मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 720, कुल 760 में से
संदर्भ में पढ़ें१३२ मृच्छकटिकम्
शर्विलकः—
येन ते भवनं भित्वा न्यासापहरणं कृतम् । सोऽहं कृतमहापापस्त्वामेव शरणं गतः ॥ ५० ॥
चारुदत्तः— सखे ! मैवम् । त्वयाऽसौ प्रणयः कृतः । (इति कण्ठे गृह्णाति ।)
शर्विलकः— अन्यच्च ।
आर्यकेणार्यवृत्तेन कुलं मानञ्च रक्षता । पशुवद्यज्ञवाटस्थो दुरात्मा पालको हतः ॥ ५१ ॥
अन्वयः— येन, ते, भवनम्, भित्वा, न्यासापहरणम्, कृतम्, कृतमहापापः, सः, अहम्, त्वाम्, एव, शरणम्, गतः ।।५०।।
शब्दार्थ— येन = जिसने, ते = तुम्हारे, भवनम् = घर को, भित्वा = फोड़ कर, सेंध लगाकर, न्यासापहरणम् = धरोहर के गहनों का अपहरण, चोरी, कृतम् = किया था, कृतमहापापः = महान् पाप करने वाला, सः = वह, अहम् = मैं, शर्विलक, त्वाम् = तुम्हारी, एव = ही, शरणम् = शरण में, गतः = प्राप्त हुआ हूँ ।।५०।।
अर्थ--शर्विलक-- जिसने आपके घर का भेदन करके ( सेंध फोड़ कर के ) धरोहर के गहनों को चुराया था । महापाप करने वाला वह मैं तुम्हारी ही शरण में आया हूँ ।।५०।।
टीका— झटिति स्वपरिचयं प्रदातुं स्वकीयं निन्दितमपि कर्म निवेदयति—येनेति । येन = मया शर्विलकेनेत्यर्थः, ते = तव, चारुदत्तस्य, भवनम् = गृहम्, भित्वा = विदार्य, तत्र सन्धि कृत्वेत्यर्थः, न्यासस्य = वसन्तसेनया निहितालंकार-समूहस्य, अपहरणम् = चौर्यम्, कृतम् = विहितम्, महापापम् = न्यासापहरणरूपं पातकं येन तादृशः, सः = पूर्वोक्तः, अहम् = शर्विलकः पापकर्त्ता त्वाम् = चारुदत्तम्, एव, शरणम् = रक्षितारम्, गतः = प्राप्तः । एवञ्च तवान्तिकं ममागमनं नोचितं तथापि शरण-प्रदत्वेन त्वयाहं रक्षितव्य इति भावः । पथ्यावक्त्रं वृत्तम् ।।५०।।
अर्थ—चारुदत्त— मित्र ! ऐसा मत कहो । तुमने तो यह स्नेह किया था । ( यह कह कर गले में लिपट जाता है । )
अन्वयः— आर्यवृत्तेन, कुलम्, मानम्, च, रक्षता, आर्यकेण, यज्ञवाटस्थः, दुरात्मा, पालकः, पशुवत्, हतः ।।५१।।
शब्दार्थ— आर्यवृत्तेन = प्रशस्त चरित्रवाले, कुलम् = कुल, च = और, मानम् = सम्मान की, रक्षता = रक्षा करने वाले, आर्यकेण = आर्यक [ गोपालपुत्र ] ने, यज्ञवाटस्थः = यज्ञशाला में विद्यमान, दुरात्मा = दुष्ट प्रकृतिवाले, पालकः = पालक ( राजा ) को, पशुवत् = पशु के समान, हतः = मार डाला ।।५१।।