष्याः, कष्टमयाः
( भवन्ति ) ॥ ३१ ॥
शब्दार्थ—( तुभ्यम्=तुम्हें, वसन्तसेना को ), सुवर्णकम्=सोना, ददामि=
देता हूँ, प्रियम्=प्रिय, वदामि=कह रहा हूँ, सवेष्टनेन=पगड़ी-सहित, शीर्षेण=
| ४७४ | मृच्छकटिकम् |
|---|
( सुवण्णं ददामि, प्रियं वदामि, पतामि शीर्षेण सवेष्टनेन ।
तथापि मां नेच्छसि शुद्धदन्ति ! किं सेवकं कष्टमया मनुष्याः ॥ ३१ ॥ )
वसन्तसेना—को एत्थ सन्देहो ? ( कोऽत्र सन्देहः ? ) ( अवनतमुखी 'खलचरित' इत्यादि श्लोक-द्वयं पठति । )
खलचरित निकृष्ट ! जातदोषः कथमिह मां परिलोभसे धनेन ।
सुचरितचरितं विशुद्धदेहं न हि कमलं मधुपाः परित्यजन्ति ॥ ३२ ॥
सिर से, पतामि=गिरता हूँ, तथापि=फिर भी, हे शुद्धदन्ति=उज्ज्वल दाँतो वाली !, माम्=मुझ शकार को, सेवकम्=सेवक को, न=नहीं, इच्छसि=चाहती हो, मनुष्याः=मनुष्य, बहुकष्टमयाः=बहुत कष्टों से युक्त, ( भवन्ति होते हैं । ) ॥ ३१ ॥
अर्थ—शकार—
( मैं तुम्हें ) सोना देता हूँ, प्यारी बातें बोलता हूँ, पगड़ीसहित सिर से ( तुम्हारे पैरों पर ) गिरता हूँ । फिर भी हे उज्ज्वल दाँतों वाली वसन्तसेना ! मुझ सेवक को नहीं पसन्द करती हो । हाय ! मनुष्य बहुत कष्टों से युक्त होते हैं ॥ ३१ ॥
टीका—साम्प्रतं विटं वञ्चयितुं शकारश्चाटुवचनैः वसन्तसेनां प्रलोभयन्नाह—सुवर्णकमिति । अहम्, तुभ्यम्, सुवर्णकम्=प्रचुरं हिरण्मयम्, ददामि=प्रयच्छामि, प्रियम् = मनोहरम्, वदामि = भणामि, सवेष्टनेन = सोष्णीषेण, = शीर्षेण=शिरसा, पतामि=नमामि, तव पादयोरिति शेषः, तथापि=एवं कृते सत्यपि, हे शुभ्रदन्ति != उज्ज्वलदशने !, माम्=शकारम्, सेवकम्=दासम्, न=नैव, इच्छसि=कामयसे, मनुष्याः=लोकाः, कष्टमयाः=विविधक्लेशयुताः, मनुष्याणां मनोरथाः महताऽप्रासेनेव पूर्यन्ते इति तद्भावः । अर्थान्तरन्यासोऽलंकारः उपजातिवृत्तम् ॥ ३१ ॥
विमर्श—कुछ लोग 'किं शे बज्रं कष्टमआ मणुश्शा, इस प्राकृत में पदच्छेद मानकर 'किमस्याः वयं काष्ठमयाः मनुष्याः' यह संस्कृतच्छाया मानते हैं। इसके अनुसार 'अस्याः समक्षं मादृशाः जनाः काष्ठमयाः, काष्ठनिर्मित-पुत्तलिकासदृशाः व्यर्था इति' ऐसा भाव निकलता है । 'कष्टमयाः' यह पाठ मानकर कुछ व्याख्याकार 'निर्दयाः' यह अर्थ करते हैं, वह सामान्यतया असंगत प्रतीत होता है । यदि यह मान लिया जाय कि शकार 'मानवसामान्य के लिये जिसमें वसन्तसेना भी है' को निर्दय='परव्यथानभिज्ञ' मानता है—यह भाव है तब कथञ्चित् संगति हो सकती है । परन्तु आगे वाले वसन्तसेना के कथन 'कोऽत्र सन्देहः' का औचित्य कम सटीक बैठता है । ३१ ॥
अन्वयः—खलचरित !, निकृष्ट ! जातदोषः, ( त्वम् ), इह, माम्, धनेन, किम्, परिलोभसे ? सुचरितचरितम्, विशुद्धदेहम्, कमलम्, मधुपाः, न, हि, परित्यजन्ति ॥ ३२ ॥
अष्टमोऽङ्कः ४७५
शब्दार्थ—खलचरित !=दुर्जन के समान आचरण करने वाले, निकृष्ट !=नीच, ( त्वम्=तुम ), जातदोषः=जन्म से ही दूषित, अर्थात् जारज, इह=यहाँ, माम्=मुझ वसन्तसेना को, धनेन=धनसे, किम्=क्यों, परिलोभसे=लुभा रहे हो, सुचरित-चरितम्=सुन्दर आचरण करने वाले, विशुद्धदेहम्=पवित्र शरीरवाले, कमलम्=कमल को, मधुपाः=भौरे और भोरियां, नहि=नहीं, परित्यजन्ति=छोड़ती हैं ॥ ३२ ॥
अर्थ—वसन्तसेना—इसमें क्या सन्देह ? ( सिर नीचे झुका कर 'खलचरितम्' आदि दो श्लोकों को पढ़ती है—)
दुष्ट के समान आचरण करने वाले ! नीच ! जन्म से ही दोषयुक्त ! तुम मुझे धन से क्यों लुभा रहे हो ? सुन्दर आचरण करने वाले पवित्र शरीर वाले कमल को भौरे और भोरियां नहीं छोड़ते हैं ॥ ३२ ॥
टीका—
गुणिषु गुणज्ञो रमते नागुणिषु हि तस्य परितोषः ।
अलिरेति वनात् कमलं न हि भेकस्त्वेकवासोऽपि ॥
इति न्यायात् सतां सत्स्वेव अनुरागः साहजिकः, न तु निर्गुणेषु इति असति त्वयि मेऽनुरागः सुतरामस्वाभाविक इति मामधिगन्तुं तवेदं धनलोभप्रदर्शनं निष्फलमिति भङ्ग्या आह-खलेति । खलस्य=दुर्जनस्य चरितमिव चरितं यस्य तादृश, निकृष्ट=नीच, यद्वा खल=नीच, चरितनिकृष्ट=आचरेण दुष्ट इत्यपि व्याख्या । जातदोषः=जाते=जनने दोषः यस्य सः जारज इति भावः, यद्वा जातश्चासौ दोषः=समुत्पन्नपापः, निरपराधायाः मम जिघांसयेति भावः । इह=अस्मिन् प्रणय-प्रसङ्गे इति भावः, माम्=गुणैकपक्षपातिनीं वसन्तसेनाम्, धनेन=अर्थेन, द्रव्यादिना, किम्=कथम्=परिलोभसे=प्रलोभयसि, स्वार्थिकोऽत्र णिच् । प्रकृतार्थं दृढयितुमाह-मधुपाः=भ्रमराः, भ्रमर्यश्च, 'पुमान् स्त्रिया' पा. सू. १।२।६७ इति सूत्रेण एकशेषे सति उभयोर्बोधः, सुचरितम्=सुष्ठु कृतम्, चरितम्=जनमनोहरणरूपं कार्यं येन तादृशम्, पुरुष—पक्षे, सुचरितम्=सयत्नं रक्षितं चरितम्=स्वभावः येन तादृशन्, विशुद्धः=जन्मादौ सर्वथा निर्दोषः, देहः=शरीरं यस्य तं तादृशम्, कमलम्=पद्मम्, नहि=नैव, परित्यजन्ति = परिहरन्ति । यथा खलु गुणैकपक्षपातिन्यो भ्रमर्यो न कदापि कमलं परिहरन्ति तथैव गुणैकपक्षपातिन्यहमपि न कथमपि तं चारुदत्तं परिहरामीति तद्भावः ।
