मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 734, कुल 760 में से
संदर्भ में पढ़ें| ६४६ | मृच्छकटिकम् |
|---|
धूता— अज्जउत्त ! अदो ज्जेव सा अचेतणेत्ति चुम्बीअदि [ उच्ची-अदि ] । ( आर्यपुत्र ! अतएव सा अचेतनेति चुम्ब्यते [ उच्यते ] । )
विदूषकः—(दृष्ट्वा सहर्षम्) ही ही भो ! एदेहिं ज्जेव अच्छीहिं पिअव-अस्सो पेक्खीअदि । अहो ! सदीए पहवो जदो उजलणप्पवेश-व्यवसा-एण ज्जेव पिअसमागमं पाविदा । ( चारुदत्तं प्रति ) जेदु जेदु पिअवअस्सो । ( आश्चर्यं भोः ! एताभ्यामेवाक्षिभ्यां प्रियवयस्यः प्रेक्ष्यते । अहो ! सत्याः प्रभावः यतो ज्वलनप्रवेश-व्यवसायेनैव प्रियसमागमं प्रापिता । ) (जयतु जयतु प्रियवयस्यः । )
शब्दार्थ— हा प्रेयसि = हाय प्रियतमे !, प्रेयसि = प्रियतम अर्थात् मेरे, विद्य-माने = जीवित रहने पर भी, कः = कौन सा, अयम् = यह, कठोरः = कठोर, व्यवसायः = प्रयास, कार्य करने का विचार, आसीत् = था, किम् = क्या, भानौ = सूर्य के, अनस्तं-गमिते = अस्त न होने पर, ( अपि = भी ) अम्भोजिनी = कमलिनी, लोचनमुद्रणम् = ( पुष्परूपी ) नेत्र को बन्द, करोति = करती है ? ! । ५८ ।।
अर्थ--चारुदत्त-- ( धूर्ता की ओर ) -
हाय प्रियतमे ! मुझ प्रियतम के जीवित रहने पर भी यह कौन सा कठोर निर्णय या काम था । क्या सूर्य के अस्त न होने पर भी कमलिनी अपनी आंखें बन्द करती है ? ।। ५८ ।।
**टीका —**प्रियतमस्य मृत्युदण्डं श्रुत्वा तद्विरहमसहमाना सहसैव स्वान् प्राणान् परित्यक्तुमिच्छन्तीं धूतामविमृश्यकारित्वेन सादरमनुयुङ्क्ते—हा प्रेयसीति । हा = इदं शोकसूचकमव्ययम्, प्रेयसि = प्रियतमे, प्रेयसि = प्राणादपि प्रेयसि पत्यो मयि, विद्यमाने = वर्तमाने, जीवति सतीत्यर्थः, कः = कीदृशः अयम् = एषः, त्वयाऽ-नुष्ठीयमानः, व्यवसायः = उद्योग अग्निनप्रवेशरूप इत्यर्थः, आसीत् ? सर्वथाऽनुचितोऽ-विवेकपूर्णश्चास्ति, भानौ = सूर्ये, अनस्तङ्गमिते = अस्ताचलशिखरे अनधिष्ठिते, यद्वा विधिना तत्र अप्रापिते सत्व, अम्भोजिनी = कमलिनी, लोचनमुद्रणम् = नेत्रनिमीलनम्, पद्मसंकोचमित्यर्थः, करोति किम् = विदधाति किम् ? नैव करोतीति भावः । एवमेव मयि जीवत्यपि त्वया प्राणपरित्यागस्य व्यवसायः सर्वथाऽविवेकपूर्ण एवेति त्वया ज्ञेयम् । ‘अनस्तंगमिते’ इत्यत्र नञः समस्तप्रयोगे तदर्थस्य प्राधान्यानवगमाद् अविमृष्ट-विधेयांशरूपो दोष इति जीवानन्दः । दृष्टान्तालंकारः, इन्द्रवज्रा वृत्तम् ।। ५८ ।।
**अर्थ--धूता--**आर्यपुत्र ! इसी लिये तो वह अचेतन ऐसा कही जाती है ।
विदूषक--(देखकर, हर्षसहित) हा, हा, अरे ! इन्हीं आंखों से प्रिय मित्र को देख रहा हूँ। अहो ! सती का प्रभाव, जो अग्नि में प्रवेश के उपक्रम से ही प्रिय-समागम को प्राप्त करा दी गई । ( चारुदत्त के प्रति ) प्रिय मित्र की जय हो, जय हो ।