मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 633, कुल 760 में से
संदर्भ में पढ़ेंनवमोऽङ्कः ५४५
यथा यथेदं निपुणं विचार्यते तथा तथा सङ्कटमेव दृश्यते ।
अहो ! सुसन्ना व्यवहारनीतयो मतिस्तु गोः पङ्कगतेव सीदति ॥२५॥
चारुदत्त --- ( स्वगतम् )
यथैव पुष्पं प्रथमे विकासे समेत्य पातुं मधुपाः पतन्ति ।
एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ॥ २६ ॥
अन्वयः— इदम्, यथा, यथा, निपुणम्, विचार्यते, तथा, तथा, संकटम्, एव, दृश्यते, अहो ! व्यवहारनीतयः, सुसन्नाः, ( भवन्ति ), तु, मतिः, पङ्कगता, गौः, इव, सीदति ॥२५॥
शब्दार्थ— इदम्=यह मुकदमा, यथा यथा =जैसे जैसे, निपुणम् = गम्भीरता-पूर्वक, विचार्यते = विचारित किया जाता है, तथा तथा = वैसे, वैसे, संकटम् = संकट, परेशानी, एव = ही, दृश्यते = दिखाई देती है, अहो = आश्चर्य है, व्यवहारनीतयः = मुकदमें की प्रक्रिया या प्रमाण, सुसन्नाः = अच्छी तरह परिपुष्ट, भवन्ति = हो रही हैं, तु = लेकिन, मतिः = बुद्धि, पंकगता = कीचड़ में फँसी हुई, गौ = गाय, इव = के समान, सीदति = दुखी, परेशान हो रही है ॥२५॥
अर्थ—अधिकरणिक— ओह ! लोकव्यवहार की विषमता को धिक्कार है —
इस मुकदमा को जैसे जैसे सावधानी से विचारा जा रहा है वैसे वैसे परेशानी ही दिखाई दे रही है । ओह ! मुकदमा के प्रमाण परिपुष्ट हो रहे हैं किन्तु ( हमारी ) बुद्धि कीचड़ में फंसी हुई गाय के समान दुखी हो रही है ॥२५॥
टीका—अधिकरणिकः लोकव्यवहारस्य विषमत्वमेव विशदयन्नाह—यथेति । इदम् = व्यवहाररूपं वस्तु, यथा यथा = येन येन प्रकारेण, निपुणम् = गम्भीरं सम्यग् वा, विचार्यते = निर्णीयते, तथा तथा = तेन तेन प्रकारेण, संकटम् = सुदारुणम्, दृश्यते = लक्ष्यतेऽस्माभिरिति शेषः, यावत्-सूक्ष्मतयाऽस्मिन् चारुदत्तस्य निर्दोषतासाधनाय विचार्यते तावदेव विपरीतं परिणमतीति चारुदत्तस्य रक्षा न शक्यते कर्तुमिति तदभिप्रायः । अहो = इदं विषादे, व्यवहारस्य = व्यवहाराङ्गभूतविचारस्य, नीतयः = नियमपद्धतयः, सुसन्नाः = सुलग्नाः जायन्ते, तु = किन्तु, मतिः = मदीया बुद्धिः, पंकगता = कर्दमे निपतिता, गौः = सौरभेयी, इव = यथा, सीदति = अवसादं प्राप्नोति । अत्रोपमा-लंकारः, वंशस्थबिलं वृत्तम् ॥२५॥
अन्वयः— प्रथमे, विकासे, पुष्पम्, पातुम्, भ्रमराः, यथैव, समेत्य, पतन्ति, एवम्, मनुष्यस्य, विपत्तिकाले, छिद्रेषु, अनर्थाः, बहुलीभवन्ति ॥२६॥
शब्दार्थ— प्रथमे = पहले, विकासे = खिलने ( के समय ) में, पुष्पम् = फूल ( के रस ) को, पातुम् = पीने के लिये, भ्रमराः = भौंरे, यथैव = जिस प्रकार से, पतन्ति = गिरते हैं, टूट पड़ते हैं, एवम् = इसी प्रकार, मनुष्यस्य = मनुष्य के, विपत्तिकाले =
३५ मृ०