भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 583, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 583
अष्टमोऽङ्कः४९५

हारं लेखयामि । यथा; अर्थस्य कारणात् सार्थवाहचारुदत्तेन मदीयं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य वसन्तसेना व्यापादितेति । )

चालुदत्तविणाशाय कलोमि कवडं णवं ।
णअरीए विशुद्धाए पशुघादं व्व दालुणं ॥ ४४ ॥
( चारुदत्तविनाशाय करोमि कपटं नवम् ।
नगर्यां विशुद्धायां पशुघातमिव दारुणम् ॥ ४४ ॥ )

भोदु, गच्छामि । ( इति निष्क्रम्य दृष्ट्वा सभयम् ) अविदमादिके ! जेण जेण गच्छामि मग्गेण, तेण ज्जेव एशे दुट्ठशमणके गहिदकाश।ओदकं चीवलां गेण्हिअ आअच्छदि । एशे मए णशि छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ 'एदेण मालिदे' त्ति पआशइश्शदि । ता कथं गच्छामि । ( अवलोक्य ) भोदु, एदं अद्धपडिदं पाआलखण्डं उल्लङ्घिअ गच्छामि ।


देता हूँ, इस प्रकार—'सार्थवाह चारुदत्त ने मेरे पुष्पकरण्डक जीर्णोद्यान में धन के लिये ले जाकर वसन्तसेना को मार डाला है।'

टीका—आवुत्तस्य=भगिनीपत्युः, व्यवहारम् = स्वनिर्दोषताप्रमाणम्, देहि=प्रदर्शय, निधनम्=मरणम्, अकार्यम्=अनुचितं कार्यम्, प्रासादबालाग्रप्रतोलिकायाम्=प्रासादस्यान्तरे बाला=नवनिर्मिता या अग्रप्रतोलिका=उत्कृष्टरथ्या, तस्याम्, निगडपूरितम्=निगडबद्धम्, मन्त्रः=वसन्तसेना-वधरूपं जघन्य कृत्यम्, प्रत्यभिजानाति=सम्यग् ज्ञातुं शक्नोतीति भावः, आर्यपुरुषः=शिक्षितो जनः, वातस्य=पवनस्य आलिः=समूहः=‘बवण्डर’ इति भाषायाम्, तया पुज्जितेन=एकत्रित्रेन, अधिकरणम्=न्यायालयम्, अर्थस्य=धनस्य, प्रवेश्य=नीत्वा, व्यापादिता=मारिता ॥

अन्वयः—( अस्याम् ), विशुद्धायाम्, नगर्याम्, दारुणम्, पशुघातम्, इव, चारुदत्त-विनाशाय, नवम्, कपटम्, करोमि ॥ ४४ ॥

शब्दार्थ—( अस्याम्=इस उज्जायिनी ), विशुद्धायाम्=पवित्र, नगर्याम्=नगरी में, दारुणम्=कष्ट-कारक, भयङ्कर, पशुघातम्=पशुवध, इव=के समान, चारुदत्त-विनाशाय=चारुदत्त के विनाश के लिये, नवम्=नये, कपटम्=छल को, करोमि=करता हूँ ॥ ४४ ॥

अर्थ—इस पवित्र उज्जयिनी नगरी में कष्टकारक ( भयंकर ) पशुवध के समान चारुदत्त का वध करने के लिये नया छल रचता हूँ ॥ ४४ ॥

टीका—वसन्तसेनां मारयित्वापि चारुदत्तविनाशोपायं चिन्तयति-चारुदत्तेति । अस्याम्, विशुद्धायाम्=पवित्रायाम्, नगर्याम्=पुर्याम्, उज्जयिन्याम् दारुणम्=कष्टकारकम्, भयङ्करम्, पशुघातम्=पशोः वधम् इव, चारुदत्तस्य विनाशाय=वधार्थम् नवम्=नवीनम्, कपटम्=छलम्, करोमि=रचयामि ॥ पथ्यावक्त्रं वृत्तम् ॥ ४४ ॥