मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
दशमोऽङ्कः ५८५
चाण्डालौ--ओशालणं किदं, विवित्तं लाअमग्गं, ता आणेध एदं दिण्णवज्झचिण्हं । ( अपसारणं कृतम्, विविक्तो राजमार्गः, तदानयतैनं दत्तवध्यचिह्नम् । )
( चारुदत्तो निःश्वस्य 'मैत्रेय भोः ! किमिदमद्य' ४।२६ इत्यादि पठति । )
( नेपथ्ये-- )
हा ताद ! हा पिअवअस्स ! ! ( हा तात ! हा प्रियवयस्य । )
चारुदत्तः-- ( आकर्ण्य सकरुणम् ) भोः स्वजातिमहत्तर ! इच्छाम्यहं भवतः सकाशात् प्रतिग्रहं कर्तुम् ।
चाण्डालौ--किं अम्हाणं हत्यादो पडिग्गहं कलेशि ? ( किमस्माकं हस्तात् प्रतिग्रहं करोषि ? )
चारुदत्तः--शान्तं पापम् । नापरीक्ष्यकारी दुराचारः पालक इव
स्येत्यर्थः, वयस्याः=सुहृदः, सखायः, वस्त्रस्य अन्तेन=अन्तभागेन निरुद्धानि=आच्छादितानि=आवृतानि वक्त्राणि यैस्तादृशाः, सन्तः, दूरतरम्=अतिदूरम्, मम दृष्टिपथमनागच्छन्त इत्यर्थः, प्रयान्ति=पलायन्ते, हि=यतः, सुखे=सुखावस्थायम्, संस्थितस्य=विद्यमानस्य, जनस्य, परः अन्यः असम्बन्धीत्यर्थः, अपि, बन्धुः=आत्मीयः, भवति किन्तु विषमे=विषमावस्थायाम्, स्थितस्य=विद्यमानस्य, जनस्य, कश्चिद्=स्वकीयः, परकीयो वा जनः, मित्रम्=सुहृद्, सहायक इत्यर्थः, न=नैव, भवतीत्यर्थः । एवञ्च साम्प्रतं कश्चिज्जनः मे साहाय्यं न विधातुमिच्छतीति तद्भावः । अप्रस्तुतप्रशंसा-लंकारः, आर्या वृत्तम् ॥१६॥
**शब्दार्थ--**विविक्तः=खाली, दत्तवध्यचिह्नम्=वधयोग्य व्यक्ति के चिह्नों से युक्त, स्वजातिमहत्तर=अपनी जातिके प्रमुख पुरुष, प्रतिग्रहम्=दान को, अपरीक्ष्यकारी=बिना सोचे समझे काम करने वाला, अभ्यर्थये=प्रार्थना करता हूँ, अन्तरम्=खाली जगह, दारकम्=बच्चे को, त्वरताम्=जल्दी करो, प्रेक्षितव्यः=देखना चाहिये ।
अर्थ--दोनों चाण्डाल - ( सबको ) भगा दिया, राजमार्ग खाली है, अतः वधयोग्य चिह्नों वाले इस ( चारुदत्त ) को ले आओ ।
( चारुदत्त निःश्वास लेकर "हे मैत्रेय ! क्या आज" ४।२६ इत्यादि पढ़ता है । )
( नेपथ्य में )
हाय पिताजी, हाय मित्र !
चारुदत्त -- ( सुनकर करुणा के साथ ) हे अपनी जाति के प्रधान पुरुष ( मुखिया ) ! आपके पास से कुछ दान लेना चाहता हूँ ।
दोनों चाण्डाल - क्या हम लोगों से दान लोगे ?
चारुदत्त -- ऐसा मत कहो । बिना सोचे समझे काम करने वाले दुराचारी
| ५८६ | मृच्छकटिकम् |
|---|
चाण्डालः । तत् परलोकार्थं पुत्रमुखं द्रष्टुमभ्यर्थये ।
**चाण्डालौ—**एव्वं कलोअदू । ( एवं क्रियताम् । )
( नेपथ्ये )
हा ताद ! हा आवुक ! ( हा तात ! हा पितः ! )
( चारुदत्तः श्रुत्वा सकरुणम् 'भोः स्वजातिमहत्तर !' इत्यादि पठति । )
**चाण्डालौ—**अले पउला ! खणं अन्तंलं देध । एशे अज्जचालुदत्ते पुत्तमूहं पेक्खदु । ( नेपथ्याभिमुखम् ) अज्ज इदो इदो, आअच्छ ले दालआ ! आअच्छ । (अरे पौराः ! क्षणमन्तरं दत्त । एष आर्यचारुदत्तः पुत्रमुखं प्रेक्षताम् ।) ( आर्य ! इत इतः । आगच्छ रे दारक ! आगच्छ । )
( ततः प्रविशति दारकमादाय विदूषकः । )
**विदूषकः—**तुवरदु तुवरदु भद्दमुहो, पिदा दे मारिदुं णीअदि । ( त्वरतां त्वरतां भद्रमुखः, पिता ते मारयितुं नीयते । )
**दारकः—**हा ताद ! हा आवुक ! । ( हा तात ! हा पितः । )
**विदूषकः—**हा पिअवअस्स ! ! कहिं मए तुमं पेक्खिदव्वो ? ( हा प्रियवयस्य ! कस्मिन् मया त्वं प्रेक्षितव्यः ? )
पालक के समान चाण्डाल नहीं है । इस लिये परलोक के लिये पुत्र का मुख देखने की प्रार्थना करता हूँ ।
**दोनों चाण्डाल—**ऐसा ही करिये ।
( नेपथ्य में )
हाय पिता जी ! हाय मित्र !
( चारुदत्त सुनकर करुणासहित "हे अपनी जाति के प्रमुख पुरुष !" इत्यादि पढ़ता है । )
**दोनों चाण्डाल—**अरे नगरवासियों ! कुछ खाली जगह दो । यह आर्य चारुदत्त पुत्र का मुख देख ले । ( नेपथ्य की ओर देख कर ) आर्य ! इधर आओ इधर, आ लड़के ! आ । )
( इसके बाद बच्चे को लेकर विदूषक प्रवेश करता है । )
