भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 675, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 675

दशमोऽङ्कः ५८७

चारुदत्त:-- (पुत्रं मित्रञ्च वीक्ष्य) हा पुत्र ! हा मैत्रेय ! (सकरुणम्) भो: ! कष्टम् ।

चिरं खलु भविष्यामि परलोके पिपासितः । अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥ १७ ॥

किं पुत्राय प्रयच्छामि ? (आत्मानमवलोक्य । यज्ञोपवीतं दृष्ट्वा) आं, इदं तावदस्ति मम च ।

अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् । देवतानां पितॄणाञ्च भागो येन प्रदीयते ॥ १८ ॥

अन्वय:-- (अहम्), परलोके, खलु, चिरम्, पिपासितः, भविष्यामि, अस्माकम्, इदम्, निवापोदकभोजनम् अत्यल्पम्, (अस्ति) ॥ १७ ॥

शब्दार्थ - परलोके = परलोक में, खलु = निश्चित रूप से, चिरम् = बहुत समय तक, पिपासितः = प्यासा, भविष्यामि = रहूँगा, (क्योंकि) अस्माकम् = हमारा, निवापोदकभोजनम् = निवाप = पितरों का तर्पण, उसका उदक = पानी, उसका भोजन = पान जिससे होने वाला है वह, इदम् = यह (रोहसेन रूपी सन्तान) अत्यल्पम् = बहुत छोटा, है ॥ १७ ॥

अर्थ -- चारुदत्त -- (पुत्र और मित्र को देखकर) हाय बेटा ! हाय मित्र ! (करुणा-सहित) हाय ! कष्ट है।

(मैं) परलोक में बहुत समय तक प्यासा रहूँगा। क्योंकि हमारा तर्पण का पानी देने वाला यह बालक बहुत छोटा है ॥ १७ ॥

टीका -- अल्पवयस्कं परिपोषणीयं पुत्रं दृष्ट्वा विषादं प्रकटयन्नाह-चिरमिति । परलोके = लोकान्तरे, खलु = निश्चयेन, चिरम् = दीर्घकालम्, पिपासितः = तृष्णार्तः, भविष्यामि = वर्तिष्ये, यतोहि, अस्माकम् = मम पित्रादीनां च, निवापः = पितॄणां तर्पणम्, तस्य उदकम् = जलम्, तस्य भोजनम् = पानं यस्मात् तत्, पितृपुरुषेभ्यो जलप्रदायि इत्यर्थः, इदम् = पुरोवर्ति रोहसेनरूपम् अपत्यम्, अत्यल्पम् = अल्पवयस्कमिति भावः । एवञ्चायं यावत् पर्याप्तं जलं प्रदातुं समर्थो भविष्यति तावदह मम पूर्वजाश्च पिपासिता एव स्थास्यन्तीति भावः । पथ्यावक्त्रं वृत्तम् ॥ १७ ॥

विमर्श -- निवापोदकभोजनम् - निवापस्य उदकस्य भोजनं यस्मात् तत्-ऐसा बहुव्रीहि समझना चाहिये। भोजन = पीना अर्थ है। यह पद 'इदम्' का विशेषण है 'इदम्' 'अपत्यम्' का ॥ १७ ॥

अन्वयः -- [यज्ञोपवीतम्], ब्राह्मणानाम्, अमौक्तिकम्, असौवर्णम्, विभूषणम्, अस्ति, येन, देवतानाम्, पितॄणाम्, च, भागः, प्रदीयते ॥ १८ ॥