मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 700, कुल 760 में से
संदर्भ में पढ़ें६१२ | मृच्छकटिकम्
भोः ! क्व तावन्मया गन्तव्यम् ?
चाण्डालः---( अग्रतो दर्शयित्वा ) अरे ! एदं दीशदि दक्खिणमशाणं, जं पेक्खिअ वञ्झा झत्ति पाणाई मुञ्चन्ति । पेक्ख पेक्ख । ( अरे ! एतत् दृश्यते दक्षिणश्मशानम्, यत् प्रेक्ष्य वध्या झटिति प्राणान् मुञ्चन्ति । प्रेक्षस्व प्रेक्षस्व । )
अद्धं कळेवलं पडिवुत्तं कट्टन्ति दीहगोमाआ ।
अद्धं पि शूललग्गं वेशं विअ अट्टहाशश्श ॥ ३५ ॥
( अर्द्धं कलेवरं प्रतिवृत्तं कर्षन्ति दीर्घगोमायवः ।
अर्द्धमपि शूललग्नं वेश इवाट्टहासस्य ॥ ३५ ॥ )
ही ( मेरे ) कलंक को दूर करेगी ॥३४॥
अरे, मुझे कहाँ चलना है ?
टीका-- राष्ट्रियश्यालकवचनैर्दूषितश्चारुदत्तः तदापि आत्मनो निर्दोषतामेव स्वीकारोति । तत्र प्रामाण्यसाधनाय स्वप्रेयसीमेव स्मरन्नाह--प्रभावतीति । **भाग्यदोषात्=**दुर्दैववशात्, **अद्य=**अस्मिन् दिने, प्रबलपुरुषस्य=राज्ञः प्रभावेण शक्तिसम्पन्नस्य शकारस्य, **वाक्यैः=**वचनैः, मिथ्याभियोगप्रतिपादकैरिति भावः, **दूषितस्यापि=**अपराद्धस्यापि, **मे=**मम, **धर्मः=**सुकृत्यपरिणामः, **यदि=**चेत्, **कथचित=**केनापि प्रकारेण, **प्रभावति=**प्रभाववान् भवति, मम धर्मस्य प्रभावो भवतीत्यर्थः, तदा **सुरपतेः=**इन्द्रस्य, **भवनस्था=**गृहे विराजमाना, वेश्यात्वेन मरणानन्तरमिन्द्रपुरमम-नमेवोचितमिति बोध्यम्, **वा=**अथवा, **यत्र तत्र=**यस्मिन् कस्मिन् लोके स्थाने वा, **स्थिता, सा=**वसन्तसेना, **एव, स्वस्वभावेन=**निजया निर्दोषप्रकृत्या, **कलंकम्=**मिथ्याभियोगजनितं कालिमानमित्यर्थः, ममेति शेषः, **व्यपनयतु=**दूरीकरोतु, अपसारयतु । एवञ्च यदि मम सुकृतानां स्वल्पोऽपि प्रभावो भविष्यति तदा सा वसन्तसनेव स्वोदारस्वभावेन मम मिथ्याभियोगं दूरीकरिष्यतीति भावः । एतेन वसन्तसेनायाः शीघ्रमेवागमनं सूचितमिति बोध्यम् । मालिनी वृत्तम् ॥३४॥
अर्थ--चाण्डाल--( आगे दिखा कर ) अरे ! यह दक्षिण ( दिशा ) में श्मशान दिखाई दे रहा है जिसे देख कर वध्य [ वध-योग्य ] प्राणी प्राणों को शीघ्र ही छोड़ देते हैं, मर जाते हैं । देखो, देखो, --
**अन्वयः--**दीर्घगोमायवः, प्रतिवृत्तम्, अर्धम् कलेवरम्, कर्षन्ति, शूललग्नम्, अर्धम्, अपि, अट्टाहासस्य, वेशः, इव [ दृश्यते ] ॥३५॥
**शब्दार्थ--दीर्घगोमायवः=**ऊपर उठाये लम्बे शरीर वाले सियार, **प्रतिवृत्तम्=**शूल से नीचे लटकने वाले, **अर्धम्=**आधे, **कलेवरम्=**शरीर, लाश को, **कर्षन्ति=**खींचते हैं, ( खींच कर खाते हैं। ) **शूललग्नम्=**शूल में लटकता हुआ, अर्धम्=