**विदूषक—**भद्रमुख ! जल्दी करो, जल्दी करो, तुम्हारे पिता मारे जाने के लिये ले जाये जा रहे हैं ।
**लड़का—**हाय तात ! हाय जनक ! ।
**विदूषक—**हाय प्रिय मित्र ! ( अब ) तुम्हें मैं कहाँ देख पाऊँगा ?
दशमोऽङ्कः ५८७
चारुदत्त:-- (पुत्रं मित्रञ्च वीक्ष्य) हा पुत्र ! हा मैत्रेय ! (सकरुणम्) भो: ! कष्टम् ।
चिरं खलु भविष्यामि परलोके पिपासितः । अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥ १७ ॥
किं पुत्राय प्रयच्छामि ? (आत्मानमवलोक्य । यज्ञोपवीतं दृष्ट्वा) आं, इदं तावदस्ति मम च ।
अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् । देवतानां पितॄणाञ्च भागो येन प्रदीयते ॥ १८ ॥
अन्वय:-- (अहम्), परलोके, खलु, चिरम्, पिपासितः, भविष्यामि, अस्माकम्, इदम्, निवापोदकभोजनम् अत्यल्पम्, (अस्ति) ॥ १७ ॥
शब्दार्थ - परलोके = परलोक में, खलु = निश्चित रूप से, चिरम् = बहुत समय तक, पिपासितः = प्यासा, भविष्यामि = रहूँगा, (क्योंकि) अस्माकम् = हमारा, निवापोदकभोजनम् = निवाप = पितरों का तर्पण, उसका उदक = पानी, उसका भोजन = पान जिससे होने वाला है वह, इदम् = यह (रोहसेन रूपी सन्तान) अत्यल्पम् = बहुत छोटा, है ॥ १७ ॥
अर्थ -- चारुदत्त -- (पुत्र और मित्र को देखकर) हाय बेटा ! हाय मित्र ! (करुणा-सहित) हाय ! कष्ट है।
(मैं) परलोक में बहुत समय तक प्यासा रहूँगा। क्योंकि हमारा तर्पण का पानी देने वाला यह बालक बहुत छोटा है ॥ १७ ॥
टीका -- अल्पवयस्कं परिपोषणीयं पुत्रं दृष्ट्वा विषादं प्रकटयन्नाह-चिरमिति । परलोके = लोकान्तरे, खलु = निश्चयेन, चिरम् = दीर्घकालम्, पिपासितः = तृष्णार्तः, भविष्यामि = वर्तिष्ये, यतोहि, अस्माकम् = मम पित्रादीनां च, निवापः = पितॄणां तर्पणम्, तस्य उदकम् = जलम्, तस्य भोजनम् = पानं यस्मात् तत्, पितृपुरुषेभ्यो जलप्रदायि इत्यर्थः, इदम् = पुरोवर्ति रोहसेनरूपम् अपत्यम्, अत्यल्पम् = अल्पवयस्कमिति भावः । एवञ्चायं यावत् पर्याप्तं जलं प्रदातुं समर्थो भविष्यति तावदह मम पूर्वजाश्च पिपासिता एव स्थास्यन्तीति भावः । पथ्यावक्त्रं वृत्तम् ॥ १७ ॥
विमर्श -- निवापोदकभोजनम् - निवापस्य उदकस्य भोजनं यस्मात् तत्-ऐसा बहुव्रीहि समझना चाहिये। भोजन = पीना अर्थ है। यह पद 'इदम्' का विशेषण है 'इदम्' 'अपत्यम्' का ॥ १७ ॥
अन्वयः -- [यज्ञोपवीतम्], ब्राह्मणानाम्, अमौक्तिकम्, असौवर्णम्, विभूषणम्, अस्ति, येन, देवतानाम्, पितॄणाम्, च, भागः, प्रदीयते ॥ १८ ॥
५८८ मृच्छकटिकम्
( इति यज्ञोपवीतं ददाति । )
चाण्डालः-- आअच्छ ले चालुदत्ता ! आअच्छ । ( आगच्छ रे चारुदत्त ! आगच्छ । )
द्वितीयः-- अले ! अज्जचालुदत्तं णिलुववदेण णामेण आलवशि ? अले ! पेक्ख । ( अरे ! आर्यचारुदत्तं निरुपपदेन नाम्ना आलपसि ? अरे ! प्रेक्षस्व । )
अब्भुदए अवशाणे तहेअ लत्तिन्दिवं अहदमग्गा ।
उद्दामे व्व किशोली णिअदी क्खु पडिच्छिदुं जादि ॥ १६ ॥
( अभ्युदयेऽवसाने तथैव रात्रिन्दिवमहतमार्गा ।
उद्दामेव किशोरी नियतिः खलु प्रतीष्टं याति ॥ १६ ॥ )
शब्दार्थ-- ( यज्ञोपवीतम्=जनेऊ ), ब्राह्मणानाम्=ब्राह्मणों का, अमौक्तिकम्=मोतियों से नहीं बनाया गया, असौवर्णम्=सोने से नहीं बनाया गया, विभूषणम्=गहना, है, येन=जिसके द्वारा, देवतानाम्=देवताओं का, च=और, पितॄणाम्=पितरों का, भागः=अंश, प्रदीयते=दिया जाता है ॥ १८ ॥
अर्थ-- बेटे को क्या दूँ ? ( अपने को देखकर, जनेऊ को देख कर ) हाँ, यह तो है। और मेरा--
( यह जनेऊ ) ब्राह्मणों का बिना मोतियों के बनाया गया, बिना सोने के बनाया गया गहना है जिससे देवताओं और पितरों का भाग प्रदान किया जाता है ॥ १८ ॥
( यह कह कर जनेऊ दे देता है । )
टीकाः-- यज्ञोपवीतं नाम ब्राह्मणानां सर्वस्वं तदेव पुत्राय दातव्यमिति प्रति-पादयन्नाह—अमौक्तिकमिति । ब्राह्मणाम्=विप्राणाम्, अमौक्तिकम्=मुक्ताद्यनिर्मि-तम्, असौवर्णम्=सुवर्णादिनाऽनिष्पन्नम्, विभूषणम्=आभूषणम् अस्ति यज्ञोपवीत-मिति शेषः । येन=यद्द्वारा, देवतानाम्=सुराणाम्, पितॄणाम्=पूर्वजानाम्, च, भागः=अंशः, प्रदीयते=समर्प्यते । उपनयनानन्तरमेव द्विजत्वमवाप्य दैवकर्मसु पितृकर्मसु चाधिकारो लभ्यत इति भावः । अतः यज्ञोपवीतं विप्रस्य परमोपकारकं वस्त्विति इदं पुत्राय ददामीत्यर्थः, पथ्यावक्त्रं वृत्तम् ॥ १८ ॥
अर्थ--चाण्डाल-- आ रे चारुदत्त ! आ ।
अन्वयः-- अभ्युदये, तथैव, अवसाने, रात्रिन्दिवम्, अहतमार्गा, नियतिः, उद्दामा, किशोरी, इव, खलु, इष्टम्, प्रति, याति ॥ १६ ॥
शब्दार्थ-- अभ्युदये=सम्पत्ति में, तथैव=उसी प्रकार, अवसाने=विपत्ति में, रात्रिन्दिवम्=दिन रात, अहतमार्गा=बिना रोक टोक के चलने वाली, नियतिः=
दशमोऽङ्कः ५८६
अण्णं च---शुक्खा ववदेशा शे किं पणमिअ मत्थए ण काअव्वं ।
लाहुगहिदे वि चन्दे ण वन्दणीए जणपदश्श ? ॥ २० ॥
( अन्यच्च--शुष्का व्यपदेशा अस्य किं प्रणम्य मस्तके न कर्त्तव्यम् ।
राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य ? ॥ २० ॥ )
भाग्य, उद्दामा=स्वच्छन्दचारिणी, किशोरी=नव युवती, इव=के समान, खलु=निश्चितरूप से, इष्टम्=मन चाहे के, प्रति=समीप, याति=जाती है ॥ १९ ॥
अर्थ--दूसरा चाण्डाल-अरे ! चारुदत्त को विना उपाधि लगाये बुला रहा है। अरे, देख, देख --
सम्पत्ति में और उसी प्रकार विपत्ति में दिनरात विना रोक टोक चलने वाली किस्मत ( भाग्य ) स्वच्छन्दचारिणी नवयुवती के समान निश्चितरूप से इष्ट ( मन चाहे ) के पास चली जाती है ॥ १९ ॥
**टीका--**सर्वगुणसम्पन्नमपि नियतिवशाद् दुखमापन्नं चारुदत्तं सावज्ञं न सम्बोधनीयमित्याह द्वितीयश्चाण्डालः -अभ्युदय इति । अभ्युदये=सम्पत्तौ, तथैव=तद्वदेव, अवसाने=अभ्युदयनाशे, विपत्तावित्यर्थः, रात्रिन्दिवम्=अहर्निशम्, अहत-मार्गा=अप्रतिहतगतिका, नियतिः=भाग्यम्, उद्दामा=उच्छृङ्खला, स्वच्छन्दचारिणी-त्यर्थः, किशोरी=नवयुवतिः, इव=यथा इष्टम्=अभीष्टं स्थानम् पक्षे पुरुषं प्रति याति=गच्छति । अतः नियतिवशादधुना विपन्नस्य चारुदत्तस्यानादरोऽस्माभिर्नो विधेय इति तद्भावः । उपमालंकार, आर्या वृत्तम् ॥ १९ ॥
**अन्वय--**अस्य, व्यपदेशाः, शुष्काः, किम्, प्रणम्य, मस्तके, न, कर्तव्यम् ? चन्द्रः, राहुगृहीतः, अपि, जनपदस्य, वन्दनीयः, न ? ॥ २० ॥
**शब्दार्थ--**अस्य=इस ( चारुदत्त ) के, व्यपदेशाः=कुलनाम आदि, शुष्काः=सूख गये, किम्=क्या ? प्रणम्य=प्रणाम करके, झुककरके, मस्तके=मस्तक पर, शिरु पर, न=नहीं, करणीयम्=करना चाहिये ? चन्द्रः=चन्द्रमा, राहुगृहीतः=राहु से पकड़ा गया, ग्रसित हुआ, अपि=भी, जनपदस्य=जनपद के लोगों का, वन्दनीयः=वन्दना करने योग्य, न=नहीं, होता है ? अर्थात् अवश्य होता है ॥ २० ॥
अर्थ--और भी--
इस ( चारुदत्त ) के कुलनाम आदि भी सूख गये ( नष्ट हो गये ) क्या ? अर्थात् नष्ट नहीं हुये । प्रणाम करके इस ( इसके गुणों ) को सिर पर नहीं करना चाहिये क्या ? अर्थात् इसे अवश्य सम्मान देना चाहिये । चन्द्रमा राहु द्वारा पकड़ा जाने पर क्या जनपद के लोगों के लिये वन्दनीय नहीं होता है अर्थात् होता है ॥२०॥
**टीका--**पूर्वश्लोकोक्तमेवाभिप्रायं शब्दान्तरेण प्रतिपादयन्नाह--शुष्का इति । अस्य=अमुष्य चारुदत्तस्येत्यर्थः, व्यपदेशाः=कुलनामादयः, शुष्काः=नष्टाः, किम् ?
५६० मृच्छकटिकम्
बालकः— अरे रे चाण्डाला ! कहिं मे आवुकं णेध ? (अरे रे चाण्डालाः ! कुत्र मम पितरं नयथः ? )
चारुदत्तः— वत्स !