अत्र ‘परिलोभसे’ इत्यत्र परस्मैपदिना भाव्यम् । अतः केचिदत्र ‘परिलोभयसि’ इति अनुवदन्ति, तन्न सम्यक्, वृत्तलक्षणविरोधात् । एवञ्चात्र व्याकरणलक्षण-च्युतिरिति बोध्यम् । यदि तौदादिकं रूपमुच्यते तदा गुणानुपपत्त्या ‘परिलुभसि’ इत्यापत्तिः । तस्मादत्र च्युतसंस्कृतिदोषः स्थिर एव । अत्रा प्रस्तुत-प्रशंसा परिकराञ्चालंकारो, पुष्पिताग्रा वृत्तम् ॥ ३२ ॥
४७६ मृच्छकटिकम्
यत्नेन सेवितव्यः पुरुषः कुलशीलवान् दरिद्रोऽपि ।
शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥ ३३ ॥
अवि अ । सहआरपादवं सेविअ ण पलास-पादवं अङ्गीकरिस्सं ।
विमर्श—'परिलोभसे' यह प्रयोग व्याकरण की दृष्टि से अशुद्ध है । क्योंकि तुदादिगणीय 'लुभ विमोहने' और दिवादिगणीय 'लुभ गार्ध्ये' ये दोनों ही परस्मैपदी धातुयें हैं । अतः आत्मनेपद असंगत है । साथ ही तुदादि में गुण भी सम्भव नहीं है ।
कुछ विद्वान् 'परिलोभयसे' ऐसा मानते हैं । यह भी ठीक नहीं है क्योंकि एक अक्षर बढ़ जाने से छन्दोभंग है ।
इसकी उपपत्ति के दो मार्ग है ( १ ) अन्तर्भूत णिजर्थ मानकर परस्मैपद अथवा भ्वादिगण में किसी अवान्तरगण में समावेश ।
एक बात और ध्यान देने की है कि वसन्तसेना को प्राकृत बोलनी चाहिये थी । शकार जैसे पात्र के साथ संस्कृत का प्रयोग भी ठीक नहीं लगता है । इसीलिये कहीं कहीं "अवनतमुखी संस्कृतमाश्रित्य 'खलचरित' इत्यादि" पाठ मिलता है । लगता है कि किसी प्रकार प्राकृत अंश छूट गया । और उसकी संस्कृतच्छाया ही चलने लगी । इसीलिये 'परिलोभसे' यह अशुद्ध प्रयोग भी रह गया ॥ ३२ ॥
**अन्वयः—**दरिद्रः, अपि, कुलशीलवान्, यत्नेन, सेवितव्यः, हि, सदृशजन-समाश्रयः, कामः, पणस्त्रीणाम्, शोभा, [ भवति ] ॥ ३३ ॥
**शब्दार्थ—**दरिद्रः=निर्धन, अपि=भी, कुलशीलवान् = उच्चकुल और सत्स्वभाव से युक्त (व्यक्ति), यत्नेन=यत्न से, सेवितव्यः=सेवा करने योग्य होता है, हि=क्योंकि, सदृशजनसमाश्रयः=अपने योग्य व्यक्ति के साथ किया गया, कामः = सुरत-व्यवहार, पणस्त्रीणाम् = वेश्या स्त्रियों की, शोभा = प्रशंसनीय कार्य, [ भवति=होता है ] ॥ ३३ ॥
**अर्थ--**निर्धन भी कुल-सदाचारयुक्त पुरुष यत्नपूर्वक सेवा करने योग्य होता है, यत्नपूर्वक ऐसे व्यक्ति की सेवा करनी चाहिये क्योंकि अपने योग्य व्यक्ति के साथ किया गया सुरतव्यवहार ही वेश्याओं के लिये शोभा की बात होती है ॥ ३३ ॥
**टीका—**शकारस्य सेवायामनौचित्यं प्रकटयति— यत्नेनेति । दरिद्रः=निर्धनः, अपि, कुलशीलवान्=उच्चकुलोत्पन्नः सत्स्वभावयुक्तः पुरुषः, यत्नेन = प्रयासपूर्वकम्, सेवितव्यः = सेवनीयः, हि=यतः, सदृशजनः = स्वानुरूपजनः, समाश्रयः = अवलम्बनं यस्य तादृशः, कामः=मदनः, पणेन=धनादिना लभ्याः स्त्रियः=वेश्याः, तासां शोभा=आभूषणम्, प्रशंसनीयं कार्यं भवतीति भावः । अर्थान्तरन्यासोऽलंकारः, आर्या वृत्तम् ॥ ३३ ॥
अष्टमोऽङ्कः ४७७
अपि च, सहकारपादपं सेवित्वा न पलाशपादपमङ्गीकरिष्यामि । )
शकारः—दाशीए धीए ! दलिद्द-चालुदत्ताके शहआलपादवे कड़े, हम्गे उण पलाशो भणिदे, किंशुक वि ण कड़े। एव्वं तुमं मे गालिं देन्ती अज्ज वि तं ज्जेव चालुदत्तकं शुमलेशि ? ( दास्याः पुत्रि ! दरिद्र-चारुदत्तः सहकारपादपः कृतः, अहं पुनः पलाशो भणितः, किंशूकोऽपि न कृतः । एवं त्वं मे गालिं ददती अद्यापि तमेव चारुदत्तकं स्मरसि ? )
वसन्तसेना—हिअअगदो ज्जेव किं त्ति ण सुमरीअदि ? ( हृदयगत एव किमिति न स्मर्य्यते ? )
शकारः—अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि ! ता दलिद्द-शत्थवाहअ-मणुश्श-कामुकिणि ! चिट्ठ चिट्ठ ( अद्यापि ते हृदयगतं त्वाञ्च सममेव मोटयामि । तत् दरिद्र-सार्थवाहकमनुष्यकामुकि ! तिष्ठ तिष्ठ । )
वसन्तसेना—भण भण, पुणो वि भण । सलाहणिआईं एदाईं अक्खराईं । ( भण भण, पुनरपि भण । श्लाघनीयानि एतानि अक्षराणि । )
शकारः—पलिताअदु दाशीए पुत्ते दलिद्द-चालुदत्ताके तुमं । ( परित्रायतां दास्याः पुत्रो दरिद्र-चारुदत्तकस्त्वाम् । )
वसन्तसेना—परित्ताअदि जदि मं पेक्खदि । (परित्रायते यदि मां प्रेक्षते ।)
अर्थ—और भी, आम के वृक्ष का सेवन कर पलाश ( ढाँक ) के वृक्ष को नहीं स्वीकार करूँगी ।
शकार—दासी की बच्ची ! तूने दरिद्र चारुदत्त को आम का वृक्ष बना दिया, और मुझे 'पलाश' कह दिया, किंशुक भी नहीं कहा । इस प्रकार तुम मुझे गाली देती हुई आज भी उसी चारुदत्त को याद कर रही हो ।
वसन्तसेना—हृदय में ही है, उसे क्यों नहीं याद करूंगी ?
