भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 580, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 580
४९२मृच्छकटिकम्

( सकरुणम् ) वसन्तसेने !

अन्यस्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि ! ।
चारित्र्यगुणसम्पन्ने ! जायेथा विमले कुले ॥ ४३ ॥

नुष्ठातुः, तवानुगमनं मया कथमपि कर्तुं न शक्यते इति विटस्याभिप्रायः। अत्र पतितत्वस्य अनार्यत्वबोधस्य स्त्रीहत्यायाश्च विशेषणतया अनुगमनाशङ्काहेतुत्वात् काव्यलिङ्गमलङ्कारः। मालिनीवृत्तम् ॥ ४२ ॥

**विमर्श—**विट का आशय यह है कि यदि अच्छा आदमी भी नीच की सेवा में लग जाता है तो समाज उसके अच्छे होने पर भी बुरी नजर से ही देखता है। अतः वह किसी भी स्थिति में स्त्रीहत्यारे शकार का साथ निभाना नहीं चाहता है ॥ ४२ ॥

**अन्वयः—**हे सुन्दरि ! अन्यस्याम्, जातौ, अपि, त्वम्, वेश्या, मा भूः, हे चारित्र्यगुणसम्पन्ने, विमले, कुले, जायेथाः ॥ ४३ ॥

**शब्दार्थ—**हे सुन्दरि ! = हे सुन्दरी !, अन्यस्याम् = दूसरे, जातौ = जन्म में, अपि = भी, त्वम् = तुम, वेश्या = वेश्या, मा भूः = मत होना, चारित्र्यगुणसम्पन्ने ! = चरित्र और गुणों से युक्त !, विमले = पवित्र, निष्कलंक, कुले = वंश में, जायेथाः = उत्पन्न होना ॥ ४३ ॥

अर्थ—( करुणापूर्वक ) हे वसन्तसेने !
हे सुन्दरि ! दूसरे जन्म में भी तुम वेश्या मत होना । हे चरित्र और गुणों से युक्त ! पवित्र कुल में जन्म लेना ॥ ४३ ॥

**टीका—**ईदृशगुण-सम्पन्नायाः वसन्तसेनायाः भावि जन्म वेश्याकुले न भवेदिति आशास्ते विटः—अन्येति। हे सुन्दरि ! = हे सुरूपे !, अन्यस्याम् = अपरस्याम्, जातौ = जन्मनि, 'जातिः सामान्य-जन्मनो' रित्यमरः, अपि, वेश्या = गणिका, मा भूः = न भूयाः, माङो योगाल्लुङ, चारित्र्यम् = शीलत्वम्, गुणाः = दयादाक्षिण्यादयः, तैः सम्पन्ना, तत्सम्बुद्धौ, सुचरित्रे !, सद्गुणशालिनि ! इत्यर्थः, यद्वा, 'चारित्र्यगुण-सम्पन्ने' इदं 'कुले' इत्यस्य विशेषणम्, विमले = पवित्रे, निष्कलङ्के, कुले = वंशे, जायेथाः = उत्पद्येथाः। एतदतिरिक्तं मया किं प्रार्थनीयमिति तद्भावः ॥ ४३ ॥

विमर्श—'चारित्र्यगुणसम्पन्ने' चरित्र शब्द से स्वार्थ में ष्यञ् होने से दोनों शब्द समानार्थक हैं । कुछ लोग इसे सम्बोधनान्त मानकर 'वसन्तसेना' का विशेषण मानते हैं । कुछ लोग इसे 'कुले' का विशेषण मानते हैं । दोनों ही ठीक हैं ॥ ४३ ॥

**शब्दार्थ—**आवुत्तस्य = बहनोई का, प्रासाद-बालाग्रप्रतोलिकायाम् = महल के ऊपर नये बने कमरे में, आत्मपरित्राणे = अपनी रक्षा के लिये, निगडदुरितम् =