अंसेन बिभ्रत् करवीरमालां स्कन्धेन शूलं हृदयेन शोकम् । आघातमद्याहमनुप्रयामि शामित्रमालब्धुमिवाध्वरेऽजः ॥ २१ ॥
नैव लुप्ता इत्यर्थः, प्रणम्य=नत्वा, अस्य गुणादिकमिति शेषः, मस्तके=शिरसि, न=नैव, कर्तव्यम्=करणीयम्, अपि तु अवश्यमेव करणीयमित्यर्थः । राहुणा=सैंहिकेयेन, गृहीतः=ग्रस्तः, समाक्रान्तः अपि, चन्द्रः=शशी, जनपदस्य=प्रदेशस्य लोकसमूहस्य, वन्दनीयः=वन्द्यः, स्तुत्यः, न=नैव ? अवश्यमेव स्तवनीयो भवतीति भावः ।
अस्य श्लोकस्य पूर्वार्द्धस्य पाठान्तरमपि उपलभ्यते — 'शुष्का अपि प्रदेशा अस्य विनमितमस्तकेन कर्तव्यम्, प्रदेशाः=अङ्गानि, यशोनामादिकमित्यर्थः, प्रणम्य कर्तव्यम्=न व्यवहरणीयं किम् ? शेषं पूर्वोक्तमेवेति बोध्यम् । एवञ्च यथा राहुग्रस्तोऽपि चन्द्रः सर्वैर्जनैः प्रणम्यते तथैव साम्प्रतं विपन्नोऽपि चारुदत्तोऽस्माभिः प्रणम्य एव, न तु तिरस्करणीय इति भावः । दृष्टान्तालङ्कारः, आर्या वृत्तम् ॥२०॥
अर्थ -- बालक--अरे रे चाण्डालो ! मेरे पिता को कहाँ ले जा रहे हो ?
अन्वयः— अंसेन, करवीरमालाम्, स्कन्धेन, शूलम्, हृदयेन, शोकम्, बिभ्रत्, अहम्, अध्वरे, आलब्धुम्, शामित्रम्, अजः, इव, अद्य, आघातम्, अनुप्रयामि ॥२१॥
शब्दार्थ— अंसेन=गले से [अर्थात् गले में] करवीरमालाम्=कनेर के फूलों की माला को, स्कन्धेन=कन्धे से [अर्थात् कन्धे पर], शूलम्=शूल को, हृदयेन=हृदय से (अर्थात् हृदय में), शोकम्=शोक को, बिभ्रत्=धारण करता हुआ, अहम्=मैं चारुदत्त, अध्वरे=यज्ञ में, आलब्धुम्=आलम्भन=वध करने के लिये, शामित्रम्=यज्ञीय पशु बाँधने की जगह पर (पहुँचाये जाने वाले), अजः=बकरे, इव=के सामान, अद्य=आज इस समय, आघातम्=वध की जगह, अनुप्रयामि=पीछे पीछे जा रहा हूँ ॥२१॥
अर्थ--चारुदत्त-- बेटा !
गले में कनेर के फूलों की माला, कन्धे पर शूल और हृदय में शोक को धारण करता हुआ मैं आज यज्ञ में मारने के लिये यज्ञीयपशुबन्धन के स्थान पर लेजाये जाते हुये बकरे के समान वधस्थान पर पीछे पीछे जा रहा हूँ ॥२१॥
टीका-- पुत्रेण पृष्टस्य स्वयमेवोत्तरं ददत् चारुदत्तः स्वावस्थां प्रतिपादयति-अंसेनेति । असेन=स्कन्धसमीपवर्ति-गलप्रदेशेनेत्यर्थः, करवीरमालाम्=करबीरनामक-
दशमोऽङ्कः ५६१
चाण्डालः- दालअ ! ( दारक ! )
ण हु अम्हे चाण्डाला चाण्डालउलम्मि जादपुब्बा वि ।
जे अहिभवन्ति शाहुं ते पाबा ते अ चाण्डाला ॥ २२ ॥
( न खलु वयं चाण्डालाः चाण्डालकुले जातपूर्वा अपि ।
ये अभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥ २२ ॥ )
पुष्पविशेषविनिर्मितमालाम्, स्कन्धेन=स्कन्धदेशेन, शूलम्=हत्यापराधिनां हननसाधनीभूतम्, शस्त्रम्, हृदयेन=चेतसा, चेतसीत्यर्थः, शोकम्=मिथ्यापवादजनित दुःखमित्यर्थः, बिभ्रत्=धारयन्, अहम्=चारुदत्तः, अध्वरे=यज्ञे, आलब्धुम्=हन्तुम्, शामित्रम्=पशुबन्धनस्थानम्, नीयमान इति शेषः, अजः=छागः, इव=यथा, आघातम्=वध्यभूमिम्, अनुप्रयामि=अनुगच्छामि । यथा खलु निरपराधोऽपि पशुः यज्ञादौ हन्यते तथैवाहमपि निरपराधः वधस्थानं नीत्वा मृत्युं लप्स्ये इति भावः । दीपकालंकारः, इन्द्रवज्रा वृत्तम् ॥२१॥
अन्वयः-—चाण्डालकुले, जातपूर्वाः, अपि, वयम्, खलु, चाण्डालाः, न, ये, साधुम्, अभिभवन्ति, ते, पापाः, ते, चाण्डालाः, च ॥२२॥
शब्दार्थः-—चाण्डालकुले=चाण्डाल-वंश में, जातपूर्वाः=पहले जन्म लेने वाले, अपि=भी, वयम्=हमलोग, खलु=निश्चित ही, चाण्डालाः=चाण्डाल, न=नहीं, हैं, ये=जो लोग, साधुम्=सज्जन पुरुष को, अभिभवन्ति=अपमानित करते हैं, मारते हैं, ते=वे, पापाः=पापी हैं, च=और, ते=वे, ही, चाण्डालाः=चाण्डाल हैं ॥२२॥
अर्थ-—**चाण्डाल--**बच्चे !
चाण्डालों के कुल में पहले पैदा हुये भी हम लोग चाण्डाल नहीं हैं। जो सज्जन व्यक्ति को अपमानित करते हैं [ मारते हैं ] वे पापी हैं, और वे ही चाण्डाल हैं ॥२२॥
टीका-—रोहसेनादिना कथितमपमानजनकं 'चाण्डाल' इति सम्बोधनमाकर्ण्य दुःखं प्रकटयन् स्वनिर्दोषतां प्रतिपादयितुमाह चाण्डालः-—न खल्विति । चाण्डालानाम्=एतन्नाम्ना प्रसिद्धानामन्त्यजानां कुले=वंशे, जातपूर्वाः=उत्पन्नपूर्वाः, अपि, वयम्=अस्मिन् कर्मणि नियुक्ताः मादृशाः जनाः, न=नैव, चाण्डालाः=कर्मणा गर्हिताः, ये=ये जनाः, साधुम्=सत्पुरुषम्, अभिभवन्ति=तिरस्कुर्वन्ति, मिथ्यारोपादिना घातयन्तीत्यर्थः, ते=तादृशाः, पापाः=पापिनः, च=तथा, चाण्डालाः=कर्मणा गर्हिताः सन्ति । वयन्तु केवलं जन्मनेव चाण्डालाः, अस्माकमाचरणं तु न कदापि सत्पुरुषाव-
५९२ मृच्छकटिकम्
दारकः-- ता कीस मारेध आवुकं ? ( तत् केन मारयथः पितरम् ? )
चाण्डालः-- दीहाओ ! अत्त लाअणिओओ क्खु अबलज्झदि, ण क्खु अम्हे । ( दीर्घायुः ! अत्र राजनियोगः खलु अपराध्यति, न खलु आवाम् । )
दारकः-- वावादेध मं, मुञ्चध आवुकं । ( व्यापादयतं माम्, मुञ्चतं पितरम् । )
चाण्डालः-- दीहाओ ! एवं भणन्ते चिलं मे जीव । ( दीर्घायुः ! एवं भणन् चिरं मे जीव । )
चारुदत्तः-- ( सास्त्रं पुत्रं कण्ठे गृहीत्वा )
इदं तत् स्नेहसर्वस्वं सममाढ्यदरिद्रयोः ।
अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ २३ ॥
मानाय भवति । अतो न वयं निन्द्याः । निन्द्यास्तु राजपुरुषा एव, यैर्निरपराधोऽपि सज्जनः चारुदत्तः साम्प्रतं वधस्थानं संप्रेष्य वधायादिष्ट इति तद्भावः ॥२२॥
विमर्श-- चारुदत्त के पुत्र रोहसेन के मुख से 'रे रे चाण्डालाः' ऐसा सम्बोधन सुन कर चाण्डाल दुःखी हो जाता है और यह कहना चाहता है कि हम लोग तो केवल चाण्डालकुल में पैदा होने से ही चाण्डाल कहे जाते हैं । हमारे काम दूसरों को कष्ट देना नहीं है । वास्तव में चाण्डाल वे ही हैं । पापी भी वे ही हैं जो निरपराध सत्पुरुष को अपमानित करते हैं । झूठा आरोप लगा कर मृत्युदण्ड आदि देते या दिलवाते हैं । अतः हम लोग निर्दोष हैं ॥२२॥
अर्थ--बालक-- तो पिता को क्यों मारते हो ?