शकार—अभी ( आज ही ) तुम्हें और तुम्हारे हृदय में वर्तमान ( चारुदत्त ) दोनों को एक ही साथ पीस डालूंगा । इसलिये दरिद्र सार्थवाहक मनुष्य को चाहने वाली ! ठहर जा । ठहर जा ।
वसन्तसेना - कहो, कहो, फिर कहो, ये अक्षर प्रशंसनीय ( अच्छे लगने वाले ) हैं ।
शकार—दासी का पुत्र दरिद्र चारुदत्त तुम्हारी रक्षा करे ।
वसन्तसेना—यदि देखें तो अवश्य रक्षा करेंगे ।
४७८ मृच्छकटिकम्
शकारः-
किं शे शक्के वालिपुत्ते महिन्दे लम्भापुत्ते कालणेमी शुबन्धू ॥ लुद्दे लाआ दीणपुत्ते जडाऊ चाणक्के वा धुन्धुमाले तिशंकू ? ॥ ३४ ॥ (किं स शक्रो बालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमिः सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशंकुः ? ॥ ३४ ॥)
अन्वयः- सः, किम्, शक्रः, बालिपुत्रः, महेन्द्रः, रम्भापुत्रः, कालनेमिः, सुबन्धुः, राजा, रुद्रः, दोणपुत्रः, चाणक्यः, धुन्धुमारः, वा, त्रिशङ्कुः, अस्ति ? ॥ ३४ ॥
शब्दार्थ- सः=वह चारुदत्त, किम् = क्या, शक्रः=इन्द्र है ? बालिपुत्रः=वाली का पुत्र अङ्गद है ? महेन्द्रः=देवाधिपति इन्द्र है ? रम्भापुत्रः = रम्भाका पुत्र, कालनेमिः=कालनेमि, रावण का मामा है, सुबन्धुः = सुबन्धु नामक राक्षस है ? रुद्रः= शिव, राजा=राजा, द्रोणपुत्रः=द्रोण का पुत्र अश्वत्थामा, जटायुः=पक्षिराज जटायु, चाणक्यः=नन्दवंश का उच्छेदकर्ता कूटनीतिज्ञ चाणक्य, वा=अथवा, धुन्धुमारः=बृहदश्व का पुत्र, वा=अथवा, त्रिशङ्कुः=इस नाम से प्रसिद्ध सूर्यवंशी राजा विशेष है ? ॥ ३४ ॥
अर्थ-शकार- वह चारुदत्त क्या इन्द्र है ? बालि का पुत्र अंगद है ? महेन्द्र है ? रम्भा का पुत्र कालनेमि है ? अथवा सुबन्धु राक्षस है ? अथवा राजा रुद्र है ? अथवा द्रोणपुत्र अश्वत्थामा है ? या जटायु है ? अथवा धुन्धुमार है ? अथवा त्रिशंकु है ॥ ३४ ॥
टीका- वसन्तसेनया चारुदत्तकर्तृकरक्षायाः श्रवणं कृत्वा शकारस्तस्य शक्तेः परिहासार्थमाह - किमिति । अत्र श्लोके ‘किम्’ इति पदं सर्वैः कर्तृपदैरन्वेति । स = चारुदत्तः, शक्रः=इन्द्रः, किम्=इदं प्रश्ने, बालिपुत्रः=बालिसुतः अङ्गदः, अथवा वाली पुत्रो यस्य सः, महेन्द्रः=देवेन्द्रः, यद्वा महेन्द्रः=महैश्वर्यशाली बालिपुत्र इत्यन्वयः, रम्भायाः=एतन्नाम्याः वेश्यायाः, पुत्रः=सुतः, कालनेमिः=रावणस्य मातुलः, यद्वा हिरण्यकशिपोः पुत्रो दैत्यविशेषः, सुबन्धुः=एतन्नामा दैत्यविशेषः, रुद्रः=शिवः, राजा=भूपतिः, द्रोणपुत्रः=अश्वत्थामा, जटायुः = गरुडपुत्रः पक्षिविशेषः, चाणक्यः=नन्दवंशोच्छेदकर्ता कूटनीतिविशेषज्ञः, यद्वा, धुन्धुमारः=तन्नामा बृहदश्वपुत्रः, यद्वा, त्रिशङ्कुः=सूर्यवंश्यः प्रसिद्धो राजा, भवति किम् । एवञ्चैतेषु असम्भवत्वात् सः चारुदत्तः कथमपि त्वां रक्षितुं न पारयिष्यतीति तद्भावः । शालिनी वृत्तम् ॥ ३४ ॥
विमर्श- यहाँ श्लोक में 'किम्' पद को प्रत्येक कर्तृपद के साथ जोड़ना चाहिये । शकार की बातें असंगत होती ही हैं । शकार की मूर्खता प्रकट करने के लिये कुछ पदों को विशेषणं मानना चाहिये । जैसे-बालिपुत्रः महेन्द्रः, अथवा
अष्टमोऽङ्कः ४७६
अथवा एदे वि दे ण लक्खन्ति । ( अथवा एतेऽपि त्वां न रक्षन्ति । )
चाणक्केण जधा शीदा मालिदा भालदे जुए ।
एव्वं दे मोडइश्शामि जडाऊ विअ दोव्वदिं ॥ ३५ ॥
( चाणक्येन यथा सीता मारिता भारते युगे ।
एवं त्वां मोटयिष्यामि जटायुरिव द्रौपदीम् ॥ ३५ ॥ )
( इति ताडयितुमुद्यतः । )
वसन्तसेना—हा अत्ते ! कहिं सि ? हा अज्जचारुदत्त ! एसो जणो असम्पुण्ण-मणोरधो ज्जेव विवज्जदि । ता उद्धं अक्कन्दइस्सं अथवा वसन्तसेना उद्धे अक्कन्ददि त्ति लज्जणीअं क्खु एदं । णमो अज्जचारुदत्तस्स ।
बालिपुत्रः शक्रः, रम्भापुत्रः महेन्द्रः आदि । इनमें से कोई भी चारुदत्त नहीं है—अतः वह तुम्हारी रक्षा नहीं कर सकता, यह भाव है ॥ ३४ ॥
अन्वयः—यथा, भारते, युगे, चाणक्येन, सीता, मारिता, जटायुः, द्रौपदीम्, इव, एवम्, त्वाम्, मोटयिष्यामि ॥ ३५ ॥
शब्दार्थ—यथा=जिस प्रकार, भारते=महाभारत, युगे=युग में, चाणक्येन=चाणक्य द्वारा, सीता=जनकपुत्री, मारिता=मारी गयी थी, जटायुः=जटायु ने, द्रौपदीम्=द्रुपद की पुत्री, इव=के समान, एवम्=इसी प्रकार, त्वाम्=तुम्हें वसन्तसेना को, मोटयिष्यामि=मार डालूँगा ॥ ३५ ॥
अर्थ—अथवा ये ( पूर्वोक्त ) भी तुम्हारी रक्षा नहीं कर सकते—
महाभारत युग में चाणक्य ने जैसे सीता को मार डाला था, जटायु ने द्रौपदी को, ( मार डाला था ) उसी प्रकार मैं तुम्हें मार डालूँगा । [ मसल डालूँगा ] ॥ ३५ ॥
टीका—वसन्तसेनाया वधप्रकारं वर्णयति शकारः—चाणक्येनेति । यथा=येन प्रकारेण, भारते युगे=महाभारत-काले, चाणक्येन=एतन्नामकेन नीतिविशारदेन, सीता=रामपत्नी, मारिता=हता, जटायुः = गरुड़पुत्रः पक्षिविशेषः, द्रौपदीम्=पाण्डवपत्नीम्, इव=यथा, एवम्=अनेनैव प्रकारेण, अहं शकारः, त्वाम्=वसन्तसेनाम्, मोटयिष्यामि=हनिष्यामि । अत्र ऐतिह्यविरोधोऽपि शकारवचनत्वादुपेक्ष्यः । शक्वरी-विशेषः वृत्तम् ॥ ३५ ॥
विमर्श—चाणक्य द्वारा सीता का वध और जटायु द्वारा द्रौपदी का वध कहना इतिहास-विरुद्ध है। किन्तु शकार की प्रकृति असंगत बोलने की है। अतः इसे दोष न मान कर गुण मानना चाहिये ।
