भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 697, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 697

दशमोऽङ्कः ६०६

(शकारः पुनस्तथैव)

चारुदत्तः—भो भोः पौराः ! ('मया खलु नृशंसम्' इत्यादि १।३० पुनः पठति ।)

शकारः—वावादिदा । (व्यापादिता ।)

चारुदत्त—एवमस्तु ।


विषादः अस्ति, एकः, जनापवादवह्निः, माम्, दहति, यत्, इह 'मया, प्रिया, हता' इति वक्तव्यम् ।। ३३ ।।

शब्दार्थ—एतद्व्यसनमहार्णवम्=इस विपत्तिरूपी समुद्र को, प्राप्य=पाकर, अपि=भी, मे=मेरे, मनसः=मन को, न=न तो, त्रासः=भय है, न च=और न, विषादः=दुःख, क्लेश है, एकः=अकेली, जनापवादवह्निः=लोकापवादरूपी आग, माम्=मुझे. दहति=जला रही है, यत्=कि, इह=यहाँ 'मया=मैने, प्रिया=वसन्तसेना, मारिता=मारी' इति=ऐसा, वक्तव्यम्=कहना पड़ रहा है ।। ३३ ।।

अर्थ—चारुदत्त —(करुणापूर्वक)—

इस विपत्तिरूपी समुद्र को पाकर भी मेरे मन को न तो भय है और दुःख । अकेली लोकापवादरूपी आग मुझे जला रही है कि यहाँ "मैने वसन्तसेना मारी", ऐसा कहना पड़ रहा है । ३३ ।।

टीका—प्राणवधादपि भीतः सः सर्वेषां समक्षं वसन्तसेनाबधस्वीकृतिकथना-देव दुःखितमाविष्करोति—प्राप्येति । एतत्=अनुभूयमानम्, व्यसनमेव=विपत्तिरेव महार्णवः, तस्मिन् प्रपातम्=प्रपतनम्=निमज्जनमित्यर्थः, प्राप्य=लब्ध्वा, अपि, मे=मम चारुदत्तस्येत्यर्थः, मनसः=चित्तस्य, न=नैव, त्रासः=भयम्, नच=नापि विषादः=दुःखम्, एकः=केवलः, जनानाम्=लोकानाम् अपवादः=निन्दावादः 'अनेनैव वसन्तसेना हता' इत्याकारकः स एव वह्निः=अग्निः, माम्=चारुदत्तम्, दहति=तापयति, यत्=यतः, इह=अस्मिन् स्थाने सर्वेषां समक्षमित्यर्थं, मया=चारुदत्तेन, वसन्तसेना=प्रेयसी गणिका, हता=मारिता, इति वक्तव्यम्=कथितव्यम् । एवञ्च सर्वेषां पुरतः स्वयं प्रियाया वधस्य स्वीकारस्य कथनमेव मां सर्वतोऽधिकं दुःखकरोतीति भावः । रूपकालंकारः, वसन्ततिलकं वृत्तम् ।। ३३ ।।

अर्थ—(शकार फिर वैसा ही कहता है ।)

चारुदत्त—ए नगरवासियो ! ('मुझ क्रूरने' इत्यादि १।३०, ३८ पद्य को पुनः पढ़ता है ।)

शकार—मार डाला ।

चारुदत्त—ऐसा ही सही ।

३९ मृ०