भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 656, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 656

५६८ मृच्छकटिकम्

विदूषकः-भो वयस्स ! अहं ते पिअवअस्सो भविअ, तुए विरहिदाईं पाणाईं धारेमि ? । ( भो वयस्य ! अहं ते प्रियवयस्यो भूत्वा त्वया विरहितान् प्राणान् धारयामि ? )

चारुदत्तः--रोहसेनमपि तावद्दर्शय ।

विदूषकः - एव्वं जुज्जदि । ( एवं युज्यते । )

अधिकरणिकः--भद्र शोधनक ! अपसार्यतामयं बटुः ।

( शोधनकस्तथा करोति । )

अधिकरणिकः--कः कोऽत्र भोः ! चाण्डालानां दीयतामादेशः ।

( इति चारुदत्तं विसृज्य निष्क्रान्ताः सर्वे राजपुरुषाः । )

शोधनकः--इदो आअच्छदु अज्जो । ( इत आगच्छतु आर्यः । )

चारुदत्तः--( सकरुणम् 'मैत्रेय भोः ! 'किमिदमद्य' ६।२६ इत्यादि पठति । अकाशे )


पुत्र दूसरे लोक में गये हुये लोगों [ पिता ] का दूसरा शरीर या प्रतिनिधि होता है अतः तुम्हारा जो प्रेम मुझ पर है उसे ( मेरे पुत्र ) रोहसेन पर लगा देना, करना ॥ ४२ ॥

टीका---'छिन्ने मूले' इत्यादिकं विदूषकवचनमाकर्ण्य तन्निराकुर्वन् पुत्रं स्व-प्रतिरूपमेव प्रतिपादयति-नृणामिति । सुतः=पुत्रः, लोकान्तरस्थानाम्=परलोके गतानाम्, नृणाम्=पुरुषाणाम्, देहस्य=शरीरस्य, प्रतिकृतिः=प्रतिरूपम्, पुत्रः पितुः द्वितीयं शरीरमिति भावः, 'आत्मा वै जायते पुत्रः' इत्यादौ तथोक्तेरिति बोध्यम्, अतः, मयि=चारुदत्ते, तव=विदूषकस्य, यः=यावान्, स्नेहः=अनुरागः, सः=तावान्, रोहसेने=एतन्नामके मम पुत्रे, युज्यताम्=समर्प्यताम् । एवञ्च मम मरणेऽपि तव स्नेहो मम पुत्रेऽवश्यमेव भवितव्य इति तद्भावः । पथ्यावक्त्रं वृत्तम् ॥४२॥

**अर्थ--विदूषक--**हे मित्र ! तुम्हारा प्रिय मित्र हो कर तुम्हारे विना प्राणों को धारण करूँगा ?

चारुदत्त - तब तक रोहसेन को भी दिखा दो ।

विदूषक -- यह ठीक ही है ।

अधिकरणिक - भद्र शोधनक ! इस ब्राह्मण को हटा दो ।

( शोधनक ब्राह्मण चारुदत्त को हटाता है । )

**अधिकरणिक--**यहाँ कौन है ? चाण्डालों को आदेश दे दो ।

( चारुदत्त को छोड़कर सभी राजपुरुष निकल गये । )

शोधनक - आर्य इधर आइये ।