भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 670, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 670
५८२मृच्छकटिकम्

( उद्दीक्ष्य कर्णौ विधाय ) हा प्रिये ! बसन्तसेने !

शशि-विमल-मयूख-शुभ्र-दन्ति ! सुरुचिर-विद्रुम-सन्निभाधरोष्ठि ।
तव वदनभवामृतं निपीय कथमवशो ह्ययशोविषं पिबामि ॥ १३ ॥

स्थले इत्यर्थः, घुष्यते = उच्चस्वरेण कथ्यते । पूर्वं पूर्वजाचरितमिमं कुलस्य नियम-हत्त्वमासीत् साम्प्रतमिमे नीचाः केन प्रकारेण कलुषीकृत्योच्चारयन्तीत्यर्थः, मालिनी वृत्तम् ॥ १२ ॥

अन्वयः- हे शशिविमलमयूखशुभ्रदन्ति !, हे सुरुचिर-विद्रुमसन्निभाधरोष्ठि !, तव, वदनभवामृतम्, निपीय, ( इदानीम् ), अवशः, ( सन्, अहम्, ) अयशोविषम्, कथम्, पिबामि ॥ १३ ॥

शब्दार्थ- हे शशि-विमल-मयूखशुभ्रदन्ति = हे चन्द्रमा की किरणों के समान चमकते हुये उज्ज्वल दांतोंवाली !, हे सुरुचिर-विद्रुमसन्निभाधरोष्ठि = हे अति सुन्दर मूंगे के समान लाल लाल अधरोष्ठ वाली !, तव = तुम्हारे ( वसन्तसेना के ) . वदन-भवामृतम् = मुख में होने वाले अमृत को, निपीय = पीकर, ( इदानीम् = इस समय ), अवश = विवश ( सन् = होता हुआ, अहम् = मैं चारुदत्त ), अयशोविषम् = अपकीर्तिरुपी जहर को, कथम् = किस प्रकार, पिबामि = पी रहा है, अनुभव कर रहा हूँ ॥ १३ ॥

अर्थ- ( ऊपर देख कर, कानों को बन्द करके ) हाय प्रिये वसन्तसेने !
हे चन्द्रकिरणों के तुल्य उज्ज्वल दांतों वाली ! तथा अति सुन्दर मूंगे के समान लाल लाल ओष्ठवाली वसन्तसेन ! तुम्हारे मुख में होनेवाले अमृत का पान करके ( इस समय ) मजबूर होता हुआ अपशरुपी जहर को किस प्रकार पी रहा हूँ । अर्थात् मजबूर होने से सुन रहा हूँ, अन्यथा नहीं सुनता ॥ १३ ॥

टीका- पूर्वमनेकधा वसन्तसेनायाः वचनामृतान्याकर्ण्य भृशं सन्तुष्टिमवा-प्तवानह साम्प्रतं चाण्डालानां वचनविषं पातुं विवशीकृत इति स्वव्यथां व्यनक्ति-शशीति । शशिनः = चन्द्रस्य, विमलाः = उज्ज्वलाः ये मयूखाः = किरणाः, ते इव शुभ्राः = विशदाः, कान्तियुक्ताः दन्ताः यस्याः तत्सम्बुद्धौ समुज्ज्वल-चन्द्रकिरणसदृशविशद-दशने इत्यर्थः, तथा सुरुचिराः = अतिमनोहरः यः विद्रुमः = प्रबालः, तस्य सन्निभम् = तत्तुल्यम् अधरोष्ठम् यस्यास्तत्सम्बुद्धौ, रमणीयप्रवालसदृशरक्तिमाधरोष्ठे इत्यर्थः, तव = बसन्तसेनायाः, वदने = मुखे, भवम् = उत्पन्नम्, अमृतम् = पीयूषम्, मुखोच्चारितवचन-पीयूषम्, निपीयम् = आस्वाद्य, श्रुत्वेत्यर्थः, इदानीम्, अवशः = विवशः, पराधीन इत्यर्थ, अयशोविषम् = 'अह वसन्तसेनां हतवान्, इति अपकीर्तिरूप गरलम्, यद्वा विषम् इव अयश इत्यर्थः, कथम् = केन प्रकारेण पिबामि = आस्वादयामि । पूर्वमनेकबार त्वया सह तव वचनामृतानि आस्वादितानि किन्तु साम्प्रत नीचैरारोपितापराधो विवशः