मोटयिष्यामि—इसका अर्थ 'मसल दूँगा' या 'गला मरोड़ कर मार डालूँगा' ॥ ३५ ॥
४८० मृच्छकटिकम्
( हा मात: ! कस्मिन्नसि ? हा आर्य्यचारुदत्त ! एष जन: असम्पूर्णमनोरथ एव विपद्यते । तदूर्ध्वमाक्रन्दिष्यामि । अथवा वसन्तसेना ऊर्ध्वमाक्रन्दतीति लज्जनीयं खल्वेतत् । नम आर्य्यचारुदत्ताय । )
**शकारः—**अज्जवि गब्भदाशी तश्श ज्जेव पावश्श णामं गेण्हदि ? ( इति कण्ठे पीडयन् ) शुमल गब्भदाशि ! शुमल ( अद्यापि गर्भदासी तस्यैव पापस्य नाम गृह्णाति ? ) ( स्मर गर्भदासि ! स्मर )
**वसन्तसेना—**णमो अज्जचारुदत्तस्स । ( नम आर्यचारुदत्ताय । )
**शकारः—**मल गब्भदाशि ! मल । ( म्रियस्व गर्भदासि ! म्रियस्व । )
( नाटयेन कण्ठे निपीडयन् मारयति । )
( वसन्तसेना मूर्च्छिता निश्चेष्टा पतति । )
शकारः—( सहर्षम् )
एदं दोषकलण्डिअं अविणअश्शावासभूदं खलं
लत्तं तश्श किलागदश्श रमणे कालागदं आददं ।
किं एशे शमुदाहलामि णिअअं बाहूण शलत्तणं
णीशाशे वि मलेइ अम्ब शुमला शीदा जधा भालदे ॥३६॥( एतां दोषकरण्डिकामविनयस्यावासभूतां खलां
रक्तां तस्य किलागतस्य रमणे कालागतामागताम् ।
किमेष समुदाहरामि निजकं बाह्वोः शूरत्वं
निःश्वासाऽपि म्रियते अम्बा सुमृता सीता यथा भारते ॥ ३६ ॥ )
**अर्थ—वसन्तसेना—**हाय माँ ! कहाँ हो ? हाय आर्य चारुदत्त ! अपूर्ण मनोरथवाली ही ( आपसे न मिल सकने वाली ही ) यह मैं मर रही हूँ । अतः अब जोर से चिल्लाऊँगी । अथवा वसन्तसेना जोर से रो रही है—यह लज्जा की बात है । आर्य चारुदत्त को प्रणाम है ।
**शकार—**अभी भी गर्भदासी ( जन्म से दासी ) उसी पापी का नाम ले रही है । ( ऐसा कह कर गला दबाता हुआ ) याद कर गर्भदासी ! याद कर ।
**वसन्तसेना—**आर्य चारुदत्त को प्रणाम है ।
**शकार—**मर जा गर्भदासी ! मर जा । ( अभिनय के साथ गला दबाता हुआ मार डालता है । )
( वसन्तसेना बेहोश=निश्चेष्ट होकर गिर जाती है । )
**अन्वयः—**दोषकरण्डिकाम्, अविनयस्य, आवासभूताम्, खलाम्, रक्ताम्, आगतस्य, तस्य, रमणे, आगताम्, कालागताम्, किल, एताम् ( मारयित्वा ), एषः, ( अहम् शकारः ), बाह्वोः, निजकम्, शूरत्वम्, किम्, उदाहरामि, यथा, भारते, सीता, सुमृता, ( तथैव ) निश्वासा, अपि, अम्बा, म्रियते ॥ ३६ ॥
अष्टमोऽङ्कः ४८१
शब्दार्थ—दोषकरण्डिकाम् = दोषों की पिटारी, अविनयस्य = अविनय की, उद्दण्डता की, आवासभूताम् = घरस्वरूप, खलाम् = दुष्टा, रक्ताम् = (चारुदत्त से) प्रेम करने वाली, आगतस्य = आये हुये, तस्य = उस (चारुदत्त) के, रमणे = रमण के लिये, आगताम् = आयी हुई, कालागताम् = मौत के समय के कारण आने वाली, आसन्न मृत्यु वाली, एताम् = इस (सामने खड़ी हुई वसन्तसेना) को, (मारयित्वा = मार कर), एषः = यह (अहम्=मैं शकार), बाह्वोः = भुजाओं की, निजकम् = अपनी, शूरत्वम् = बहादुरी को, किम् = क्या, उदाहरामि = प्रकट करूँ, कहूँ? यथा = जिस प्रकार, भारते = महाभारत काल में, सीता = राम की पत्नी, सुमृता = अच्छी प्रकार मर गयीं थीं, तथैव = उसी प्रकार, निश्वासा = सांसरहित, अपि = भी, अम्बा = माता, वसन्तसेना, म्रियते = मर रही है ॥ ३६ ॥
अर्थ—दोषों की पिटारी (खजाना), उद्दण्डता का आवास = घर, दुष्ट, (पहले उद्यान में) आये हुये उस चारुदत्त के रमण के लिये आई हुई, उसी में अनुरक्त, मृत्युवश अथवा आसन्नमृत्यु के कारण (इस स्थान पर) आई हुई, इस वसन्तसेना को मारकर अपनी भुजाओं की शूरता को क्या कहूँ? महाभारत में जिस प्रकार सीता अच्छी तरह मर गयीं थीं उसी प्रकार श्वासरहित भी यह माता मर रही है ॥ ३६ ॥
टीका—वसन्तसेनां मारयित्वा तद्घादात्मनः शूरत्वं प्रकटयितुमाह = एतामिति। दोषाणाम् = दुराचाराणाम् करण्डिकाम् वंशादिखण्डैर्विरचितः पात्रविशेषः, तम्, दोषाश्रयामित्यर्थः, अविनयस्य = दुर्विर्नयस्य, आवासभूताम् = वासस्थानतुल्याम्, खलाम् = दुःस्वभावाम्, आगतस्य = पूर्वमेव उद्याने समागतस्य, तस्य = चारुदत्तस्य, रमणे = रमणार्थम्, तं रमयितुमिति भावः, आगताम् = समुपस्थिताम्, रक्ताम् = तस्मिन्नेवानुरागवतीम्, किल = सम्भावयामीत्यर्थः, कालागताम् = कालेन = मृत्युना, आगताम् यद्वाः कालः = मृत्युः आगतः यस्यास्तादृशीम् एताम् = पुरो निपतितां वसन्तसेनामित्यर्थः, मारयित्वेति शेषः, एषः = अहं शकारः, बाह्वोः = भुजयोः, निजकम् = स्वकीयम्, शूरत्वम् = पराक्रमित्वम्, किम् उदाहरामि = प्रकटयामि, न कापि आवश्यकतेति भावः। भारते = महाभारते, यथा = येन प्रकारेण, सीता = रामपत्नी, सुमृता = सुष्ठु मृता, मृत्युमुपगता, तथैव, निश्वासापि = श्वासशून्यापि, अम्बा = माता वसन्तसेनेत्यर्थः, म्रियते = मृत्युमापद्यते इति भावः। अत्र मूर्खतया वसन्तसेनाम्म्बेति व्याहरति शकारः। भारते सीता यथेत्यत्र हतोपमा। शार्दूलविक्रीडितं वृत्तम् । ३६॥
विमर्श—करण्डिका = बांस आदि से बनी हुई टोकरी, डलिया। कालागताम् = कालेन = मृत्युना उपस्थिताम्' अथवा कालः = मृत्युः आगतः = उपस्थितः यस्यास्ताम्-ये अर्थ हो सकते हैं। भारते सीता यथा-यहाँ हतोपमा है ॥ ३६ ॥
३१ मृ०
४८२ मृच्छकटिकम्
