मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 575, कुल 760 में से
संदर्भ में पढ़ेंअष्टमोऽङ्कः ४८७
( सास्त्रम् ) कष्टं भोः ! कष्टम् ।
किं नु नाम भवेत् कार्यमिदं येन त्वया कृतम् ।
अपापा पापकल्पेन नगरश्रीर्निपातिता ॥ ३६ ॥
टीका—शकारस्य मुखात् वसन्तसेनाबधमाकर्ण्य मर्माहतो विटः तस्याः गुणान् वर्णयन् बिलपति—दाक्षिण्येति । दाक्षिण्यम् = औदार्यमेव उदकम् = जलम्, तस्य वाहिनी = नदी, विगलिता = समाप्ता, शुष्कतां गतेत्यर्थः, रतिः = कामदेवस्य पत्नी, स्वदेशम् = स्वर्गलोकम्, याता = प्रस्थिता, अलङ्कृतम् = भूषितम्, भूषणम् = अलङ्कारः यया तत्सम्बुद्धौ रूपम्, अस्याः शरीरसम्पर्कादलङ्काराणां सौन्दर्यवृद्धिर्भवतीत्यर्थः, सुवदने = सुमुखि, शोभनशरीरे, क्रीडायाम् = कामक्रीडायाम्; यो रसः = अनुरागः, तस्य उद्भासिनि = प्रकाशिके !, हा सौजन्यनदि = सुजनतारूपसरित् !, प्रहासः = प्रकृष्टं हास्यम्, एव पुलिनम् = सैकतम्, यस्यास्तादृशि, हासस्य शुभ्रतया वर्णनं सर्वथा शास्त्रसंगतमिति बोध्यम्, हा, मादृशाम् = मत्सदृशानां विटानाम्, आश्रये = धनदानादिना पोषिके !, हा हता इदानीं लोका इति शेषः, मन्मथस्य = कामस्य, विपणिः = पण्यवीथिका, सौभाग्यम् = हावभावविलासादि सौन्दर्यम् एव पण्यम् = विक्रेय-द्रव्यम्, तेषाम् आकरः = निधिः, नश्यति = नाशं गच्छति, नष्टेति भावः, वर्तमान-सामीप्ये लटः प्रयोगः । अत्र रूपकालंकारः, शार्दूलविक्रीडितं वृत्तम् ॥ ३८ ॥
विमर्श—यहाँ कुछ पद प्रथमान्त है और कुछ सम्बोधनान्त । 'हा' इस खेदसूचक अव्यय को सम्बोधनान्त सभी पदों के साथ जोड़ लेना चाहिये । 'विपणि' और 'पण्य' इन दोनों का एक साथ प्रयोग सुन्दर नहीं है ॥ ३८ ॥
अन्वयः—किम्, नु, नाम, कार्यम्, भवेत्, येन, त्वया, इदम्, कृतम्, पाप-कल्पेन, ( त्वया ), अपापा, नगरश्रीः, निपातिता ॥ ३९ ॥
शब्दार्थ—किम् = कौन सा, नु = प्रश्नवाचकता-द्योतक अव्यय है, नाम = सम्भावना अर्थ में है, कार्यम् = काम, भवेत् = होगा, येन = जिसके कारण, त्वया = तुम्हारे द्वारा = शकार द्वारा, इदम् = यह हत्या रूपी पाप, कृतम् = किया गया, पापकल्पेन = पापतुल्य तुम्हारे द्वारा, अपापा = निष्पाप, नगरश्रीः = उज्जयिनी की लक्ष्मी = सुन्दरता, निपा-तिता = समाप्त कर डाली गयी ॥ ३६ ॥
अर्थ—( आसुओं के साथ ) कष्ट है अरे ! कष्ट है । कौन सा काम होगा जिसके कारण तूने यह ( वसन्तसेना वध रूपी ) काम कर डाला ? पापके समान तूने निष्पाप और उज्जयिनी नगर की लक्ष्मी को मार डाला ॥ ३६ ॥
टीका—वसन्तसेनाबधार्थं शकारं विनिन्दन्नाह—किमिति । किम् नु = प्रश्न-बोधकमव्ययम्, नाम = इदं सम्भावनायाम्, कार्यम् = प्रयोजनम्, भवेत् = स्यात्, येन = यस्मात् कारणात्, त्वया = शकारेण, इदम् = वसन्तसेनाहत्यारूपं पापकर्म, कृतम् =