भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 694, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 694
६०६मृच्छकटिकम्

रोहसेनः--अले चाण्डाला ! मं मारेध, मुञ्चध आवुकं । ( अरे चाण्डालौ ! मां मारयतम्, मुञ्चतं पितरम् । )
शकारः--शपुत्तं ज्जेव एदं मालेध । ( सपुत्रमेव एतं मारयतम् । )
चारुदत्तः--सर्वमस्य मूर्खस्य सम्भाव्यते । तद् गच्छ पुत्र ! मातुः समीपम् ।
रोहसेनः--कि मए गदेण कादव्वं ? ( किं मया गतेन कर्त्तव्यम् ? )
चारुदत्तः--आश्रमं वत्स ! गन्तव्यं गृहीत्वाद्यैव मातरम् ।

मा पुत्र ! पितृदोषेण त्वमप्येवं गमिष्यसि ॥ ३२ ॥

तद्वयस्य ! गृहीत्वैनं व्रज ।


**रोहसेन--**अरे चाण्डालो ! मुझे मार डालो, पिता जी को छोड़ दो ।
**शकार--**पुत्रसहित ही इस ( चारुदत्त ) को मार डालो ।
**चारुदत्त--**इस मूर्ख के लिये सभी कुछ सम्भव है । अतः हे बेटा ! माता के पास जाओ ।
**रोहसेन--**मैं जाकर क्या करूँगा ?
**अन्वयः--**वत्स ! मातरम्, गृहीत्वा, अद्य, एव, आश्रमम्, गन्तव्यम्, पुत्र ! मा, पितृदोषेण, त्वम्, अपि, एवम्, गमिष्यसि ॥ ३२ ॥
**शब्दार्थ--**वत्स !=बेटा, मातरम्=अपनी माता को, गृहीत्वा=लेकर, अद्य=आज, इस समय, एव=ही, आश्रमम्=घर, गन्तव्यम्=चले जाना, पुत्र !=हे बेटा !, मा=यह न हो जाय कि, पितृदोषेण=पिता के अपराध से, त्वम्=तुम, अपि=भी, एवम्=इसी प्रकार, गमिष्यसि=चले जाओ अर्थात् मार डाले जाओ ॥ ३२ ॥

अर्थ--चारुदत्त--
बेटा ! ( अपनी ) माता को लेकर आज ( इसी समय ) ही घर चले जाना । कहीं ऐसा न हो कि पिता के दोष से तुम भी इसी प्रकार मार डाले जाओ ॥३२॥
अतः हे मित्र ! इस रोहसेन को लेकर जाओ ।

**टीका--**शकारस्य वचनमाकर्ण्य पुत्रस्यापि वधशंकया तं ततः शीघ्रमेव गन्तुं प्रेरयन्नाह--आश्रममिति । हे वत्स !=हे आयुष्मन् !, मातरम्=स्वजननीं धूतामित्यर्थः, गृहीत्वा=नीत्वा, अद्य एव=अस्मिन् दिवसे एव, इदानीमेवेत्यर्थः, आश्रमम्=गृहम्, गन्तव्यम्=व्रजितव्यम्, हे पुत्र !=हे सुत !, पितृदोषेण=जनकाभियोगेन, त्वम्=रोहसेनः, अपि, एवम्=अनेनैव प्रकारेण, वध्यरूपेणेत्यर्थः, मा गमिष्यसि=मा व्रजिष्यसि । यथा मिथ्याभियोगेन मम वधो भवति तथैव तवापि न स्यादिति विचार्य त्वं सत्वरमेवास्मात् स्थानात् गृहं व्रजेति भावः । पथ्यावक्त्रं वृत्तम् ॥ ३२ ॥

मृच्छकटिकम् (सटीक संस्कृत नाटक) · पृष्ठ 694, कुल 760 में से · BharatKosha