मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 603, कुल 760 में से
संदर्भ में पढ़ेंनवमोऽङ्कः ५१५
शकारः--आ ! अत्तणकेलका शे भूमी । ता जंहि मे लोअदि तंहि उवविशामि । ( श्रेष्ठिनं प्रति ) एश उवविशामि । ( शोधनकं प्रति ) णं एत्थ उवविशामि । ( इत्यधिकरणिकमस्तके हस्तं दत्त्वा ) एश उवविशामि । ( इति भूमौ उपविशति । ) ( आः ! आत्मीया एषा भूमिः, तद् यस्मिन् मे रोचते, तस्मिन्नुपविशामि) (एष उपविशामि ।) (नन्वत्र उपविशामि ।) (एष उपविशामि ।)
अधिकरणिकः--भवान् कार्यार्थी ?
शकारः--अध इं । ( अथ किम् ? )
अधिकरणिकः--तत् कार्यं कथय ।
शकारः--कण्णे कज्जं कहइश्शं । एवं वड्ढके मल्लकप्पमाणाहे कुले हग्गे जादे । ( कर्णे कार्यं कथयिष्यामि । एवं बृहति मल्लकप्रमाणस्य कुले अहं जातः ।)
शकार—ओह् ! यह अपनी जमीन है । अतः जहाँ मुझे अच्छा लगेगा वहाँ बैठूँगा । ( श्रेष्ठी की ओर ) यहाँ बैठता हूँ । ( शोधनक की ओर ) यहाँ बैठना हूँ । ( न्यायाधिकारी के सिर पर हाथ रख कर ) यहाँ बैठता हूँ । ( ऐसा कर कर जमीन पर बैठ जाता है । )
अधिकरणिक—क्या आप मुकदमा का विचार चाहते हैं ?
शकार—और क्या ?
अधिकरणिक—तो मुकदमा कहिये ।
शकार—कान में कहूँगा । क्योंकि मैं मिट्टी के पुरवे [प्याला] के समान विशाल वंश में उत्पन्न हुआ हूँ ।
टीका—चन्द्रालोके=चन्द्रस्य प्रकाशे, कार्यार्थी=कार्यस्य व्यवहारस्य अर्थी=प्रार्थी, साटोपम्=सदर्पम्, उपरागः=राहुणा, चन्द्रग्रहणम् 'उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च' इत्यमरः, महापुरुषस्य=सम्मानितजनस्य, निपातम्=विनाशम्, व्याकुलेन=क्षोभयुक्तेन, आवृत्तम्=भगिनीपतिम्, दृश्यते=विचारार्थं स्वीक्रियते, सामीप्ये लट्, भीतभीताः=अत्यन्तं भयग्रस्ताः, प्रत्याययिष्यामि=विश्वासयोग्यं कारयिष्यामि, स्थिरसंस्कारता=स्थिरः अविचलः, यथा प्राक् तथेदानीमपि इत्यर्थः, संस्कारः=सिद्धान्तः, तस्य भावः, एकरूपमेव ज्ञानम्, अस्मत्समीपेऽपि न किञ्चित् परिवर्तनमिति भावः, मल्लकप्रमाणस्य=क्षुद्रं-मृन्मयं-पात्रम् तत्सदृशस्य, क्वचित्त 'मत्सकप्रमाणस्ये' त्यपि पाठः । अत्र शकारः स्ववंशस्य महत्त्वे ख्यापयितव्ये मूर्खतया निकृष्टत्वं वदतीति बोध्यम् ।