मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 672, कुल 760 में से
संदर्भ में पढ़ें५८४ | मृच्छकटिकम्
चारुदत्तः-- ( सर्वतोऽवलोक्य )
अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः।
परोऽपि बन्धुः समसंस्थितस्य मित्रं न कश्चिद्विषमस्थितस्य ।। १६ ।।
शब्दार्थ-- लोके = संसार में, सर्वः = सभी, लोकः = लोग, खलु = निश्चितरूप से, सुखसंस्थितानाम् = सुखपूर्वक रहने वालों का, चिन्तायुक्तः = चिन्ता करने वाला, भवति = होता है, [परन्तु = लेकिन] विनिपतितानाम् = कष्ट में फंसे हुये, नराणाम् = पुरुषों का, प्रियकारी, = प्रिय करने वाला, दुर्लभः = दुर्लभ, भवति = होता है ।। १५ ।।
अर्थ-- और भी --
संसार में सुखपूर्वक रहने वालों की चिन्ता करने वाले सभी लोग होते हैं। किन्तु दुःख में पड़े हुये लोगों का प्रिय करने वाला दुर्लभ होता है ।। १५ ।।
टीका-- दुःखे निमग्नानां विषये कोऽपि चिन्तां न करोति प्रियं वा न करोतीति प्रतिपादयति--सर्वं इति । लोके=संसारे, सर्वः=सकलः, लोक=जनः, सुखे=आनन्दे, संस्थितानाम्=विराजमानानाम्, सम्पन्नानामित्यर्थः, चिन्तायुक्तः=कष्टादिविषये चिन्तनपरो भवन्ति, परन्तु, विनिपतितानाम्=विपत्तौ निमग्नानाम्, नराणाम्= पुरुषाणाम्, प्रियकारी=इष्ट-सम्पादकः, दुर्लभः=दुष्प्रापो भवति । एवञ्च दुःखे निपतितस्य चारुदत्तस्य प्रियं हितं सम्पादयितुं न कोपि चेष्टते इति भावः । अत्रा-प्रस्तुतप्रशंसालङ्कारः । गाथा वृत्तम् ।। १५ ।।
अन्वयः-- अमी, मे, वयस्याः, वस्त्रान्तनिरुद्धवक्त्राः, दूरतरम्, प्रयान्ति, हि, सुखसंस्थितस्य, परः, अपि, बन्धुः, [ जायते किन्तु ] विषमस्थितस्य कश्चित्, मित्रम्, न, ( भवति ) ।।१६।।
शब्दार्थ-- अमी = ये, मे = मेरे ( चारुदत्त के ), वयस्याः = मित्र लोग, वस्त्रान्त-निरुद्धवक्त्राः = दुपट्टा आदि कपड़े के छोर से मुंह ढके हुये, दूरतरम् = बहुत दूर दूर, अलग, प्रयान्ति = भाग रहे हैं, हि = क्योंकि सुखसंस्थितस्य = सुख की स्थिति में रहने वाले का, परः = दूसरा, अपरिचित, अपि = भी, बन्धुः = बन्धु, [ जायते = बन जाता है, किन्तु = लेकिन ] विषमस्थितस्य = कष्ट में फंसे हुये का, कश्चित् = कोई भी, मित्रम् = मित्र, न = नहीं, ( भवति = होता है । ) ।।१६।।
अर्थ--चारुदत्त - ( सभी ओर देखकर )
मेरे ये मित्र लोग कपड़े के छोर से अपने मुँह छिपाये हुए दूर दूर भागे जा रहे हैं, क्योंकि सुख की स्थिति में रहने वाले का दूसरा व्यक्ति भी बन्धु बन जाता है किन्तु दुःख में फँसे हुये का कोई भी मित्र नहीं होता है ।।१६।।
टीका-- दूरे पलायमानान् वयस्यान् विलोक्य स्वविपदवस्थायां कस्यापि सहायकत्वं नेति प्रतिपादयति-अमीति । अमी=पुरो दृश्यमानाः, मे=मम, चारुदत्त-