इच्छन्तं मम णेच्छति त्ति गणिआ लोशेण मे मालिदा शुण्णे पुप्फकलण्डके त्ति शहशा पाशेण उत्ताशिदा। शे वा वञ्चिद भादुके मम पिदा मादेव शा दोप्पदी जे शे पेक्खदि णेदिशं ववशिदं पुत्ताह शूलत्तणं ॥ ३७ ॥ ( इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता शून्ये पुष्पकरण्डक इति सहसा पाशेन उत्त्रासिता। स वा वञ्चितो भ्राता मम पिता मातेव सा द्रौपदी योऽसौ पश्यति नेदृशं व्यवसितं पुत्रस्य शूरत्वम् ॥ ३७ ॥ )
अन्वयः- इच्छन्तम्, माम्, गणिका, न, इच्छति, इति, रोषेण, मया, शून्ये, पुष्पकरण्डके, सहसा, पाशेन, उत्त्रासिता, मारिता, च, सः, मम, भ्राता, वा, पिता, वञ्चितः, द्रौपदी, इव, सा, माता, च, यः, असौ, पुत्रस्य, ईदृशम्, शूरत्वम्, व्यवसितम्, च, न, पश्यति ॥ ३७ ॥
शब्दार्थ-- इच्छन्तम्=[ वसन्तसेना को ] चाहने वाले, माम्=मुझ शकार को, गणिका=वैश्या वसन्तसेना, न=नहीं, इच्छति=चाहती है, इति=इसलिये, रोषेण=गुस्सा से, मया=मेरे द्वारा, शकार के द्वारा, शून्ये=निर्जन, पुष्पकरण्डके=इस नाम वाले बगीचे में, सहसा=अचानक, पाशेन=फंन्दे से, उत्त्रासिता=पीडित की गयी, च=और, मारिता=मार डाली गयी, सः=वह, मम=मेरा, भ्राता=भाई, वा=अथवा, पिता=पिता, वञ्चितः=वञ्चित रहे [ नहीं देख सके ],च =और, द्रौपदी=पाण्डवपत्नी, इव=के समान, सा=वह, माता=मां, [भी वंचित रही], यः=जो, असौ=वह, पुत्रस्य=पुत्र शकार के, ईदृशम्=इस प्रकार की, शूरत्वम्=बहादुरी को, च=और, व्यवसितम्=प्रयास को, न=नहीं, पश्यति=देख रहे हैं, देख पाये हैं ॥ ३७ ॥
अर्थ--[ वसन्तसेना को ] चाहने वाले मुझ शकार को वेश्या [ वसन्तसेना ] नहीं चाहती है इसलिये गुस्सा के कारण मैंने सूनसान पुष्पकरण्डक उद्यान में फंदे से पीडित कर ( गला दबाकर ) मार डाला। वह मेरे पिता और द्रौपदी के समान मेरी माता [ मेरे पराक्रम को देखने से ] वंचित रह गये जिन्होंने अपने पुत्र की इस की हुई शूरता को नहीं देखा ॥ ३७ ॥
टीका-- वसन्तसेनां हत्वा शकारः स्वशूरत्वदर्शनात् वञ्चितं पित्रादिकं स्मरति-इच्छन्तमिति । इच्छन्तम्=अभिलषन्तम्, रन्तुमिति शेषः, माम्=शकारम्, न=नैव, इच्छति=अभिलषति, इति=अतो हेतोः, रोषेण=क्रोधेन, मया=शकारेण, शून्ये=निर्जने, पुष्पकरण्डके=एतन्नाम्ना प्रसिद्धे, राजोद्याने, गणिका=वसन्तसेना उत्त्रासिता=भयं प्रापिता, च=तथा, सहसा=झंटिति, पाशेन=रज्जुरूपेण बाहुना, मारिता=हता, सः=प्रसिद्धः, मम=शकारस्य, भ्राता=सहोदरः, वा=अथवा, पिता=
अष्टमोऽङ्कः ४८३
भोदु, सम्पढं बुद्धख्लोड़े आगमिश्रदित्ति ता ओशलिअ चिट्ठामि । ( भवतु, साम्प्रतं वृद्धशृगाल आगमिष्यतीति तदपसृत्य तिष्ठामि । ) ( तथा करोति । ) ( प्रविश्य चेटेन सह । ) विटः—अनुनीतो मया स्थावरकश्चेटः । तद् यावत् काणेलीमातरं पश्यामि । ( परिक्रम्यावलोक्य च ) अये ! मार्ग एव पादपो निपतितः । अनेन च पतता स्त्री व्यापादिता । भोः पाप ! किमिदमकार्यमनुष्ठितं त्वया ? तवापि पापिनः पतनात् स्त्रीवधदर्शनेनातीव पतिताः वयम् । अनिमित्तमेतद् यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः, सर्वथा देवताः स्वस्ति करिष्यन्ति । ( शकारमुपसृत्य ) काणेलीमातः ! एवं मया अनुनीतः स्थावरकश्चेटः ।
जनकः, वञ्चितः=प्रतारितः, दर्शनसुखं न प्राप्तवानिति भावः । द्रौपदी=पाण्डवपत्नी, इव=यथा, सा=प्रसिद्धा, माता=जननी, च, वञ्चितेति । लिङ्गव्यत्ययेन सम्बन्धः करणीयः, यः असौ=पूर्वोक्तः भ्राता, पिता, जननी च, पुत्रस्य=सुतस्य, शकारस्य, ईदृशम्=पूर्वोक्तम्, व्यवसितम्=अनुष्ठितम्, शूरत्वम्=पराक्रमम्, न=नैव, पश्यति=अवलोकयति । अतस्तेषां चक्षुषोः वैफल्यमिति तद्भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ३७ ॥
शब्दार्थ—वृद्धशृगालः=बूढ़ा सियार विट, पादपः=पेड़, व्यापादिता=मार डाली, पाप=पापी, पतिताः=पतित बना दिये गये, स्वस्ति=कल्याण, अनुनीतः=मना लाया, न्यासम्=धरोहर अर्थात् वसन्तसेना, अत्याकुलम्=बहुत घबड़ाकर, शपे=शपथ लेता हूँ, संस्थापय=कडा करो, धैर्य रखो, अविचारितम्=बिना सोंच विचार के ।
अर्थ—अच्छा, अब बूढ़ा सियार आता होगा अतः अब अलग हटकर बैठता हूँ। ( अलग हट कर बैठ जाता है । )
( चेट के साथ प्रवेश करके )
विट—मैंने स्थावरक चेट को मना लिया ( प्रसन्न कर लिया ) है । अतः काणेली के बच्चे ( शकार ) को देखता हूँ । ( घूमकर और देखकर ) अरे ! रास्ता में ही पेड़ गिर पड़ा है । और गिरते हुए इसने स्त्री को मार डाला है । अरे पापी ! तूने यह क्या अनुचित काम कर डाला ? तुझ पापी के गिरने से हुये स्त्री-वध को देखने से हम लोग बहुत अधिक पतित बना दिये गये । यह अपशकुन है, सचमुच वसन्तसेना के विषय में मेरा मन शंका से भर गया । देवता लोग हर स्थिति में कल्याण करेंगे । ( शकार के पास जाकर ) काणेली के पुत्र ! मैं इस प्रकार से चेट को मना कर ( प्रसन्न कर ) ले आया हूँ ।
४८४ मृच्छकटिकम्
शकारः—भावे ! शाअदं दे । पुत्तका ! थावलका ! चेडा ! तवावि शाअदं ? ( भाव ! स्वागतं ते । पुत्रक, स्थावरक ! चेट ! तवापि स्वागतम् । )
चेटः—अध इं ? ( अथ किम् ? )
विटः—मदीयं न्यासमुपनय ।
शकारः—कीदिशे णाशे ? ( कीदृशः न्यासः ? )
विटः—वसन्तसेना ।
शकारः—गदा । ( गता । )
विटः—क्व ?
