भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 666, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 666
५७८मृच्छकटिकम्

द्वितीयः—अले गोहा ! ( अरे गोह ! )

ण अ लुअदि अन्तरिक्खे णेअ अणब्भे पडदि वज्जे ।
महिलाशमूहमेहे णिवडदि णअणंबुधाराहि ॥ ६ ॥
( न च रोदित्यन्तरिक्षं नैवानभ्रं पतति वज्रम् ।
महिलासमूहमेघान्निपतति नयनाम्बु धाराभिः ॥ ६ ॥ )

अवि अ—वज्झम्मि णीअमाणे जणश्श सव्वश्श लोदमाणश्श ।

णअणशलिलेहिं शित्ते लच्छ्यातो ण उण्णमइ लेणू ॥१०॥
( अपि च —वध्ये नीयमाने जनस्य सर्वस्य रुदतः ।
नयनसलिलैः सिक्तो रथ्यातो न उन्नमति रेणुः ॥ १० ॥ )


अतिमहत्त्वमुपगते पुरुषे, चारुदत्ते इत्यर्थः, वध्यमाने=हन्यमाने, हन्तुं नीयमाने इत्यर्थः, अन्तरिक्षम्=गगनम्, रोदिति किम्=विलपति किम् ? अथवा=किं वा, अनभ्रम्=मेघरहितम्, मेघसम्बन्धरहितमित्यर्थः, वज्रम्=अशनिः, विद्युदिति भावः, पतति=अधोदेशमायाति । अत्र सन्देहालंकारः, आर्या वृत्तम् ॥ ८ ॥

**अन्वयः—**न च, अन्तरिक्षम्, रोदिति, नैव, अनभ्रम्, वज्रम्, पतति, महिला-समूह-मेघात्, धाराभिः, नयनाम्बु, पतति ॥ ९ ॥

**शब्दार्थ—**न च=न तो, अन्तरिक्षम्=आकाश, रोदिति=रो रहा है, नैव=और न ही, अनभ्रम्=बिन बादलों के, वज्रम्=वज्र, बिजली, पतति=गिर रहा है, महिलासमूहमेघात्=स्त्रीसमुदायरूपी मेघ, से, धाराभिः=धाराओं के साथ, नयनाम्बु=अश्रुजल, निपतति=गिर रहा है ॥ ९ ॥

अर्थ—दूसरा चाण्डाल—अरे गोह !
न तो आकाश रो रहा है और न ही बिना बादलों के वज्र (बिजली) गिर रहा है (परन्तु) स्त्रियों के समूहरूपी बादल से धाराओं के साथ अश्रुजल गिर रहा है ॥ ६ ॥

**टीका—**प्रथमचाण्डालकल्पितं खण्डयितुं द्वितीयश्चाण्डालस्तत्रत्यां वस्तुस्थितिं वर्णयति--न चेति ! **न च=**न तु, **अन्तरिक्षम्=**आकाशम्, **रोदिति=**विलपति, **नैव=**न वा, **अनभ्रम्=**मेघसम्बन्धरहितम्, **वज्रम्=**अशनिः, **पतति=**अधो गच्छति । तर्हि किमेतदित्याशंकायामाह—**महिलानाम्=**नगर-स्त्रीणाम्, **समूहः=**समुदाय एव **मेघः=**वारिदः, **तस्मात्, धाराभिः=**प्रवाहैः, **नयनाम्बु=**अश्रुजलम्, **निपतति=**स्रवति । एवञ्च चारुदत्तवधविषयकसमाचारमाकर्ण्य नगर्याः सर्वा अपि स्त्रियः अश्रुजलेन सर्वान् आर्दीकुर्वन्तीति भावः । रूपकमलङ्कारः, उपगीतिः वृत्तम् ॥ ६ ॥

**अन्वयः—**वध्ये, नीयमाने, रुदतः, सर्वस्य, जनस्य, नयनसलिलैः, सिक्तः, रेणुः, रथ्यातः, न, उन्नमति ॥ १० ॥

मृच्छकटिकम् (सटीक संस्कृत नाटक) · पृष्ठ 666, कुल 760 में से · BharatKosha