चाण्डाल-- चिरञ्जीविन् ! यहाँ राजा की आज्ञा ही अपराधी है न कि हम लोग ।
बालक-- तो मुझे मार डालो, मेरे पिता को छोड़ दो ।
चाण्डाल-- दीर्घायु ! ऐसा कहते हुये तुम बहुत दिनों तक जीवित रहो ।
अन्वयः-- तत्, इदम्, आढ्यदरिद्रयोः, समम्, स्नेहसर्वस्वम्, हृदयस्य, अचन्दनम्, अनौशीरम्, अनुलेपनम् ॥२३॥
शब्दार्थ-- तत् = वह लोकप्रसिद्ध, इदम् = यह सामने विद्यमान पुत्ररूपी वस्तु, आढ्यदरिद्रयोः = धनी और गरीब का, समम् = बराबर का, स्नेहसर्वस्वम् = वात्सल्यरस का सारभूत, है, हृदयस्य = हृदय का, अचन्दनम् = बिना चन्दन का, अनौशीरम् = बिना खस का, अनुलेपनम् = विलेपन की चीज है ॥२३॥
अर्थ--चारुदत्त-- ( आँसुओं के साथ पुत्र को गले लिपटा कर ) —
वह ( लोकप्रसिद्ध ) यह ( पुत्र रूपी वस्तु ) धनी और गरीब दोनों का समानरूप से वात्सल्यरस का सारभूत है, हृदय का, बिना चन्दन और बिना खस का, लेपन द्रव्य है ॥२३॥
दसमोऽङ्कः ५१३
( 'अंसेन बिभ्रत्' १०।२१ इत्यादि पुनः पठति । अवलोक्य स्वगतम् । 'अमी हि वस्त्रान्तनिरुद्धवक्त्राः' १०।१६ इत्यादि पुनः पठति । )
विदूषकः-भो भद्दमुहा ! मुञ्चध पिअवअस्सं चारुदत्तं, मं वावादेध । ( भो भद्रमुखौ ! मुञ्चतं प्रियवयस्यं चारुदत्तम्, मां व्यापारयतुम् । )
चारुदत्त-शान्तं पापम् । ( दृष्ट्वा स्वगतम् ) अद्य अवगच्छामि । ( 'परोऽपि बन्धुः समंसस्थित' १०।१६ इत्यादि पठति । प्रकाशम् । 'एताः पुनर्हर्म्यगताः स्त्रियो माम्' १०।११ इत्यादि पुनः पठति । )
चाण्डालः-ओशलध अज्जा ! ओशलध । (अपसरत आर्याः ! अपसरत ।)
किं पेक्खध शप्पुरुशं अजशवशेण प्पणट्ठजीवाशं । कूर्वे खण्डिदपाशं कञ्चणकलशं विअ डुब्बन्तं ॥ २४ ॥ (किं प्रेक्षध्वे सत्पुरुषमयशोवशेन प्रणष्टजीवाशम् । कूपे खण्डितपाशं काञ्चनकलशमिव मज्जन्तम् ॥ २४ ॥ )
टीका-बालपुत्रस्य तादृशं मुग्धं वचनमाकर्ण्य द्रवितहृदयः पुत्रमालिङ्ग्य चारुदत्तः स्वशोकं व्यनक्ति-इदमिति । तत् = लोकप्रसिद्धम्, इदम्=पुरो दृश्यमानम् अपत्यरूपं वस्तु, आढघस्य = धनिनः, दरिद्रस्य = निर्धनस्य, च, समम्=समानम्, स्नेहसर्वस्वम्=प्रेम्णः वात्सल्यस्य वा सारभूतम्, धनौ निर्धनश्चोभौ समानरूपेणैव पुत्रस्य स्नेहं कुर्वन्तीत्यर्थः । हृदयस्य=चित्तस्य, अचन्दनम् = चन्दनरससम्पर्कशून्यम्, अनोशीरम्= वीरणसारतत्त्वसम्पर्करहितम्, अनुलेपनम् = शैत्याह्लादकत्वाद्याधायकद्रव्यमित्यर्थः । एवञ्च पूर्वं यथाऽस्मिन् स्नेह आसीत् विपदवस्थायां साम्प्रतमपि तथैव मम स्नेहः अस्मिन् वर्तते इति भावः । रूपकमलंकारः, पथ्यावक्त्रं वृत्तम् ।।२३।।
अर्थ -( 'गर्दन में धारण करता हुआ' इत्यादि १०/२१ वां पद्य फिर पढ़ता है । देखकर अपने में 'ये कपड़े से अपना मुह ढँके हुये' इत्यादि १०/१६ पद्य फिर से पढ़ता है ।)
विदूषक- हे कल्याणकारी सज्जनों ! मेरे प्यारे मित्र को छोड़ दो ( इसके बदले में ) मुझे मार डालो ।
चारुदत्त-ऐसा मत कहो । ( देखकर अपने में ) आज समझ गया 'साधारण अवस्था में विद्यमान का दूसरा भी बन्धु बन जाता है।' इत्यादि १०/१६ वां पद्य पढ़ता है । ( प्रकटरूप में 'ये महलों में रहने वाली स्त्रियाँ' इत्यादि १०/११ वां श्लोक फिर पढ़ता है । )
अन्वयः-खण्डितपाशम्, कूपे, मज्जन्तम्, कञ्चनकलशम्, इव, अयशोवशेन, प्रणष्टजीवाशम्, सत्पुरुषम्, किम्, पश्यत ? ।।२४।।
शब्दार्थ-खण्डितपाशम्=टूटी हुई रस्सी वाले, कूपे=कुआं में, मज्जन्तम्=
३८ मृ०
५९४ मृच्छकटिकम्
चारुदत्तः—( सकरुणम् । 'शशिविमलमयूख' १०।१३ इत्यादि पठति । )
अपरः—अले ! पुणो वि घोशेहि । (अरे ! पुनरपि घोषय । )
( चाण्डालस्तथा करोति )-
चारुदत्तः—
प्राप्तोऽहं व्यसनकृशां दशामनार्या
यत्रेदं फलमपि जीवितावसानम् ।
एषा च व्यथयति घोषणा मनो मे
श्रोतव्यं यदिदमसौ मया हतेति ॥ २५ ॥
डूबते हुये, कञ्चनकलशम्=सोने के कलश, इव=के समान, अयशोवशेन=अपकीर्ति के कारण, प्रणष्टजीवाशम्=समाप्त हो गयी है जीने की आशा जिसकी ऐसे अर्थात् सज्जन ( चारुदत्त ) को, किम्=क्यों, पश्यत=देख रहे हो ॥२४॥
**अर्थ—चाण्डाल—**हटो सज्जनों ! हटो !
टूटी हुई रस्सी वाले, कुआँ में डूबते हुये सोने के कलश के समान, अपकीर्ति के कारण जीवन की आशा से रहित सत्पुरुष ( चारुदत्त ) को क्यों देख रहे हो ? ॥२४॥
**टीका—**चारुदत्तस्य वधं श्रुत्वा समागतान् जनान् तद्दर्शनाद् वारयन्नाह—किमिति । खण्डितः=छिन्नः, पाशः=बन्धनरज्जुः यस्य तादृशम्, अतएव, कूपे=भूमिस्थ-जले, मज्जन्तम्=निमग्नीभवन्तम्, कञ्चनकलशम्=सौवर्णघटम्, इव=यथा, अयशोवशेन=वसन्तसेनाबधाभियोगजनितकलङ्कसामर्थ्येन, प्रनष्टा=समाप्ता, जीवस्य जीवनस्य आशा यस्य तं तथाविधम्, सत्पुरुषम्=सज्जनम्, चारुदत्तमित्यर्थः, किम्=कथम्, पश्यत=अवलोकयत ? नैवावलोकनीयमिति भावः । उपमालंकारः, आर्या वृत्तम् ॥२४॥
अर्थ—चारुदत्त—( करुणा के साथ । 'चन्द्रमा की उज्ज्वल किरणों के समान दांतवाली । इत्यादि १०/१३ पद्य को पढ़ता है ।)
**दूसरा चाण्डाल—**अरे ! फिर से घोषणा करो ।
( चाण्डाल घोषणा करता है ।)
अन्वय—अहम्, व्यसनकृशाम्, अनार्याम्, दशाम्, प्राप्तः, यत्र, इदम्, जीवितावसानम्, फलम्, अपि, ( जातम् ), एषा, च, घोषणा, मे, मनः, व्यथयति, यत्, इदम्, श्रोतव्यम् 'असौ मया हता' इति ॥२५॥
