मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 671, कुल 760 में से
संदर्भ में पढ़ेंदशमोऽङ्कः ५८३
उभौ--ओशलध अज्जा ! ओशलध । ( अपसरत आर्याः ! अपसरत । )
एशे गुण-लअणणिही शज्जणदुक्खाणं उत्तलणशेदू । अशुवण्ण--मण्डणं अवणीअदि अज्ज णअलोदो ॥ १४ ॥ ( एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्णमण्डनकमपनीयतेऽद्य नगरीतः ॥ १४ ॥ )
अण्णं च--
शब्बे खलु होइ लोए लोओ शुहशण्ठिदाणं तत्तिल्ला । विणिबडिदाणं णलाणं पिअकाली दुल्लहो होदि ॥ १५ ॥
( अन्यच्च -
सर्वः खलु भवति लोके लोकः सुखसंस्थितानां चिन्तायुक्तः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ १५ ॥ )
सन् विषतुल्या॑नि दुष्कीर्तिप्रतिपादकानि वचनानि केनापि प्रकारेण शृणोत्विति भावः । अत्रोपमा, रूपकम्, विषमः--एतेषां संकरः । पुष्पिताग्रा वृत्तम् ॥ १३ ॥
**अन्वयः--**गुणरत्ननिधिः, सज्जनदुःखानाम्, उत्तरणसेतुः, असुवर्णमण्डनकम्, एषः, अद्य, नगरीतः, अपनीयते ॥ १४ ॥
**शब्दार्थ--**गुण-रत्ननिधिः=गुणरूपी रत्नों का सागर, सज्जन-दुःखानाम्=सज्जनों के दुःखों का, उत्तरणसेतुः=पार कराने वाला पुल, असुवर्णमण्डनकम्=बिना सोने का आभूषण, एषः=यह चारुदत्त, अद्य=आज, नगरीतः=उज्जयिनी नगरी से, अपनीयते=हटाया जा रहा है, मारा जा रहा है ॥ १४ ॥
**अर्थ--**दोनों हटो सज्जनों ! हटो -
( दया, परोपकार आदि ) गुणों का सागर, सज्जनों के दुःखों को पार कराने वाला पुल, बिना सोने का आभूषण यह चारुदत्त आज इस उज्जयिनी नगरी से दूर किया जा रहा है, मारा जा रहा है ॥ १४ ॥
**टीका--**चारुदत्तस्यापराधमुद्घोष्य साम्प्रतं तस्य गुणानपि वर्णयितुमाह-तुश्चाण्डालौ--एष इति । गुणाः=दयापरोपकारादय एव रत्नानि=मण्यादीनि, तेषां निधिः=सागरः, सज्जनदुःखानाम्=सत्पुरुषकष्टानाम्, उत्तरणे=अतिक्रमणे, सेतुः=पारं गमनस्य साधनम्, असुवर्णमण्डन कम्=नास्ति सुवर्णमण्डनम्=कांचनभूषणम् यस्मिन् तद् यथा, एवम्भूतः, अद्य=अस्मिन् दिने, नगरीतः=उज्जयिनीतः, अपनीयते=दूरीक्रियते विनाश्यते इति भावः । रूपकमलंकारः, आर्या वृत्तम् ॥ १४ ॥
**अन्वयः--**लोके, सर्वः, लोकः, खलु, सुखसंस्थितानाम्, चिन्तायुक्तः, भवति, ( परन्तु ) विनिपतितानाम्, नराणाम्, प्रियकारी, दुर्लभः, भवति ॥ १५ ॥