मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 579, कुल 760 में से
संदर्भ में पढ़ेंअष्टमोऽङ्कः । ४९१
विटः—
अपतितमपि तावत् सेवमानं भवन्तं पतितमिव जनोऽयं मन्यते मामनार्यम् । कथमहमनुयायां त्वां हतस्त्रीकमेनं पुनरपि नगरस्त्री-शङ्कितादर्द्धाक्षिदृष्टम् ॥ ४२ ॥
**अन्वयः—**अयम्, जनः, अपतितम्, अपि, माम्, भवन्तम्, सेवमानम्, पतितम्, इव, अनार्यम्, मन्यते, तावत्, अहम्, हतस्त्रीकम्, नगरस्त्रीशङ्कितादर्द्धाक्षिदृष्टम्, एनम्, त्वाम्, पुनरपि, कथम्, अनुयायाम् ॥ ४२ ॥
**शब्दार्थ—**अयम्=यह पुरवासी, जनः=लोग, अपतितम् = अपतित, अपि=भी, माम्=मुझे, भवन्तम्=आपकी, भजमानम् = सेवा करने वाले को, पतितम्=पतित, इव = के समान, अनार्यम्=दूषित, मन्यते = मानते हैं, तावत् = निश्चित रूप से। अहम् = मैं विट, हतस्त्रीकम्=स्त्री की हत्या करने वाले, नगर-स्त्री-शंकितादर्द्धाक्षि-दृष्टम् = नगर की स्त्रियों द्वारा शङ्कायुक्त आधी खुली हुई आंखों के द्वारा देखे गये, एनम्=इस, सामने खड़े हुये, त्वाम् = तुम्हारा, पुनरपि=फिर से, कथम्=किस प्रकार, अनुयायाम्=अनुगमन करें, अर्थात् तुम्हारे पीछे चलना अब मेरे लिये सम्भव नहीं है ॥ ४२ ॥
अर्थ--विट-- नगरवासी लोग अपतित भी मुझे आपकी सेवा करने वाला देखकर (पतित की सेवा करने वाला देखकर) पतित के समान दूषित मानने लगेंगे। मैं स्त्री की हत्या करने वाले, नगर की स्त्रियों की शङ्कायुक्त अध खुली आँखों से देखे गये तुम्हारे पीछे अब फिर कैसे चल सकता हूँ। [अर्थात् तुम्हारे साथ चलना असम्भव है] ॥ ४२ ॥
**टीका--**दुर्जनसंगत्या सज्जनस्यापि निन्दा लोके दृश्यते इति प्रतिपादयितु-माह–अपतितमिति । अयम् = नगरवासीत्यर्थः, जनः = लोकः, अपतितम् = अपापकारि-णम्, अपि, माम् = विटम्, भवन्तम् = त्वाम्, स्त्रीहतकं शकारमित्यर्थः, सेवमानम् = भजन्तम्, पतितम् = पापमनुतिष्ठन्तम्, इव, अनार्यम् = असाधुम्, मन्यते = सम्भावयति, तावत् = इदं निश्चये। अहम् = विटः, समाजे प्रतिष्ठितः, हतस्त्रीकम् = स्त्रीवध-कारिणम् अत एव, नगरस्त्रीभिः = उज्जयिनीनारीभिः, शङ्कितम् = सन्दिग्धं यथा स्यात् तथा, वसन्तसेनाभिव मामपि न कदाचिद् हन्यादिति सन्देहपूर्वकमिति भावः, अर्धाक्षिभिः = संकुचितनेत्रैः, दृष्टः = वीक्षितः, यस्तम्, यद्वा शङ्कितैः = संशयग्रस्तैः, अर्द्धैः = अर्द्धोन्मीलितैः अक्षिभिः, दृष्टः = अवलोकितः, तम्, एनम् = पुरोवर्तिनम्, त्वाम् = भवन्तं शकारम्, पुनरपि = भूयोऽपि, पूर्ववदित्यर्थः, कथम् = केन प्रकारेण, अनु-यायाम् = अनुगच्छेयम् ? न कथमपि गच्छेयमिति भावः। ईदृशानुचितकार्या-