भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 673, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 673

दशमोऽङ्कः ५८५

चाण्डालौ--ओशालणं किदं, विवित्तं लाअमग्गं, ता आणेध एदं दिण्णवज्झचिण्हं । ( अपसारणं कृतम्, विविक्तो राजमार्गः, तदानयतैनं दत्तवध्यचिह्नम् । )

( चारुदत्तो निःश्वस्य 'मैत्रेय भोः ! किमिदमद्य' ४।२६ इत्यादि पठति । )

( नेपथ्ये-- )

हा ताद ! हा पिअवअस्स ! ! ( हा तात ! हा प्रियवयस्य । )
चारुदत्तः-- ( आकर्ण्य सकरुणम् ) भोः स्वजातिमहत्तर ! इच्छाम्यहं भवतः सकाशात् प्रतिग्रहं कर्तुम् ।
चाण्डालौ--किं अम्हाणं हत्यादो पडिग्गहं कलेशि ? ( किमस्माकं हस्तात् प्रतिग्रहं करोषि ? )
चारुदत्तः--शान्तं पापम् । नापरीक्ष्यकारी दुराचारः पालक इव


स्येत्यर्थः, वयस्याः=सुहृदः, सखायः, वस्त्रस्य अन्तेन=अन्तभागेन निरुद्धानि=आच्छादितानि=आवृतानि वक्त्राणि यैस्तादृशाः, सन्तः, दूरतरम्=अतिदूरम्, मम दृष्टिपथमनागच्छन्त इत्यर्थः, प्रयान्ति=पलायन्ते, हि=यतः, सुखे=सुखावस्थायम्, संस्थितस्य=विद्यमानस्य, जनस्य, परः अन्यः असम्बन्धीत्यर्थः, अपि, बन्धुः=आत्मीयः, भवति किन्तु विषमे=विषमावस्थायाम्, स्थितस्य=विद्यमानस्य, जनस्य, कश्चिद्=स्वकीयः, परकीयो वा जनः, मित्रम्=सुहृद्, सहायक इत्यर्थः, न=नैव, भवतीत्यर्थः । एवञ्च साम्प्रतं कश्चिज्जनः मे साहाय्यं न विधातुमिच्छतीति तद्भावः । अप्रस्तुतप्रशंसा-लंकारः, आर्या वृत्तम् ॥१६॥

**शब्दार्थ--**विविक्तः=खाली, दत्तवध्यचिह्नम्=वधयोग्य व्यक्ति के चिह्नों से युक्त, स्वजातिमहत्तर=अपनी जातिके प्रमुख पुरुष, प्रतिग्रहम्=दान को, अपरीक्ष्यकारी=बिना सोचे समझे काम करने वाला, अभ्यर्थये=प्रार्थना करता हूँ, अन्तरम्=खाली जगह, दारकम्=बच्चे को, त्वरताम्=जल्दी करो, प्रेक्षितव्यः=देखना चाहिये ।

अर्थ--दोनों चाण्डाल - ( सबको ) भगा दिया, राजमार्ग खाली है, अतः वधयोग्य चिह्नों वाले इस ( चारुदत्त ) को ले आओ ।

( चारुदत्त निःश्वास लेकर "हे मैत्रेय ! क्या आज" ४।२६ इत्यादि पढ़ता है । )

( नेपथ्य में )

हाय पिताजी, हाय मित्र !

चारुदत्त -- ( सुनकर करुणा के साथ ) हे अपनी जाति के प्रधान पुरुष ( मुखिया ) ! आपके पास से कुछ दान लेना चाहता हूँ ।

दोनों चाण्डाल - क्या हम लोगों से दान लोगे ?

चारुदत्त -- ऐसा मत कहो । बिना सोचे समझे काम करने वाले दुराचारी