शब्दार्थ—अहम्=मैं, व्यसनकृशाम्=विपत्ति के कारण शोचनीय, अनार्याम्=निन्दित, दशाम्=अवस्था को, प्राप्तः=प्राप्त हुआ हूँ, यत्र=जिस अवस्था में, इदम्=यह, जीवितावसानम्=जीवन की समाप्ति, फलम्=परिणाम, ( जातम्=हुआ है ) एषा च=और यह, घोषणा=दण्ड आदि का कहना, मे=मेरे, मनः=मन
दशमोऽङ्कः ५९५
( ततः प्रविशति प्रासादस्थो बद्धः स्थावरकः । )
स्थावरकः- ( घोषणामाकर्ण्य सर्वक्लव्यम् ) कथं अपावे चलुदत्ते वावादीअदि ! हग्गे णिअलेण शामिणा बन्धिदे। भोदु, आक्कन्दामि। शुणाध अज्जा ! शुणाध, एत्थ दाणि मए पावेण पवहणपड़िवत्तेण पुप्फकल्लण्डअजिण्णुज्जाणं वशन्तशेणा णीदा, तदो मम शामिणा 'मं ण कामेशि' त्तिकडुअ बाहुपाशवलक्कालेण मालिदा, ण उण एदिणा अज्जेण । कथं विद्दूलदाए ण कोवि शुणादि ? ता किं कलेमि ? अत्ताणं पाडेमिं । ( विचिन्त्य ) जइ एव्वं कलेमि, तदा अज्जचारुदत्ते ण वावादीअदि। भोदु, इमादो पाशा-
को, व्यथयति=व्यथित कर रही है, यत्=कि, इदम्=यह, श्रोतव्यम्=सुनना पड़ रहा है 'असौ=यह, ( वसन्तसेना ), मया=मैने ( चारुदत्त ने ) हता'=मार डाली ॥२५॥
अर्थ--चारुदत्त-- मैं विपत्ति के कारण इस गर्हित दशा को प्राप्त हुआ हूँ जिसमें जीवन की समाप्ति यह फल भी हुआ है और यह घोषणा मेरे मन को व्यथित कर रहीं हैं कि "मैंने वसन्तसेना मारी है।" ॥ २५ ॥
टीका--'चारुदत्तेनार्थकल्यवर्त्तस्य कारणात् वसन्तसेना हता' इत्यादिघोषणां श्रोतुमसमर्थश्चारुदत्तो विलपन्नाह—प्राप्त इति। अहम्=चारुदत्तः, व्यसनेन=विपदा कृशाम्=क्षीणाम्, शोचनीयामित्यर्थः, दशाम्=अवस्थां, दुर्दशामित्यर्थः, प्राप्तः=उपगतः यत्र=यस्यां दशायाम्, इदम्=एतत् अनुभवविषयीभूतम्, जीवितावसानम्=जीवनस्य परिसमाप्तिः, प्राणदण्डरूपम्, फलमपि=परिणामोऽपि, जात इति शेषः, एषा च=सर्वैः श्रूयमाणा, च, घोषणा=अपवादकथनपूर्वकं दण्डकथनम्, मे=मम, मनः=चित्तम्, व्यथयति=पीडयति, यत्=यस्मात्, इदम्=इत्थम्, श्रोतव्यम्=आकर्णनीयम्, वसन्तसेना=तन्नाम्नी गणिका मया=चारुदत्तेन, हता=मारिता । या मम प्राणभूता आसीत् सा मयैव हतेति श्रोतुमसमर्थोऽपि विवशतया शृणोमीति भावः । प्रहर्षिणी वृत्तम् ॥ २५ ॥
**शब्दार्थ--**प्रासादस्थः=महल में स्थित, बन्द, सर्वक्लव्यम्=विकलता के साथ, अपापः=पापरहित, निरपराध, आक्रन्दामि=चिल्लाता हूँ। प्रवहणपरिवर्तनेन=गाड़ी बदल जाने से, विद्रूरतया=बहुत दूर होने के कारण, निक्षिपाभि=गिराता हूँ, उपरतः=मरा हुआ, वासपादपः=रहने का वृक्ष=स्थान, दण्डनिगडैः=बन्धन की बेड़ियाँ, अन्तरम् अन्तरम्=जगह, जगह ( दीजिये ) ।
अर्थ-- ( इसके बाद प्रासाद में स्थित बंधा हुआ स्थावरक प्रवेश करता है । )
स्थावरक-- ( घोषणा सुनकर व्याकुलता के साथ ) क्या निष्पाप (निरप-
| ५९६ | मृच्छकटिकम् |
|---|
दवालग्ग-पदोलिकादो एदिणा जिण्णगवक्खेण अत्ताणं णिक्खिवामि। वरं हग्गे उवलदे, ण उण एशे कुलपुत्तविहगाणं वाशपादवे अज्जचालदत्ते। एव्वं जइ विवज्जामि, लद्धं मए पललोए। (इत्यात्मानं पातयित्वा) ही ही ! ण उवलदम्हि। भग्गे मे दण्डणिअले। ता चाण्डालघोशं शमण्वेशाभि। (दृष्ट्वा उपसृत्य) हंहो चाण्डाला! अन्तलं अन्तलं। (कथमपापश्चारुदत्तो व्यापाद्यते? अहं निगडेन स्वामिना बद्धः। भवतु, आक्रन्दामि। शृणुत आर्याः! शृणुत, अत्र इदानीं मया पापेन प्रवहणपरिवर्तेन पुष्पकरण्डकजीर्णोद्यानं वसन्तसेना नीता, ततो मम स्वामिना 'मां न कामयसे' इति कृत्वा बाहुपाशबलात्कारेण मारिता, न पुनरेतेन आर्येण। कथं विदूरतया न कोऽपि शृणोति? तत् किं करोमि? आत्मानं पातयामि!) (यद्येवं करोमि, तदा आर्य चारुदत्तो न व्यापाद्यते। भवतु, अस्याः प्रासादबालाग्रप्रतोलिकातः एतेन जीर्णगवाक्षेण आत्मानं निक्षिपामि। वरमहमुपरतो न पुनरेष कुलपुत्रविहगानां वासपादप आर्यचारुदत्तः। एवं यदि विपद्ये, लब्धो मया परलोकः।) (ही ही! नोपरतोऽस्मि। भग्नं मे दण्डनिगडः। तच्चाण्डालघोषं समन्विष्यामि।) (हंहो चांडालौ! अन्तरमन्तरम्।)
चाण्डालौ—अले ! के अन्तलं मग्गेदि? (अरे ! कः अन्तरं याचते ?)
(चेटः शुणाध—इति पूर्वोक्तं पठति।)
राध) चारुदत्त मारा जा रहा है? मैं स्वामी शकार के द्वारा बेड़ियो से बाँध दिया गया हूँ। अच्छा चिल्लाता हूँ। सुनिये सज्जनों! सुनिये, मुझ पापी ने गाड़ी बदल जाने के कारण वसन्तसेना पुष्पकरण्डक जीर्णोद्यान में पहुँचा दी थी। इसके बाद मेरे मालिक शकार ने 'मुझे नहीं चाहती हो' ऐसा कह कर बाहुपाश द्वारा बलपूर्वक [गला दबा कर] मार डाली थी, इस सज्जन (चारुदत्त) ने नहीं। क्या, बहुत अधिक दूरी के कारण कोई नहीं सुन पा रहा है? तो क्या करूँ? अपने आप को (यहाँ से) गिराता हूँ। (सोच कर) यदि ऐसा करता हूँ तो आर्य चारुदत्त नहीं मारा जायगा। अच्छा, इस महल की नई बनी हुई ऊँची अट्टालिकावाली गली से इस पुरानी खिड़की (झरोखे) से अपने को [नीचे] गिराता हूँ, मैं मरा हुआ ही अच्छा, न कि कुलपुत्ररूपी पक्षियों के रहने का स्थान [वृक्ष] यह आर्य चारुदत्त [मरा हुआ]। यदि ऐसे मर जाता हूँ तो स्वर्गलोक प्राप्त करूँगा। (अपने आपको गिरा कर) ओह, मैं नहीं मरा। मेरी बन्धन की बेड़ियाँ टूट गयीं। अतः चाण्डालों की घोषणा-स्थान का पता लगाता हूँ। (देख कर और पास जाकर) हे हे चाण्डालो! जगह दो जगह दो।'
दोनों चाण्डाल—कौन खाली जगह माँग रहा है?
(चेट—'सुनिये सज्जनों!' इत्यादि पूर्वोक्त वचन कहता है।)
दशमोऽङ्कः ५९७
चारुदत्तः—अये !
