मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 590, कुल 760 में से
संदर्भ में पढ़ें५०२ मृच्छकटिकम्
टीका—वसन्तसेनामनुगच्छन्तं तं भिक्षुं दृष्ट्वा कश्चित्तस्मिन् सन्देहं कुर्यादिति स्वस्य संयतत्वं स्वर्गप्राप्तिध्रुवत्वं च प्रतिपादयन्नाह—हस्तेति । यः मनुष्यः, हस्ताभ्याम् = कराभ्याम् संयतः = नियमितः कराभ्यामकार्यं न करोतीति भावः, मुखेन संयतः = मुखेन आबद्धः, कदाचिदपि परपीडाकरं किंचिन्न ब्रूते, इन्द्रिय-संयतः=संयतेन्द्रियः, सर्वाणीन्द्रियाणि वशीकृतानि सन्ति, सः = पूर्वोक्तः खलु = एव, मनुष्यः = मानवः, अन्येषां तु मानवजीवनं व्यर्थमिति तद्भावः, राज्ञः = नृपतेः, कुलम् = वंशजाः, सम्बद्धा जना इत्यर्थः, तस्य=पूर्वोक्तस्य संयतस्य, किम्, करोति=कर्तुं शक्नोति ? न किमपीति भावः, हि = यतः, तस्य= पूर्वोक्तस्य पुरुषस्य, हस्ते=करे, परलोकः=स्वर्लोकः, निश्चलः = ध्रुवः । तस्य स्वर्गप्राप्तिः केनापि वारयितुं न शक्येति भावः । एवञ्च वसन्तसेनानुगमनेऽपि तस्मिन् अधर्मशंका न कार्येति बोध्यम् । गीत्युपगीतिमिश्रं वृत्तम् ॥ ४७ ॥
॥ इस प्रकार जय-शङ्कर-लाल-त्रिपाठि-विरचित ‘भावप्रकाशिका’ हिन्दी-संस्कृत-व्याख्या में मृच्छकटिक का आठवां अंक समाप्त हुआ ॥