मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 664, कुल 760 में से
संदर्भ में पढ़ें५७६ | मृच्छकटिकम्
चाण्डालौ—ओशलध अज्जा ! ओशलध । किं पेक्खध ? ( अपसरत आर्याः ! अपसरत । किं प्रेक्षध्वे ? )
इन्दे प्पवाहिअन्ते, गोप्पसवे संकमं च तालाणं ।
शुपुलिश-पाण-विपत्ती चत्तालि इमे ण दट्ठव्वा ॥ ७ ॥
( इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् ।
सुपुरुषप्राणविपत्तिः चत्वार इमे न द्रष्टव्याः ॥ ७ ॥ )
भरे हुये, [ किन्तु ] मुझे बचाने में असमर्थ होते हुये 'तुम स्वर्ग प्राप्त करो' ऐसा कह रहे हैं ॥६॥
टीका—स्वस्य वधदर्शनार्थं समागतजनानां मार्मिकीमवस्थां प्रकटयन्नाह—अमीति। हि=यतः, अमी=इतस्ततः समवेताः दृश्यमानाः, पौराः=पुरवासिनः, मदुपेतम्=मयि=मद्विषये उपेतम्=उपस्थितम्, यद्वा मया उपेतम्=प्राप्तम्, एतत्=अकारणवधदण्डरूपम्, यद्वा मृत्युचिह्नादिकम्, दृष्ट्वा=विलोक्य, मर्त्यम्=मानवम्=मरणधर्माणमित्यर्थः, धिक्=निन्दा, अस्तु=भवतु, इति=इत्थम्, ( भणित्वा=कथयित्वा ), उपजातबाष्पाः=समुत्पन्नाश्रुविन्दवः, सन्तः, माम्=चारुदत्तम्, परिरक्षितुम्=परित्रातुम् अशक्नुवन्तः=असमर्थाः सन्तः, 'स्वर्गम्=सुरपुरम्, लभस्व=प्राप्नुहि, मरणानन्तरमिति शेषः, इति=इदम् वदन्ति= कथयन्ति। उपजातिवृत्तम् ॥ ६ ॥
विमर्श—मदुपेतम्-इस के ( १ ) मयि=मेरे विषय में उपेतम्=उपस्थित, ( २ ) मया=मेरे द्वारा, उपेतम्-प्राप्त, धारण किये गये-ये दो अर्थ हो सकते हैं। 'एतत्' इस सर्वनाम के द्वारा ( १ ) मरणचिह्न अथवा ( २ ) दारुण दुख-इत्यादि अर्थ सम्भव हैं ॥६॥
अन्वयः—प्रवाह्यमाणः, इन्द्रः, गोप्रसवः, ताराणाम्, संक्रमः, च, सुपुरुषप्राणविपत्तिः च, इमे, चत्वारः, न, द्रष्टव्याः ॥७॥
शब्दार्थ—प्रवाह्यमाणः=बहाया जाता हुआ, (नदी आदि में प्रवाहित करने के लिये ले जाया जाता हुआ ), इन्द्रः=इन्द्रध्वज, गोप्रसवः=गाय का बच्चा पैदा करना, बियाना, च=और, ताराणाम्=ताराओं का, संक्रमः=गिरना, च=तथा, सुपुरुषप्राणविपत्तिः=सज्जन के प्राणों का वध, इमे=ये, चत्वारः=चार, न=नहीं, द्रष्टव्याः=देखने चाहिये ॥७॥
अर्थ—दोनों चाण्डाल—सज्जनों ! हटो, हटो ! क्या देखते हो ?
(नदी आदि में बहाने के लिये) ले जाया जाता हुआ इन्द्रध्वज, गाय का बियाना