कोऽयमेवंविधे काले कालपाशस्थिते मयि । अनावृष्टिहते सस्ये द्रोणमेघ इवोदितः ? ॥ २६ ॥
अन्वय----[ अये ! इति गद्यांशेनान्वयः ], अनावृष्टिहते, सस्ये, द्रोणमेघः, इव, एवंविधे, काले, मयि, कालपाशस्थिते, अयम्, कः, उदितः ॥ २६ ॥
**शब्दार्थ----[ अये !=ओह- ] अनावृष्टिहते=**सूखा पड़ने से सूखते हुये, सस्ये = धान पर, **द्रोण-मेघः=**द्रोणनामक मेघ, **इव=**के समान, **एवंविधे=**इस प्रकार के, **काले=**समय में, मयि मेरे, **कालपाशस्थिते=**मृत्यु के जाल [ फन्दा ] में फस जाने पर, **अयम्=**यह, **कः=**कौन, [मेरी रक्षा के लिये] **उदितः=**प्रकट हो गया, ।।२६।।
अर्थ--चारुदत्त--अये ! वर्षा न होने से [ सूखा पड़ जाने से ] सूखते हुये धान [ के खेतों ] पर द्रोण नामक मेघ के समान इस विपत्ति के समय में मृत्यु के फन्दे में मेरे फस जाने पर [ मेरी रक्षा के लिये ] कौन प्रकट हो गया है ॥ २६ ॥
टीका--स्थावरकचेटस्य वचनेन निजनिर्दोषतां शकारस्यापराधित्वं चाकर्ण्य मुदितः सन्तोषं प्रकटयन्नाह-क इति। अनावृष्ट्या=अवर्षणेन, हते=नष्टप्राये, सस्ये=क्षेत्रस्थिते धान्यवृक्षसमूहे इत्यर्थः, द्रोणमेघः=सस्यप्रपूरकः मेघविशेषः, इव = यथा, एवंविधे=विपत्तिमये, काले=समये, मयि=चारुदत्ते, कालस्य=मृत्योः पाशे=जाले, स्थिते=विद्यमाने मृत्युमुखमुपगते, सति, अयम्=तथ्यवक्ता मम निर्दोषत्व-प्रतिपादयिता, कः=सज्जनः, उदितः=प्रकटीभूतः, समागतः इत्यर्थः । यथा अनावृष्ट्या सर्वस्मिन् सस्ये शुष्कतां गच्छति सति अभीष्टजल-प्रदायको द्रोणनामको मेघ उदितो भूत्वा सस्यरक्षणं करोति तथैव मृत्युमुखं प्रयाते मयि को महान् पुरुषः मम रक्षार्थं वास्तविकीं घटनां प्रतिपादयितुं समक्षं समागत इति भावः । उपमा-लंकारः, पथ्यावक्त्रं वृत्तम् ॥२६॥
विमर्श--जीवानन्द के अनुसार ज्योतिस्तत्त्व ग्रन्थ में मेघों के विषय में निम्न वचन है --
त्रियुते शाकवर्षे तु चतुर्भिः शेषतः क्रमात् । आवर्तं विद्धि संवर्त्तं पुष्करं द्रोणमुत्तमम् ॥ आवर्ती निर्जलो मेघः संवर्तश्च बहूदकः । पुष्करो दुष्करजलो द्रोणः सस्यप्रपूरकः ॥२६॥
५६८ मृच्छकटिकम्
भोः ! श्रुतं भवद्भिः ?
न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमो भवेत् ॥ २७ ॥
अन्यच्च —
तेनास्म्यकृतवैरेण क्षुद्रेणात्यल्पबुद्धिना ।
शरेणेव विषाक्तेन दूषितेनापि दूषितः ॥ २८ ॥
अन्वयः— [ अहम् ], मरणात्, भीतः, न, अस्मि, केवलम्, यशः, दूषितम्, हि, विशुद्धस्य, मे, मृत्युः, पुत्रजन्मसमः, भवेत् ॥२७॥
शब्दार्थ— [ अहम् = मैं चारुदत्त ], मरणात् = मौत से, भीतः = डरा हुआ, न = नहीं, अस्मि = हूँ, केवलम् = केवल, यशः = कीर्ति, दूषितम् = दूषित हुई है, हि = क्योंकि, विशुद्धस्य = कलंकरहित, मम = मेरी, मृत्युः = मौत, पुत्रजन्मसमः = पुत्रजन्म के समान [ आनन्दप्रद ], भवेत् = होती ॥२७॥
**अर्थ—**चारुदत्त— हे सज्जनों ! सुना आपने ?
मैं मौत से नहीं डरा हूँ । मेरा केवल यश दूषित हुआ है । निष्कलंक मेरी मौत पुत्रजन्म के समान आनन्ददायक होती ॥२७॥
**टीका—**मरणं तु ध्रुवं तदा कथमेतत्कृते दुखितो भवसीत्याशंकायां प्रतिपादयति—नेति । मरणात् = मृत्योः, भीतः = भययुक्तः, न = नैव, अस्मि = भवामि, किन्तु केवलम्, यशः = कीर्तिः, यत् सकलं जीवनं सञ्चितम्, दूषितम् = कलंकितम्, स्त्रीवधाभियोगेन मे यश एव कलंकितम् । हि = यतः, विशुद्धस्य = निरपराधस्य, निष्कलंकस्य, मे = मम, चारुदत्तस्य, मृत्युः = मरणम्, पुत्रजन्मसमः = पुत्रोत्पत्तितुल्यः, महदानन्दप्रदः, भवेत् = स्यात् । एवञ्च नाहं मृत्योर्बिभेमि केवलमपयशस एव मे भयम् । यतो हि मया यावज्जीवनं यशसे प्रयतितम् । तद्यदि मम यश एव विनष्टं तदा सर्वमेव नष्टमिति तद्भावः । उपमालंकारः, पथावक्त्रं वृत्तम् ॥२७॥
**अन्वयः—**अकृतवैरेण, क्षुद्रेण, अत्यल्पबुद्धिना, दूषितेन, अपि, तेन, विषाक्तेन, शरेण, इव, दूषितः, अस्मि ॥२८॥
**शब्दार्थ—**अकृतवैरेण = कभी भी वैर न किये गये, क्षुद्रेण = तुच्छ, अत्यल्पबुद्धिना = अति छोटी बुद्धिवाले, अपि = भी, तेन = उस [ शकार ] के द्वारा, विषाक्तेन = विष से बुझे हुये, शरेण = बाण, इव = के समान, दूषितः = दोषयुक्त, कलंकित, अस्मि = कर दिया गया हूँ ॥२८॥
**अर्थ—**और भी,
जिससे कभी भी बैर नहीं किया गया है ऐसे तुच्छ अति अल्प बुद्धिवाले उस
दशमोऽङ्कः ५६६
चाण्डालौ—थावलअ ! अवि शच्चं भणाशि ? ( स्थावरक ! अपि सत्यं भणसि ? )
चेटः —शच्चं । हग्गे वि, ‘मा कश्श वि कथइश्शशि’त्ति पाशादवालग्गप-दोलिकाए दण्डणिअलेण बन्धिअ णिक्खित्ते । ( सत्यम् । अहमपि, ‘मा कस्यापि कथयिष्यसी’ति प्रासादबालाग्र-प्रतोलिकायां दण्डनिगडेन बद्ध्वा निक्षिप्तः । )
शकारः— ( प्रविश्य सहर्षम् । )
मंशेण तिक्खामिलिकेण भत्ते शाकेण शूपेण शमच्छकेण ।
भुत्तं मए अत्तणअश्श गेहे शालिश-कूलेण गुलोदणेण ॥ २६ ॥
( मांसेन तिक्ताम्लेन भक्तं शाकेन सूपेन समत्स्यकेन ।
भुक्तं मया आत्मनो गेहे शालीयकूरेण गुडौदनेन ॥ २६ ॥ )
( शकार ) के द्वारा विष से बुझाये गये वाण के समान दूषित ( कलंकित ) कर दिया गया हूँ ॥२८॥
टीका—सर्वेषां पुरतः आत्मनो निर्दोषत्वं प्रतिपादयति—तेनेति । न कृतम्= विहितम् वैरम्= शत्रुत्व यस्य तेन, मया कदापि अननुष्ठितविरोधाचरणेनेत्यर्थः, क्षुद्रेण= तुच्छेन, अत्यल्पा=अतिमन्दा बुद्धिः= मतिः, यस्य तेन, अतिमन्दमतिना मूर्खेणेत्यर्थः, दूषितेन= दोषयुक्तेन, अपि, तेन= शकारेण कर्त्रा, विषाक्तेन= विष-दग्धेन, शरेण= वाणेन, इव= यथा, दूषितः= कलङ्कितः, अस्मि— जातोऽस्मीत्यर्थः । यद्वा—‘अस्मि’ इदमहमर्थे अस्मि= अहम् दूषितः= कलङ्कित इत्यर्थः, अकारणमेव वैरिभूतेन अज्ञानिना तेन शकारेणाहं मिथ्यैव दोषी साधित इति भावः । अत्रोपमा-लंकारः, पथ्यावक्त्रं वृत्तम् ॥२८॥
अर्थ—दोनों चाण्डाल—स्थावरक ! सही कह रहे हो क्या ?