शकारः— भावश्श ज्जेव पिट्टदो । ( भावस्यैव पृष्ठतः । )
विटः—( सवितर्कम् ) न गता खलु सा तया दिशा ।
शकारः—तुमं कदमाए दिशाए गड़े ? ( त्वं कतमया दिशा गतः ? )
विटः—पूर्वया दिशा ।
शकारः—शा वि दक्खिणाए गडा । ( सापि दक्षिणया गता । )
विटः—अहं दक्षिणया ।
शकारः—शा वि उत्तळाए । ( सापि उत्तरया । )
शकार—भाव ! तुम्हारा स्वागत है । पुत्रक, स्थावरक, चेट ! तुम्हारा भी स्वागत है ।
चेट—बहुत अच्छा । ( धन्यवाद )
विट—मेरी धरोहर वापस करो ।
शकार—कैसी ?
विट—वसन्तसेना ( धरोहर ) ।
शकार—चली गई ।
विट—कहाँ ?
शकार—भाव के ही पीछे ।
विट—( विचारपूर्वक ) उस तरफ़ से तो नहीं गयी ।
शकार—तुम किस ओर से गये थे ?
विट—पूर्वं दिशा में ।
शकार—वह दाहिनी ओर गयी ?
विट—मैं दाहिनी ओर गया था ।
शकार—वह भी उत्तर की ओर ।
अष्टमोऽङ्कः ४८५
विटः -अत्याकुलं कथयसि। न शुध्यति मे अन्तरात्मा। तत् कथय सत्यम्।
शकारः--शवामि भावश्श शीशं अत्तगकेलकेहिं पादेहिं, ता शण्डावेहि हिअअं, एशा मए मालिदा। ( शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम्, तत् संस्थापय हृदयम्, एषा मया मारिता । )
विटः--( सविषादम् ) सत्यं त्वया व्यापादिता ?
शकारः--जइ मम वअणे ण पत्तिआअसि, ता पेक्ख पढमं लट्ठित्रशालसण्ठाणाह शूलत्तणं। ( यदि मम वचने न प्रत्ययसे, तत् प्रेक्षस्व प्रथमं राष्ट्रिय-श्याल-संस्थानस्य शूरत्वम् । ) ( इति दर्शयति । )
विटः--हा ! हतोऽस्मि मन्दभाग्यः ! ( इति मूर्च्छितः पतति । )
शकारः--ही ही उवलदे भावे । ( ही ही ! उपरतो भावः । )
चेटः--शमश्शशदु शमश्शशदु भावे। अविचालिअं पवहणं आणन्तेण ज्जेव मए पढमं मालिदा ( समाश्वसितु समाश्वसितु भावः। अविचारितं प्रवहणमानयतैव मया प्रथमं मारिता । )
विट--बहुत बबड़ा कर कह रहे हो। मेरा मन शुद्ध नहीं हो रहा है, सन्देह कर रहा है। इसलिये सच-सच बताओ।
शकार--भाव ! आपके शिर की अपने पैरों से शपथ लेता हूँ। अतः अपने हृदय को कड़ा करो ( धीरज रखो )। उसे मैंने मार डाला।
विट--( दुःख के साथ ) सचमुच तुमने मार डाली ?
शकार--यदि मेरी बात पर विश्वास नहीं है तो राजा के साले संस्थान की पहली बहादुरी देख लो। ( यह कह कर दिखाता है। )
विट--हाथ, अभागा मैं मारा गया। ( मूर्च्छित होकर गिर जाता है। )
शकार--हा, हा, भाव मर गया।
चेट--भाव ! आप धीरज रखें, धीरज रखें, बिना सोचे समझे गाड़ी लाते हुये मैंने पहले ही मार डाली थी।
टीका--अपसृत्य = तत्स्थानं परित्यज्य, अनुनीतः = आनुकूल्यतां प्रापितः, व्यापादिता=मारिता, अकार्यम्=कुकृत्यम्, पातिताः=पापे निपातिताः, अनिमित्तम्=अपशकुनम्, स्वस्ति=कल्याणम्, न्यासम् = वसन्तसेनारूपमित्यर्थः, शुध्यति=निर्दोषतां याति, शङ्कारहितं भवतीति भावः, संस्थापय = दृढं कुरु, धैर्यं धारयेति भावः, व्यापादिता = मारिता, उपरत: = मर गया, अविचारितम् = सम्यग् रूपेणानवलोकितमित्यर्थः ।
४८६ मृच्छकटिकम्
विटः – (समाश्वस्य सकरुणम्) हा वसन्तसेने !
दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रतिः हा हालङ्कृतभूषणे ! सुवदने ! क्रीडारसोद्भासिनि ! । हा सौजन्यनदि ! प्रहासपुलिने ! हा मादृशामाश्रये ! हा हा नश्यति मन्मथस्य विपणिः सौभाग्यपण्याकरः ॥ ३८ ॥
**विमर्श—**विट को रास्ता में एक पेड़ का गिरा होना और उससे किसी स्त्री की हत्या होना दिखाई देता है । यह आगे के कथानक में सहायक है । शकार वसन्तसेना की हत्या करके यह अपराध निर्दोष चारुदत्त के सिर पर डाल देता है । न्यायालय के निर्देश से जब उद्यान देखा जाता है तब इसी मरी हुई स्त्री को वसन्त-सेना मान लिया जाता है । फलस्वरूप चारुदत्त पर वसन्तसेना की हत्या का अपराध सिद्ध हो जाता है और मृत्युदण्ड दे दिया जाता है ।
**अन्वयः—**दाक्षिण्योदकवाहिनी, विगलिता; रातेः, स्वदेशम्, याता, हा, हा, अलङ्कृतभूषणे ! सुवदने ! क्रीडारसोद्भासिनि !, हा प्रहासपुलिने ! सौजन्यनदि ! हा ! मादृशाम् आश्रये !, हा, हा, मन्मथस्य, विपणिः, सौभाग्यपण्याकरः, नश्यति ॥ ३८ ॥
**शब्दार्थ—**दाक्षिण्योदकवाहिनी = उदारतारूपी जल की नदी, विगलिता= समाप्त हो गयी, रतिः = कामदेव की प्रिया, स्वदेशम् = अपने देश (स्वर्ग), यांता=चली गयी, हा, हा, अलङकृतभूषणे=हाय, हाय ! अलंकारों को भी सजाने-वाली !, सुवदने = सुन्दर शरीर वाली ! या सुमुखी, क्रीडारसोद्भासिनि=काम-क्रीडा रस को शोभित करने वाली ! हा प्रहासपुलिने = हाय हाय हंसी रूपी बालू के तटों वाली !, सौजन्यनदि=सुजनता रूपी नदी !, हा, हा मादृशाम् आश्रये=हाय हाय, हम जैसे लोगों की सहारा !, हा-हा मन्मथस्य = हाय हाय कामदेव की, विपणिः = बाजार, सौभाग्यपण्याकरः = सौन्दर्यरूपी विक्रेय पदार्थों की खान, नश्यति=नष्ट हो गयी ॥ ३८ ॥
अर्थ—विट— (धैर्य धारण करके, करुणापूर्वक) हा वसन्तसेने !
