मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 586, कुल 760 में से
संदर्भ में पढ़ें४९८ मृच्छकटिकम्
खलु पर्णोदरे समुच्छ्वसिति ? अथवा--
वादादवेण तत्ता चीवल-तोएण तिम्मिदा पत्ता ।
एदे विथिण्णपत्ता मण्णे पत्तण विअ फुल्लन्ति ॥ ४६ ॥
( वातातपेन तप्तानि चीवरतोयेन स्तिमितानि पत्राणि ।
एतानि विस्तीर्णपत्राणि मन्ये पत्राणीव स्फुरन्ति ॥ ४६ ॥ )
टीका—अपटीक्षेपेण=स्वयमेव जवनिकामुद्घाट्य सहसा, चीवरस्य=वस्त्र-विशेषस्य, खण्डम्=भागम्, विलुम्पन्ति=नीत्वान्यत्र प्रयास्यन्तीति भावः, वाताली-पुञ्जिते=वात-समूहेनैकत्रिते, धर्माक्षराणि=धर्मजनकशब्दान्, तस्याः=पूर्वोक्तायाः साहाय्यकर्त्याः वसन्तसेनाया इत्यर्थः, निष्क्रीतः=मुक्तिं प्रापितः, पर्णोदरे=पत्राणा-माभ्यन्तरे, समुच्छ्वसिति=श्वासं गृह्णातीत्यर्थः ।
अन्वयः—वातातपेन, तप्तानि, चीवरतोयेन, स्तिमितानि, एतानि, पत्राणि, विस्तीर्णपत्राणि, पत्राणि, इव, स्फुरन्ति, इति, मन्ये ॥ ४६ ॥
शब्दार्थ—वातातपेन=हवा के साथ धूप से, तप्तानि=सूखे, चीवरतोयेन=चीवर=वस्त्रखण्ड से ( निकले हुये ) पानी से, स्तिमितानि=सिंचे हुये, एतानि=ये, पत्राणि=पत्ते, विस्तीर्णपत्राणि=फैले हुये पंखो वाले, पत्राणि=पक्षियों ( के पंखों ), इव=के समान, स्फुरन्ति=हिल रहे हैं, इति=ऐसा, मन्ये=मैं समझता हूँ ॥ ४६ ॥
अर्थ—हवा के साथ धूप से सुखाये गये, ( किन्तु ) चीवर के निचोड़ने से निकले पानी से सिंचे हुये ये पत्ते फैले हुये पंखों वाले पक्षियों के पखों के समान हिल रहे हैं ॥ ४६ ॥
टीका—पुञ्जितानां पर्णानां स्पन्दनं विलोक्य भिक्षुः इदं सम्भावयन्नाह-वातेति । वातेन सहित आतपः=घर्मः, तेन तप्तानि=शुष्कतां गतानि, किन्तु चीवरतोयेन=यतीनां वस्त्रविशेषखण्डात् निःसृतजलेन, स्तिमितानि=सिक्तानि, एतानि=पुरो-विद्यमानानि, पत्राणि=पल्लवानि, विस्तीर्णपत्राणि=विस्तारितानि पक्षाणि येषां तानि, पत्राणि=पक्षिणां पक्षाणि, इव=यथा, स्फुरन्ति = स्पन्दन्ते, इति मन्ये =सम्भावयामि एवञ्चैतानि पत्राण्येव नान्यत् किञ्चिदिति तद्भावः । पृथ्वी-धरस्तु-वातातपेन तप्तानि चीवरतोयेन स्तिमितत्वमार्द्रत्वं प्राप्तानि, स्तिमिता-नीति भाव-प्रधाननिर्देशः, एतानि विस्तीर्णं प्राप्तं प्रसारितं यत्र तानि, मन्ये पत्राण्येव विजृम्भन्ते । उपमालङ्कारः । आर्या वृत्तम् ॥ ४६ ॥
शब्दार्थ—संज्ञाम्=चेतना को, प्रत्यभिजानामि=पहचानता हूँ, बुद्धोपासिका=भगवान् बुद्ध की सेविका, आकाङ्क्षति=मांगती है, दीर्घिका=बावड़ी, गाल-यिष्यामि=निचोड़ दूंगा, पटान्तेन=वस्त्र के किनारे से, बीजयति=हवा करता है । उपरता=मरी हुई, वेशभावस्य=वेश्यापन के, विहारे=बौद्धविहार में, धर्मभगिनी=धर्म की बहिन, शुद्धः=निर्दोष ।