**स्थावरक—**सच । ‘किसी से मत कहना’ इस लिये मुझे भी महल की नयी अटारीवाली गली के ऊपर, डण्डों की बेड़ी से बांधकर डाल दिया था ।
**अन्वयः—**मया, आत्मनः, गेहे, तिक्ताम्लेन, मांसेन, शाकेन, समत्स्यकेन, सूपेन, शालीयकूरेण, गुडौदनेन, भक्तम्, भुक्तम् ॥२६॥
**शब्दार्थ—**मया=मैंने ( शकार ने ) आत्मनः=अपने, गेहे=घर में, तिक्ताम्लेन=कड़वे और खट्टे, मांसेन=मांस से, शाकेन=सब्जी से, समत्स्यकेन=मछली के साथ, सूपेन=दाल से, शालीयकूरेण=अगहन में पैदा होने वाले धान के चावल के भात से, गुडौदनेन=गुड़ और चावल से, भक्तम्=भात, भुक्तम्=खाया है ॥२६॥
अर्थ—शकार—( प्रवेश करके हर्षसहित )
मैंने अपने घर में कड़वे और खट्टे मांस, शाक, मछलीसहित दाल, अगहनी धान के चावल का भात तथा गुड़ से मिले हुये भात को खाया है ॥२६॥
| ६०० | मृच्छकटिकम् |
|---|
(कर्णं दत्त्वा) भिण्ण-कंश-शङ्खणाए चाण्डालवाआए शलसंजोए, जधा अ एशे उक्खालिदे वज्झाडिण्डिमशद्दे पडहाणं अ शुणीअदि, तथा तक्केमि, दलिद्द-चालुदत्ताके, वज्झठ्ठाणं णीअदि त्ति । ता पेक्खिशं शत्तुविणाशे णाम महन्ते हलक्कश पलिदोशे होदि । शुदं अ मए, जेवि किल शत्तुं वावादअन्तं पेक्खदि तश्श अण्णश्शिं जम्मन्तले अक्खिलोगे ण होदि । मए क्खु विशगणिठगब्भपविट्टेण विअ कीडएण किं पि अन्तलं मग्गमाणेण उप्पाडिदे ताह दलिद्द-चालुदत्ताह विणाशे । शम्पदं अत्तण-केलिकाए पाशादवालग-पदोलिकाए अहिलुहिअ अत्तणो पलक्कमं पेक्खामि । (तथा कृत्वा दृष्ट्वा च) हीही ! एदाह दलिद्द-चालुदत्ताह वज्जं णीअमाणाह एवड्डे जणशम्मददे, ज वेलं अम्हालिशे पवले वलमणुश्शे वज्जं णीअदि, तं वेलं कीदिशे भवे ? (निरीक्ष्य) कधं एशं शे णव-बलद्दके विअ-मण्डिडे दक्खिणं दिशं णीअदि । अध किं णिमित्तं मम केलिकाए पाशाद-वालगपदोलिकाए शमीवे घोषणा णिवडिदा णिवालिदा अ ? (विलोक्य)
टीका—चारुदत्तस्य मृत्युदण्डमाकर्ण्य अतिहृष्टः शकारः साम्प्रतं स्वप्रसन्नतां सम्पन्नतां च प्रकटयितुमाह—मांसेनेति । मया=शकारेण आत्मनः=स्वस्य, गेहे=गृहे, तिक्तेन=तिक्तरसेन, आम्लेन=आम्लरसेन च, शाकेन=पत्रादि-रूपेण भांज्य-पदार्थ-विशेषेण समत्स्यकेन=मत्स्यसहितेन, सूपेन=द्विदलेन, शालीयकूरेण=शालितण्डुलविशेषप्रभवेण, अन्नविशेषेण, गुडोदनेन=गुडमिश्रितेनौदनेन सह, भक्तम्=अन्नपरिणामविशेषः, भुक्तम्=खादितम् । अत्र सहार्थे तृतीया बोध्या । पुनरुक्तिदोषस्तु शकारस्य वचनेषु सोढव्य एव । एवञ्चेदृशविविधव्यञ्जनाना-मास्वादं गृहीत्वाहं सर्वत उत्कृष्ट इति दर्पं प्रकटयतीति भावः । इन्द्रवज्रा वृत्तम् ॥२६॥
शब्दार्थ—भिन्नकांस्यवत्=फूटे हुये कांसे के समान, स्वरसंयोगः=स्वरों का मेल अर्थात् आवाज, उद्गीतः=ऊपर उठा हुआ, वध्यस्थानम्=वध करने की जगह, विषन्थिगर्भ-प्रविष्टकेन=विषवृक्ष की गांठ के भीतर घुसे हुये, उत्पादितः=बना दिया, जनसंमर्दः=लोगों की भीड़, नवबलीवर्दः=नये बैल, निपतिता=की गयी, अवतीर्य=नीचे उतर कर ।
अर्थ—(कान लगाकर) फुटे हुये कांसे के (वर्तन के) समान खन खन करती हुयी चाण्डालों की वाणी की आवाज [सुनाई दे रही है] और जिस प्रकार यह वध के समय की तेज ढोल की आवाज तथा नगाड़ों की आवाज सुनाई दे रही है उससे मैं यह अनुमान करता हूँ कि चारुदत्त को वध के स्थान [श्मशान] पर ले जाया जा रहा है। तो देखूंगा। दुश्मन के मरने पर हृदय को बहुत आनन्द
दशमोऽङ्कः ६०१
कधं थावलके चेड वि णत्थि इध ? मा णाम तेण इदो गदुअ मन्तभेदे किदे भविश्शदि ? ता जाव णं अण्णेशामि । ( भिन्नकांस्यवत्खङ्खनाया-श्चाण्डालवाचायाः स्वरसंयोगः, यथा च एष उद्गीतो बध्यडिण्डिमशब्दः पटहानाञ्च श्रूयते, तथा तर्कयामि, दरिद्रचारुदत्तो वध्यस्थानं नीयत इति । तत् प्रेक्षिष्ये । शत्रुविनाशो नाम महान् हृदयस्य परितोषो भवति । श्रुतञ्च मया, योऽपि किल शत्रुं व्यापाद्यमानं प्रेक्षते, तस्य अन्यस्मिन् जन्मान्तरे अक्षिरोगो न भवति । मया खलु विषग्रन्थिगर्भप्रविष्टेनेव कीटकेन किमपि अन्तरं मार्गयता उत्पादितस्तस्य दरिद्र-चारुदत्तस्य विनाशः । साम्प्रतमात्मीयायां प्रासाद-बालाग्र-प्रतोलिकायामधिरुह्य आत्मनः पराक्रमं प्रेक्षे । ) ( हीही ! एतस्य दरिद्र-चारुदत्तस्य वध्यं नीयमानस्य एतावान् जनसंमर्दः; यस्यां वेलायामस्मादृशः प्रवरो वरमनुष्यो वध्यं नीयते, तस्यां वेलायां कीदृशो भवेत् ? ) ( कथमेष स नव-बलीवर्द इव मण्डितो दक्षिणां दिशं नीयते । अथ किं निमित्तं मदीयायाः प्रासादबालाग्र-प्रतोलिकायाः समीपे घोषणा निपतिता निवारिता च ? कथं स्थावरकचेटोऽपि नास्तीह ? मा नाम तेन इतो गत्वा मन्त्रभेदः कृतो भविष्यति । तद् यावदेनमन्विष्यामि । )
( इति अवतीर्य उपसर्पति । )
चेटः—( दृष्ट्वा ) भट्टालआ ! एशे शे आगदे । ( भट्टारकाः ! एष स आगतः । )
मिलता है। और मैंने सुना है-मारे जाते हुये शत्रु को जो देखता है उसे अगले दूसरे जन्म में आँखों का रोग नहीं होता है। विषवृक्ष की गाँठ में घुसे हुये कीड़े के समान कोई मार्ग ( उपाय ) ढूढ़ते हुये मैंने उस दरिद्र चारुदत्त की मौत बना दी । अब अपनी महल की ऊँची अटारी में बैठकर अपना पराक्रम देखूंगा । ( वैसा करके और देख कर ) ओह ! इस दरिद्र चारुदत्त को फाँसी की जगह ले जाते समय लोगों की इतनी भारी भीड़, जिस समय मेरा जैसा महान श्रेष्ठ पुरुष फाँसी की जगह ले जाया जायगा उस समय कितनी अधिक भीड़ होगी ? ( देखकर ) क्या वह चारुदत्त नये बैल ( सांड़ ) की तरह सजाया हुआ दक्षिण दिशा की ओर ले जाया जा रहा है। लेकिन मेरे महल के नवीन अग्रभाग के पास घोषणा हुई और क्यों बन्द हो गयी ? ( देख कर ) क्या, यहाँ ( महल के ऊपरी कमरें में ) स्थावरक चेट भी नहीं है ? कहीं ऐसा न हो कि वह यहाँ से जाकर रहस्य खोल दे, तो तब तक इस की खोज करता हूँ ।
( ऐसा कह कर उतर कर पास में जाता है । )
चेट—( देखकर ) मालिको ! यह वह [ शकार ] आ गया ।
| ६०२ | मृच्छकटिकम् |
|---|
चाण्डालौ --
ओशलध, देध मग्गं, दालं ढक्केध, होध तुण्होआ ।
अविणअ-तिक्ख-विशाणे दुट्ठबइल्ले इदो एदि ॥ ३० ॥
(अपसरत, दत्त मार्गम्, द्वारं विधत्त, भवत तूष्णीकाः ।
अविनयतीक्ष्णविषाणो दुष्टबलीवर्द इत एति ॥ ३० ॥)
शकारः--अले ! अले ! अन्तलं अन्तलं देध । (उपसृत्य) पुत्तका ! थावलका ! चेडा। एहि, गच्छम्ह । (अरे ! अरे ! अन्तरमन्तरं दत्त । पुत्रक ! स्थावरक ! चेट ! एहि गच्छावः ।)
