मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 576, कुल 760 में से
संदर्भ में पढ़ें४८८ | मृच्छकटिकम्
( स्वगतम् ) अये ! कदाचिदयं पाप इदमकार्यं मयि संक्रामयेत् । भवतु, इतो गच्छामि । ( इति परिक्रामति । )
( शकारः उपगम्य धारयति । )
विटः-- पाप ! मां मा स्प्राक्षीः । अलं त्वया । गच्छाम्यहम् ।
शकारः-- अले ! वशन्तशेणिअं शअं ज्जेव मालिअ मं दुशिअ कहिं पलाशशि ? शम्पदं ईदिशे हग्गे अणाधे पाविदे । ( अरे ! वसन्तसेनां स्वयमेव मारयित्वा मां दूषयित्वा कुत्र पलायसे ? साम्प्रतम् ईदृशोऽहमनाथः प्राप्तः । )
विटः-- अपध्वस्तोऽसि ।
शकारः--
अत्थं शदं देमि शुवण्णअं दे कहावणं देमि शवोडिअं दे । एशे दुशेट्ठाणं पलक्कमे शामाणए भोदु मणुश्शआणं ॥ ४० ॥
( अर्थम् शतं ददामि सुवर्णकं ते कार्षापणं ददामि सवोडिकं ते । एष दोषस्थानं पराक्रमो मे सामान्यको भवतु मनुष्याणाम् ॥ ४० ॥ )
विहितम्, पापकल्पेन = पापतुल्येन साक्षात्पापरूपेणेति भावः, शकारेण, निष्पापा = निर्दोषा, पापलेशरहिता, अथ च नगरस्य = उज्जयिन्याः, श्रीः = शोभा, लक्ष्मी-रित्यर्थः, निपातिता = विनाशिता, हतेति भावः । पापकल्पेनेत्यत्र 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' ( पा. सू. ५ । ३ ६७ ) इति कल्पप्प्रत्ययः, अत्र रूपकमलङ्कारः । पथ्यावक्त्रं वृत्तम् ॥ ३६ ॥
अर्थ-- ( अपने में ) यह पापी कहीं इस अपराध को मेरे ऊपर न मढ़ दे । अच्छा, यहाँ से जाता हूँ । ( यह कह कर घूमता है । )
( शकार पास जाकर विट को पकड़ लेता है । )
विट-- अरे पापी ! मत छुओ, मत छुओ । तुम्हारा प्रयास व्यर्थ है । मैं जाता हूँ ।
शकार-- अरे ! वसन्तसेना को अपने आप मार कर मुझ पर दोष लगाकर कहाँ भाग जा रहे हो ? अब मैं ऐसा अनाथ हो गया हूँ ।
विट-- तुम पतित हो ।
अन्वयः-- ( अहम्, ते, शतम् ), सुवर्णकम्, अर्थम्, ददामि, ते, सवोडिकम्, कार्षापणम्, ददामि, दोषस्थानम्, मम, एषः, पराक्रमः, मनुष्याणाम्, सामान्यकः, भवतु ॥ ४० ॥
शब्दार्थ-- ( अहम् = मैं शकार ), ते = तुम्हें, विटको, शतम् = सौ, सुवर्णकम् = सोना ( स्वर्णमय ), अर्थम् = धन, ददामि = देता हूँ, दूँगा । ते = तुम्हें, सवोडिकम् = कौड़ियों के साथ, कार्षापणम् = तत्कालीन सोने का सिक्का, ददामि = देता हूँ, दूँगा, दोषस्थानम् = अपराध का स्थान = आश्रय, मम = मेरा, शकार का, एषः = यह,