भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 662, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 662
.५३४मृच्छकटिकम्

( किं प्रेक्षध्वे छिद्यमानं सत्पुरुषं कालपरशु-धाराभ्याम् ।
सुजन-शकुनाधिवासं सज्जन-पुरुषद्रुममेतम् ॥ ४ ॥ )

आअच्छ ले चालुदत्त ! आअच्छ । ( आगच्छ रे चारुदत्त ! आगच्छ । )
चारुदत्त:--पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः; यदहमीदृशीं दशामनुप्राप्तः ।

सर्वाङ्गात्रेषु विन्यस्तैः रक्तचन्दनहस्तकैः ।
पिष्टचूर्णावकीर्णश्च पुरुषोऽहं पशूकृतः ॥ ५ ॥


कालपरशुधाराभिः = कालरूपी फरसे की धाराओं से, छिद्यमानम् = काटे जाते हुये, किम् = क्यों, प्रेक्षध्वे = देख रहे हो ? ॥ ४ ॥

अर्थ--दोनों चाण्डाल--हटो सज्जनों ! हटो ।
हे सज्जनों ! सज्जनरूपी पक्षियों के निवास-स्थल, इस सज्जनरूपी वृक्ष को कालरूपी फरसे की धाराओं से काटे जाते हुये क्यों देख रहे हो ? अर्थात् इस सज्जन चारुदत्त का वध मत देखो ॥ ४ ॥

**टीका--**सज्जनस्य मृत्युर्न दर्शनीय इति कृत्वाऽन्यान वारयन्तावाहतुः-किमिति । हे सज्जनाः = हे सत्पुरुषाः !, चारुदत्तस्य वधं श्रुत्वा तत्रैकत्रीभूता इति भावः. सुजनाः = साधवः एव शकुनाः = पक्षिणः तेषाम् अधिवासः = आश्रयः, तम्, एतम् = पुरोवर्त्तिनम्, सज्जनपुरुषः एव द्रुमः = वृक्षस्तम्, यथा शोभने वृक्षे शोभनाः पक्षिणस्तिष्ठन्ति तथैव सज्जनं चारुदत्तं सत्पुरुषा एवाश्रयन्तीति तद्भावः, कालपरशुधाराभ्याम् = कालः = कृतान्तः एव, यद्वा कालः = कृतान्तः इव, परशुः = कुठार-स्तस्यधा राम्याम् = तीक्ष्णाग्रभागाभ्याम्ः [ अत्र चाण्डालस्य द्वित्वात् द्विवचनमिति तत्त्वविदः ] छिद्यमानम् = भिद्यमानम्, किं पश्यत = कथमवलोकयत, नावलोकनीय-मिति भावः । अत्र सुजन-सज्जन-पुरुषपदयोरावृत्तिर्न शोभनेति बोध्यम् । एवमेव 'सज्जनद्रुमम्' इत्यनेनैवाभीष्टार्थसम्भवे पुनः 'पुरुष'-पद प्रयोगात् पुनरुक्तता दोषः । रूपकमलङ्कारः, आर्या वृत्तम् ॥४॥

**विमर्श--**यहाँ 'सुजन' 'सज्जन' इनकी आवृत्ति ठीक नहीं है । इसके अतिरिक्त 'सज्जनद्रुमम्' इसी से अभीष्ट अर्थ सम्भव है पुनः 'पुरुष' पद के प्रयोग से पुनरुक्तता दोष भी है ॥४॥

**अर्थ--**आ रे चारुदत्त ! आ ! ।

**अन्वयः--**सर्वाङ्गात्रेषु, विन्यस्तैः, रक्तचन्दनहस्तकैः, पिष्टचूर्णावकीर्णः, च, अहम्, पुरुषः, पशूकृतः ॥५॥

शब्दार्थ--सर्वाङ्गात्रेषु = सभी अवयवों में, विन्यस्तैः = लगाये गये, रक्तचन्दन-हस्तकैः = लाल चन्दन के हाथ के छापों से, च = और, पिष्टचूर्णावकीर्णः = पीसे गये