चेटः--ही ही ! अणज्ज ! वशन्तशणिअं मालिअ ण पलितुट्ठेशि, शम्पदं पणइजण-कप्पपादवं अज्जचालुदत्त मालेइदुं व्यवशिदे शि ।
(ही ही ! अनार्य ! वसन्तसेनिकां मारयित्वा न परितुष्टोऽसि ? साम्प्रतं प्रणयिजनकल्पपादपम् आर्यचारुदत्तं मारयितुं व्यवसितोऽसि ।)
अन्वयः--अपसरत, मार्गम्, दत्त, द्वारम्, विधत्त, तूष्णीकाः, भवत, अविनयतीक्ष्णविषाणः, बलीवर्दः, इतः, एति ॥ ३० ॥
शब्दार्थ--अपसरत=हट जाओ, मार्गम्=रास्ता, दत्त=दो, द्वारम्=दरवाजे, विधत्त=बन्द कर लो, तूष्णीकाः=चुप, भवत=हो जाओ, अविनयतीक्ष्णविषाणः=उद्दण्डतारूपी तीखे सींगों वाला, दुष्टबलीवर्दः=दुष्ट बैल, इतः=इधर ही, एति=आ रहा है ॥ ३० ॥
अर्थ--दोनों चाण्डाल--
हट जाओ, रास्ता दो, (घरों के) दरवाजे बन्द कर लो, चुप हो जाओ, उद्दण्डतारूपी तीखे सींगों वाला दुष्ट बैल इधर ही आ रहा है ॥ ३० ॥
टीका--चारुदत्तवधमवलोकयितुमागच्छन्तं शकारं दृष्ट्वा चाण्डालौ सर्वान् सावधानान् कुर्वन्तावाहतुः--अपसरतेति । अपसरत=पलायध्वम्, मार्गम्=पन्थानम्, दत्त=प्रयच्छत, द्वारम्=गृहप्रवेशस्थानम्, विधत्त=आवृत्त कुरुत, तूष्णीकाः=मौनाः, भवत=जायध्वम्, अविनयः=उद्दण्डता एव तीक्ष्णः=निशितः, विषाणः=शृङ्गम्, यस्य तादृशः दुष्टः=असाधुः, बलीवर्दः=वृषभः, शकारः, इतः=अस्यामेव दिशि, एति=आगच्छति । आर्या वृत्तम् ॥ ३० ॥
अथ--शकार--अरे अरे ! रास्ता दो, रास्ता दो । बेटा, स्थावरक, चेट ! आओ चलें ।
चेट--अरे नीच ! वसन्तसेना को मार कर (भी) नहीं सन्तुष्ट हुये हो । इस समय प्रणयी (प्रिय तथा याचक) जनों के लिये कल्पवृक्ष के समान आर्य चारुदत्त को मारने का प्रयास कर रहे हो ।
दशमोऽङ्कः ६०३
शकारः—णहि लअणकुम्भशदिशे हग्गे इत्थिअं वावादेमि । ( नहि रत्नकुम्भसदृशोऽहं स्त्रियं व्यापादयामि ! )
सर्वे—अहो ! तुए मारिदा, ण अज्जचारुदत्तेण । ( अहो ! त्वया मारिता, न आर्यचारुदत्तेन । )
शकारः—के एव्वं भणादि ? ( क एवं भणति ? )
सर्वे—( चेटमुद्दिश्य ) णं एशो साहू । ( नन्वेष साधुः । )
शकारः—( अपवार्य सभयम् ) अविदमादिके अविदमादिके ! । कथं थावलके चेड़े सुट्ठु ण मए शञ्जदे । एशे क्खु मम अकज्जश्श शक्खी । ( विचिन्त्य ) एव्वं दाव कलइश्श । ( प्रकाशम् ) अलिअं भट्टालका ! हंहो ! एशे चेड़े शुवण्णचोलिआए मए गहिदे, पिट्टिदे, मालिदे बद्धे अ । ता किदवेत्रे एशे जं भणादि, किं शच्चं ! ( अपवारितकेन चेटस्य कटकं प्रयच्छति । स्वैरकम् ) पुत्तका ! थावलका ! चेड़ा ! एदं गेण्हिअ अण्णधा भणाहि । ( हन्त ! कथं स्थावरकश्चेटः सुष्ठु न मया संयतः । एष खलु मम अकार्यस्य साक्षी । एवं तावत् करिष्यामि । अलीकं भट्टारकाः ! अहो ! एष चेटः सुवर्णचोरिकया मया गृहीतः, पीडितः, मारितः, बद्धश्च । तत् कृतवैर एष यद्भणति किं सत्यम् ? ) ( पुत्रक ! स्थावरक ! चेट ! एतद् गृहीत्वा अन्यथा भण । )
चेटः—( गृहीत्वा ) पेक्खध पेक्खध भट्टालका ! हंहो ! शुवण्णेण मं पलोभेदि । ( प्रेक्षध्वं प्रेक्षध्वं भट्टारकाः ! । आश्चर्यं, सुवर्णेन मां प्रलोभयति । )
शकार—रतनों के घट के समान मैं स्त्री को नहीं मारता हूँ ।
सभी—तुम्हीं ने ( वसन्तसेना ) मारी है, न कि आर्यचारुदत्त ने ।
शकार—कौन ऐसा कहता है ?
सभी लोग—( चेट को लक्षित करके ) यह सज्जन ( कह रहा है ) ।
शकार—( अपवारित, भयपूर्वक ) हाय ! मैंने स्थावरक चेट को अच्छी तरह क्यों नहीं बांधा था ? यह मेरे कुकृत्य ( वसन्तसेना की हत्या ) का साक्षी है । ( सोच कर ) तो, ऐसा करता हूँ । ( प्रकटरूप में ) महानुभावो ! यह झूठ ( बोलता है ) । इस चेट को सोने की चोरी के कारण मैंने पकड़ा, पीटा, मारा और बांध दिया था । तो दुश्मनी मानने वाला ही यह जो कह रहा है क्या वह सच है ? ( छिपा कर चेट को कंगन देता हुआ धीमी आवाज में ) बेटा स्थावरक चेट ! इस ( कंगन ) को लेकर दूसरी तरह ( झूठ ) बोल दो ।
चेट—( लेकर ) महानुभावो ! देखिये, देखिये । हाय, हाय ! सोने से मुझे लुभा रहा है । [ झूठ बोलने के लिये कह रहा है । ]
६०४ | मृच्छकटिकम्
शकारः- ( कटकमाच्छिद्य ) एशे शे शुवण्णके जश्श कालणादो मए वड्ढे । ( सक्रोधम् ) हंहो चाण्डाला ! मए क्ख एशे शुवण्णभण्डाले णिउत्तो, शुवण्णं चोलअन्ते मालिदे, पिट्ठिदे, ता जदि ण पत्तिआअध, ता पिट्ठिं दाव पेक्खध । ( एतत् तत् सुवर्णं यस्य कारणात् मया बद्धः । रे रे चाण्डालौ ! मया खल्वेष सुवर्णभाण्डागारे नियुक्तः सुवर्णं चोरयन् मारितः पीडितः । तद् यदि न प्रत्ययध्वे, तदा पृष्ठं तावत् प्रेक्षध्वम् । )
चाण्डालौ- ( दृष्ट्वा ) शोहणं भणादि । वितत्ते चेडे किं ण प्पलवदि ? ( शोभनं भणति । वितप्तश्चेटः किं न प्रलपति ? )
चेटः- हीमादिके ! ईदृशे दाशभावे, जं शच्चं कं पि ण पत्तिआआदि । ( सकरुणम् ) अज्जचालुदत्त ! एत्तिके मे विहवे । ( हन्त ! ईदृशो दासभावः यत् सत्यं कमपि न प्रत्याययति ।) (आर्यचारुदत्त ! एतावान् मे विभवः ।) ( इति पादयोः पतति । )
चारुदत्तः- ( सकरुणम् )
उत्तिष्ठ भोः ! पतित-साधुजनानुकम्पिन्,
निष्कारणोपगतबान्धव ! धर्मशील ! ।
यत्नः कृतोऽपि सुमहान् मम मोक्षणाय
दैवं न संवदति किं न कृतं त्वयाऽद्य ॥ ३१ ॥
शकार- ( कड़ा छीन कर ) यह वही सोना है, जिसके कारण मैंने बांधा था । (क्रोधसहित) अरे चण्डालो ! मेरे द्वारा सुवर्णभण्डार (खजाने) में नियुक्त किया गया यह सोना चुराते हुये मारा गया, पीटा गया । यदि विश्वास न हो तो इसकी पीठ देख लो ।
दोनों चाण्डाल- ( देखकर ) ठीक कहता है । मार खाने से व्याकुल चेट क्या झूठ नहीं बोल सकता ? अर्थात् झूठ बोलता है ।
चेट- हाय ! नौकर होना इतना खराब है कि सच कहना भी किसी को विश्वास नहीं करा पाता । ( करुणासहित ) आर्य चारुदत्त ! ( आपकी रक्षा करने की ) मेरी इतनी ही शक्ति थी । (यह कहकर चारुदत्त के पैरों पर गिर पड़ता है ।)
अन्वयः- भोः ! पतितसाधुजनानुकम्पिन् !, निष्कारणोपगतबान्धव !, धर्मशील !, उत्तिष्ठ, मम, मोक्षणाय, ( त्वया ), सुमहान्, यत्नः, कृतः, अपि, दैवम्, न, संवदति, अद्य, त्वया, किम्, न, कृतम् ॥ ३१ ॥
शब्दार्थ- भोः=हे !, पतितसाधुजनानुकम्पिन्=कष्ट में फंसे हुये सज्जनों पर कृपा करने वाले, निष्कारणोपगतबान्धव !=बिना किसी कारण के आये हुये