मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 614, कुल 760 में से
संदर्भ में पढ़ें५२६ मृच्छकटिकम्
**शोधनकः—**एदु एदु अज्जो । ( एतु एतु आर्यः । ) ( इति परिक्रामतः । ) चारुदत्तः—( सशङ्कम् ) तत् किमपरम् ?
रुक्षस्वरं वाशति वायसोऽयममात्यभृत्या मुहुराह्वयन्ति । सव्यञ्च नेत्रं स्फुरति प्रसह्य ममानिमित्तानि हि खेदयन्ति ॥ १० ॥
**शोधनकः—**एदु एदु अज्जो सैरं असम्भन्तं । ( एतु एतु आर्यः स्वैरम-सम्भ्रान्तम् । ) चारुदत्तः—( परिक्रम्याग्रतोऽवलोक्य च )
शुष्कवृक्षस्थितो ध्वाङ्क्ष आदित्याभिमुखस्तथा । मयि चोदयते वामं चक्षुर्धोरमसंशयम् ॥ ११ ॥
**शोधनक—**आइये, आइये श्रीमान् । ( दोनों घूमते हैं । )
**अन्वयः—**अयम्, वायसः, रुक्षस्वरम्, वाशति, अमात्यभृत्याः, मुहुः, आह्वयन्ति, च, मम, सव्यम्, नेत्रम्, च, स्फुरति, अनिमित्तानि, हि, प्रसह्य, खेदयन्ति ॥ १० ॥
**शब्दार्थ—**अयम्=यह, वायसः=कौवा, रुक्षस्वरम्=रूखी कर्कश आवाज में, वाशति=बोल रहा है, काँव-काँव कर रहा है, अमात्यभृत्याः=सचिवों के नौकर, मुहुः=बार-बार, आह्वयन्ति=बुला रहे हैं, मम=मेरा, चारुदत्त का, सव्यम्=वाँया, नेत्रम्=आँख, स्फुरति=फड़क रही है, हि=निश्चित रूप से, अनिमित्तानि=अपशकुन, खेदयन्ति=दुखी बना रहे हैं ॥ १० ॥
अर्थ – चारुदत्त —( शंकासहित ) तो यह और क्या ?
कौवा रूखी बोली में आवाज ( काँव-काँव ) कर रहा है । सचिवों के सेवक बार-बार बुला रहे हैं । मेरी बाँयी आँख फड़क रही है । निश्चित ही अपशकुन मुझे दुखी बना रहे हैं ॥ १० ॥
**टीका—**गमन-समयेऽपशकुनं दृष्ट्वा उद्वेगं प्रकटयति चारुदत्तः–रूक्षेति । **अयम्=**पुरो दृश्यमानः, **वायसः=**काकः, **रूक्षस्वरम्=**कर्कशम्, **वाशति=**शब्दं करोति, अमात्यानाम् = सचिवानाम् भृत्याः = सेवकाः, मुहुः = बारम्बारम्, आह्वयन्ति= आकारयन्ति, **मम=**चारुदत्तस्य, सव्यम् = वामम्, **नेत्रम्=**चक्षुः, **च, स्फुरति=**स्पन्दते, **हि=**निश्चयेन, अनिमित्तानि = अपशकुनानि, **खेद्यन्ति=**उद्वेजयन्ति, मम खेदयन्ती-त्यन्वये तु सम्बन्धसामान्ये षष्ठी बोध्या । माम् खेदयन्तीत्यर्थो बोध्यः । पुंसां वामाङ्गस्फुरणमनिष्टसूचकमिति वचनादत्र चारुदत्तस्य चिन्तोत्थानं बोध्यम्, उपजातिर्वृत्तम् ॥ १० ॥
**अर्थ—शोधनक-**आइये आर्य, धीरे-धीरे निश्चिन्त होकर आइये ।
**अन्वयः—**शुष्कवृक्षस्थितः, तथा, आदित्याभिमुखः, ध्वाङ्क्षः, मयि, वामम्, चक्षुः, घोरम्, चोदयते, इति, असंशयम् ॥ ११ ॥