भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 743, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 743

सुभाषितानि

६५५

गद्यानि

गद्यानिपृष्ठाङ्काः
रत्नं रत्नेन संगच्छते ।८०
लोके कोऽप्युत्थितः पतति कोऽपि पतितोऽप्युत्तिष्ठते ।६१३
वीणा हि नामासमुद्रोत्थितं रत्नम् ।१८३
सर्वत्रार्जवं हि शोभते ।६३३
साहसे श्रीः प्रतिवसति ।२४३
स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति ।६७

श्लोकाः

श्लोकाःअंकाःश्लोकाः
अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः ।
न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥२१
अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥१२
अभ्युदयेऽवसाने तथैव रात्रिन्दिवमहतमार्गा ।
उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ॥१०१९
अम्भोजिनी लोचनमुद्रणं किं भानावदस्तंगमिते करोति ॥१०१८
अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥११
आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी साऽर्थतः पुमान् ॥२८
आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥५०
इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् ।
सुपुरुषप्राणविपत्तिश्चत्वार इमे न द्रष्टव्याः ॥१०
इह सर्वस्वफलिनः कुल-पुत्र-महाद्रुमाः ।
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥१०
एता हसन्ति च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः ॥१४
कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं
कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्युन्नतिम् ।
अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय-
न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥१०६०