उदारतारूपी जल की नदी समाप्त हो गयी । कामदेव की पत्नी रति अपने लोक (स्वर्ग) चली गयी । हाय, हाय ! आभूषणों को भी सुशोभित करने वाली ! सुन्दर मुख (=शरीर) वाली ! हाय ! कामक्रीडा के रस को सुशोभित करने वाली ! हाय सुजनतारूपी नदी ! हाय परिहास का बालुकामय किनारा ! हाय-हाय हमारे जैसे लोगों की सहारा ! हाय हाय ! कामदेव की बाजार, सुन्दरतारूपी विक्रेय पदार्थों की खान नष्ट हो गयी ॥ ३८ ॥
अष्टमोऽङ्कः ४८७
( सास्त्रम् ) कष्टं भोः ! कष्टम् ।
किं नु नाम भवेत् कार्यमिदं येन त्वया कृतम् ।
अपापा पापकल्पेन नगरश्रीर्निपातिता ॥ ३६ ॥
टीका—शकारस्य मुखात् वसन्तसेनाबधमाकर्ण्य मर्माहतो विटः तस्याः गुणान् वर्णयन् बिलपति—दाक्षिण्येति । दाक्षिण्यम् = औदार्यमेव उदकम् = जलम्, तस्य वाहिनी = नदी, विगलिता = समाप्ता, शुष्कतां गतेत्यर्थः, रतिः = कामदेवस्य पत्नी, स्वदेशम् = स्वर्गलोकम्, याता = प्रस्थिता, अलङ्कृतम् = भूषितम्, भूषणम् = अलङ्कारः यया तत्सम्बुद्धौ रूपम्, अस्याः शरीरसम्पर्कादलङ्काराणां सौन्दर्यवृद्धिर्भवतीत्यर्थः, सुवदने = सुमुखि, शोभनशरीरे, क्रीडायाम् = कामक्रीडायाम्; यो रसः = अनुरागः, तस्य उद्भासिनि = प्रकाशिके !, हा सौजन्यनदि = सुजनतारूपसरित् !, प्रहासः = प्रकृष्टं हास्यम्, एव पुलिनम् = सैकतम्, यस्यास्तादृशि, हासस्य शुभ्रतया वर्णनं सर्वथा शास्त्रसंगतमिति बोध्यम्, हा, मादृशाम् = मत्सदृशानां विटानाम्, आश्रये = धनदानादिना पोषिके !, हा हता इदानीं लोका इति शेषः, मन्मथस्य = कामस्य, विपणिः = पण्यवीथिका, सौभाग्यम् = हावभावविलासादि सौन्दर्यम् एव पण्यम् = विक्रेय-द्रव्यम्, तेषाम् आकरः = निधिः, नश्यति = नाशं गच्छति, नष्टेति भावः, वर्तमान-सामीप्ये लटः प्रयोगः । अत्र रूपकालंकारः, शार्दूलविक्रीडितं वृत्तम् ॥ ३८ ॥
विमर्श—यहाँ कुछ पद प्रथमान्त है और कुछ सम्बोधनान्त । 'हा' इस खेदसूचक अव्यय को सम्बोधनान्त सभी पदों के साथ जोड़ लेना चाहिये । 'विपणि' और 'पण्य' इन दोनों का एक साथ प्रयोग सुन्दर नहीं है ॥ ३८ ॥
अन्वयः—किम्, नु, नाम, कार्यम्, भवेत्, येन, त्वया, इदम्, कृतम्, पाप-कल्पेन, ( त्वया ), अपापा, नगरश्रीः, निपातिता ॥ ३९ ॥
शब्दार्थ—किम् = कौन सा, नु = प्रश्नवाचकता-द्योतक अव्यय है, नाम = सम्भावना अर्थ में है, कार्यम् = काम, भवेत् = होगा, येन = जिसके कारण, त्वया = तुम्हारे द्वारा = शकार द्वारा, इदम् = यह हत्या रूपी पाप, कृतम् = किया गया, पापकल्पेन = पापतुल्य तुम्हारे द्वारा, अपापा = निष्पाप, नगरश्रीः = उज्जयिनी की लक्ष्मी = सुन्दरता, निपा-तिता = समाप्त कर डाली गयी ॥ ३६ ॥
अर्थ—( आसुओं के साथ ) कष्ट है अरे ! कष्ट है । कौन सा काम होगा जिसके कारण तूने यह ( वसन्तसेना वध रूपी ) काम कर डाला ? पापके समान तूने निष्पाप और उज्जयिनी नगर की लक्ष्मी को मार डाला ॥ ३६ ॥
टीका—वसन्तसेनाबधार्थं शकारं विनिन्दन्नाह—किमिति । किम् नु = प्रश्न-बोधकमव्ययम्, नाम = इदं सम्भावनायाम्, कार्यम् = प्रयोजनम्, भवेत् = स्यात्, येन = यस्मात् कारणात्, त्वया = शकारेण, इदम् = वसन्तसेनाहत्यारूपं पापकर्म, कृतम् =
४८८ | मृच्छकटिकम्
( स्वगतम् ) अये ! कदाचिदयं पाप इदमकार्यं मयि संक्रामयेत् । भवतु, इतो गच्छामि । ( इति परिक्रामति । )
( शकारः उपगम्य धारयति । )
विटः-- पाप ! मां मा स्प्राक्षीः । अलं त्वया । गच्छाम्यहम् ।
शकारः-- अले ! वशन्तशेणिअं शअं ज्जेव मालिअ मं दुशिअ कहिं पलाशशि ? शम्पदं ईदिशे हग्गे अणाधे पाविदे । ( अरे ! वसन्तसेनां स्वयमेव मारयित्वा मां दूषयित्वा कुत्र पलायसे ? साम्प्रतम् ईदृशोऽहमनाथः प्राप्तः । )
विटः-- अपध्वस्तोऽसि ।
शकारः--
अत्थं शदं देमि शुवण्णअं दे कहावणं देमि शवोडिअं दे । एशे दुशेट्ठाणं पलक्कमे शामाणए भोदु मणुश्शआणं ॥ ४० ॥
( अर्थम् शतं ददामि सुवर्णकं ते कार्षापणं ददामि सवोडिकं ते । एष दोषस्थानं पराक्रमो मे सामान्यको भवतु मनुष्याणाम् ॥ ४० ॥ )
विहितम्, पापकल्पेन = पापतुल्येन साक्षात्पापरूपेणेति भावः, शकारेण, निष्पापा = निर्दोषा, पापलेशरहिता, अथ च नगरस्य = उज्जयिन्याः, श्रीः = शोभा, लक्ष्मी-रित्यर्थः, निपातिता = विनाशिता, हतेति भावः । पापकल्पेनेत्यत्र 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' ( पा. सू. ५ । ३ ६७ ) इति कल्पप्प्रत्ययः, अत्र रूपकमलङ्कारः । पथ्यावक्त्रं वृत्तम् ॥ ३६ ॥
अर्थ-- ( अपने में ) यह पापी कहीं इस अपराध को मेरे ऊपर न मढ़ दे । अच्छा, यहाँ से जाता हूँ । ( यह कह कर घूमता है । )
( शकार पास जाकर विट को पकड़ लेता है । )
विट-- अरे पापी ! मत छुओ, मत छुओ । तुम्हारा प्रयास व्यर्थ है । मैं जाता हूँ ।
शकार-- अरे ! वसन्तसेना को अपने आप मार कर मुझ पर दोष लगाकर कहाँ भाग जा रहे हो ? अब मैं ऐसा अनाथ हो गया हूँ ।
विट-- तुम पतित हो ।
अन्वयः-- ( अहम्, ते, शतम् ), सुवर्णकम्, अर्थम्, ददामि, ते, सवोडिकम्, कार्षापणम्, ददामि, दोषस्थानम्, मम, एषः, पराक्रमः, मनुष्याणाम्, सामान्यकः, भवतु ॥ ४० ॥
