भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 741, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 741

दशमोऽङ्कः ६५३

टीका—गावः=सौरभेय्यः, क्षीरिण्यः=बहुदुग्धमत्यः, भूमार्थे इनिः, सन्तु=भवन्तु, दुग्धनिष्पन्नघृतादिभिरेवाज्यस्य निष्पादनात् यज्ञोपकारित्वम्, यज्ञेन च मेघादिसमुत्पत्तिः, तया च वृष्ट्या सस्योत्पत्तिरिति बोध्यम्, तदेवाह—वसुमती=रत्नगर्भा पृथिवी, सर्वसस्यैः=सर्वविधधान्यैः, सम्पन्ना=समृद्धिमती, विविधशस्य-परिपूर्णेत्यर्थः, भवतु=जायताम्, पर्जन्यः=मेघः, कालवर्षी=अपेक्षितकाले वृष्टिकारकः, भवतु, वाताः=पवनाः, सकलजनमनोनन्दिनः=सकलजनानाम्=समस्तलोकानाम्, मनांसि=चित्तानि, नन्दयन्ति=आनन्दयन्तीति तादृशाः, सन्तः, वान्तु=प्रवहन्तु, जन्मभाजः=उत्पत्तिमन्तः, जाताः प्राणिन इत्यर्थः, सततम्=निरन्तरम्, मोदन्ताम्=हृष्यन्तु, सुखिनो भवन्तु, सन्तः=सज्जनाः, श्रीमन्तः=धनादिसम्पन्नाः, सन्तु=भवन्तु, भूपाः=राजानः, प्रशमिताः=विनाशिताः, रिपवः=शत्रवः, यैस्तादृशाः, तथा, धर्म-निष्ठाः=धर्मपरायणाः पराक्रमिणः धार्मिकाश्च, सन्तः, पृथिवीम्=धरणीम्, स्वपाल्य-भूमिमित्यर्थः, पान्तु=रक्षन्तु। दण्ड्यान् दण्डयन् सज्जनान् रक्षन् परिपालयन्त्वित्यर्थः। अनेन प्रशस्तिर्नाम निर्वहण-सन्ध्यङ्गमपक्षिप्तम्। तदुक्तमादिभरते—'देवद्विजनृपादीनां प्रशस्तिः स्यात् प्रशंसनम्।' 'आदि-मध्यावसाने च कुर्यान्मङ्गलमि'ति वचनमनुसृत्य नाटकस्यान्ते मङ्गलं विहितमिति बोध्यम्। परिसंख्यालंकारः, स्रग्धरावृत्तम् ॥ ६१ ॥

विमर्श—प्रस्तुत श्लोक इस नाटक का अन्तिम वाक्य है। इसे भरतवाक्य कहा जाता है। इसमें सभी के कल्याण की कामना व्यक्त की जाती है। नाटक की समाप्ति हो जाने पर नट अपनी भूमिका को छोड़कर आचार्य भरत का रूप धारण कर मंगलवाक्य पढ़ता है। इसका विधान नाट्यशास्त्र में है—

'अन्ते काव्यस्य नित्यत्वात् कुर्यादाशिषमुत्तमाम्' ॥६१॥

॥ इस प्रकार जयशङ्कर-लाल-त्रिपाठि-विरचित 'भाव-प्रकाशिका' हिन्दीसंस्कृत-व्याख्या में मृच्छकटिक का दशम अङ्क समाप्त हुआ ