भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 742, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 742

मृच्छकटिकस्थ-सुभाषितानि

गद्यानिपृष्ठाङ्काः
अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक् अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यते ।३०६
अक्षिभ्यां मन्त्रितम्, वाचा मूकितम् ।५५७
अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च ।२१०
अपेयेषु तडागेषु बहुतरमुदकं भवति ।१६३
अहो धिग्वैषम्यं लोकव्यवहारस्य ।५४४
अहो व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः ।५०७
ईदृशो दासभावः यत् सत्यं न कमपि प्रत्याययति ।६०४
एते खलु दास्याः पुत्रा अर्थकल्यवर्त्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति ।४६
कामो वामः ।३११
किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते ।१३४
गगनतले प्रतिवसन्तौ चन्द्रसूर्यावपि विपत्तिं लभेते ।६१३
गणिका नाम पादुकान्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते ।३०८
गणिका हस्ती कायस्थो भिक्षुश्चाटो रासभाश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते ।३०८
गुणः खल्वनुरागस्य कारणं न पुनर्बलात्कारः ।८०
दरिद्रपुरुषसंक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति ।१३३
दुर्लभा गुणा विभवाश्च ।१६३
दुष्करं विषमौषधीकर्तुम् ।४५३
द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।१४७
न कालमपेक्षते स्नेहः ।४१८
न चन्द्रादातपो भवति ।२५६
न पुष्पमोषमर्हत्युद्यानलता ।७५
न युक्तं परकलत्रदर्शनम् ।११८
पुरुषभाग्यानामचिन्त्याः खलु व्यापारा यदहमीदृशीं दशामनुप्राप्तः ।५७४
पुरुषेषु न्यासा निक्षिप्यन्ते न पुनर्गेहेषु ।१५२
मूले छिन्ने कुतः पादपस्य पालनम् ।५६७