शब्दार्थ-- ( अहम् = मैं शकार ), ते = तुम्हें, विटको, शतम् = सौ, सुवर्णकम् = सोना ( स्वर्णमय ), अर्थम् = धन, ददामि = देता हूँ, दूँगा । ते = तुम्हें, सवोडिकम् = कौड़ियों के साथ, कार्षापणम् = तत्कालीन सोने का सिक्का, ददामि = देता हूँ, दूँगा, दोषस्थानम् = अपराध का स्थान = आश्रय, मम = मेरा, शकार का, एषः = यह,
| अष्टमोऽङ्कः | ४८६ |
|---|
विटः-- धिक्, तवैवास्तु ।
चेटः-- शान्तं पावं । ( शान्तं पापम् । )
( शकारो हसति । )
पराक्रमः = पराक्रम, मनुष्याणाम् = मनुष्यों का, सामान्यकः = साधारण, भवतु = हो जाये । [ अर्थात् मुझ विशेष से हट कर सामान्यजन पर आ जाय । ] ॥ ४० ॥
अर्थ--शकार--
मैं तुमको सौ सोने के सिक्के [ मोहरें वगैरह ] दूँगा । मैं तुम्हें कौड़ियों के साथ एक कार्षापण ( तत्कालीन सिक्का ) दूँगा । अपराध का स्थान मेरा यह पराक्रम ( हत्या ) मनुष्यों का साधारण कार्य हो जाय । अर्थात् मुझ से हटाकर किसी साधारण व्यक्ति पर यह अपराध लगा दो ॥ ४० ॥
टीका-- स्वकृतं वसन्तसेनाहत्यारूपं पापं स्वस्मादपाकृत्य अन्यस्मिन्नारोपयितुं विटं धनादिना प्रलोभयन्नाह शकारः— अर्थमिति । ( अहम् = शकारः ) ते = तुभ्यम्, विटायेत्यर्थः, शतम् = शतसंख्याकम्, अपरिमितमित्यर्थः, सुवर्णकम् = स्वर्णमयम्, अर्थम् = धनम्, ददामि = दास्यामि, ते = तुभ्यम्, विटायेत्यर्थः, सवोडिकम् = बोडीपणचतुर्थांशः, तत्सहितम् कार्षापणम् = षोडशपणात्मकं ददामि, बोडी विंशतिकपर्दकः गोडे प्रसिद्धः, तच्चतुष्टयं पणः, ते षोडश कार्षापणाः कहावण इत्येके इति पृथ्वीधरः, दोषस्थानम् = अपराधस्य वसन्तसेनावधरूपस्य, स्थानम् = आस्पदम्, कारणमित्यर्थः, मे = मम, शकारस्य, एषः = तदानीमेव कृतः, पराक्रमः = वसन्तसेनाहत्यारूपः, मनुष्याणाम् = लोकानाम्, सामान्यकः = साधारणः, भवतु = अस्तु । मया नैव अपि त्वन्येन केनचिज्जनेन वसन्तसेना हतेति प्रचारं कुर्विति तदाशयः । उपजातिवृत्तम् ॥ ४० ॥
विमर्श प्राकृतपाठ की संस्कृतच्छाया इस प्रकार भी की गई है अत्थम् = अर्थान्, शवोदिअं = सवोपणम्, दुशट्ठाण = दुःशब्दानाम्, फलकामे = फलक्रमः । यहाँ 'कार्षापण' और 'ब्रोडिक' के अर्थ में मतभेद है। 'कार्षापण' प्राचीन काल से ही एक सिक्का के लिये प्रसिद्ध है । यह कभी सोने का और कभी चाँदी का बना होता था । प्रसिद्ध टीकाकार पृथ्वीधर के अनुसार बोडी बीस कौड़ियों के समान होता था ।
शकार हर प्रकार के प्रलोभन देकर विट को अनुकूल बनाकर यह अपराध किसी अन्य साधारण पुरुष का बनाना चाहता है ॥ ४० ॥
अर्थ--विट-- तुम्हें धिक्कार है, यह धन तुम्हारा ही रहे ।
चेट - ऐसा मत कहो ।
( शकार हसता है । )
४६० | मृच्छकटिकम्
विट:--
अप्रीतिर्भवतु विमुच्यतां हि हासो धिक् प्रीतिं परिभवकारिकामनार्याम् । मा भूच्च त्वयि मम सङ्गतं कदाचि- दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥
**शकारः--**भावे ! पशीद पशीद । एहि णलिणीए पविशअ कीलेम्ह । ( भाव ! प्रसीद प्रसीद । एहि, नलिन्यां प्रविश्य क्रीडावः । )
**अन्वयः--**हासः, विमुच्यताम्, अप्रीतिः, भवतु, हि, परिभवकारिकाम्, अनार्याम्, प्रीतिम्, धिक्, त्वयि, मम, सङ्गतम्, कदाचित्, मा भूत्, च, आच्छिन्नम्, निर्गुणम्, धनुः, इव, ( त्वाम् ) त्यजामि ॥ ४१ ॥
**शब्दार्थ --**हासः=हंसी, विमुच्यताम्=छोड़ दो, अप्रीतिः=शत्रुता, भवतु=हो जाय, हि=क्योंकि, परिभवकारिकाम्=अपमान कराने वाली, अनार्याम्=निन्दनीय, घृणायोग्य, प्रीतिम्=प्रेम, मित्रता को, धिक्=धिक्कार है, त्वयि=तुम्हारे साथ में, मम=मेरा, संगतम्=संग, कदाचित्=कभी, मा भूत्=न हो, आच्छिन्नम्=टूटे हुये, निर्गुणम्=डोरी-रहित, धनुः इव=धनुष के समान, त्वाम्=तुम शकार को, त्यजामि=छोड़ देता हूँ ॥ ४१ ॥
अर्थ--विट --
हंसी छोड़ो । ( तुम्हारे साथ ) मेरी मित्रता न रहे । क्योंकि अपमान कराने वाली निन्दनीय इस मित्रता को धिक्कार है । तुम्हारा मेरा साथ कभी भी न हो । टूटे और डोरीरहित धनुष के समान तुम्हें छोड़ता हूँ । ( धनुषपक्ष में-निर्गुण=डोरी रहित, मित्रतापक्ष में गुणों से शून्य ) ॥ ४१ ॥
**टीका --**साम्प्रतं विटः शकारेण सह मैत्रीविच्छेदमेवेच्छन्नाह — अप्रीतिरिति । हासः=हसनम्, विमुच्यताम्=त्यज्यताम्, ते हासो न मे रोचते इति भावः, अप्रीतिः=प्रीत्यभावः शत्रुत्वमिति भावः, भवतु=अस्तु, तत्त्यागे हेतुमाह-हि=यतः, परिभवस्य=अनादरस्य कारिकाम्=सम्पादिकाम्, अनार्याम्=दूषिताम्, प्रीतिम्=मित्रताम्, धिक्=धिगस्तु । त्वयि=दुष्टे शकारे, मम=विटस्य, संगतम्=सम्मेलनम्, कदाचित्=कदाचिदपि मा भूत्=न स्यात्, अतः, आच्छिन्नम्=त्रुटितम्, भग्नम् निर्गुणम्=प्रत्यञ्चारहितम् पक्षे दयादाक्षिण्यादिशून्यम्, त्वाम्=शकारम्, त्यजामि=परिहरामि । प्रहर्षिणी वृत्तम् ॥ ४१ ॥
**अर्थ--शकार--**भाव ! प्रसन्न हो जाओ, प्रसन्न हो जाओ । आओ इस कमलों वाले तालाब में घुस कर स्नान करें ।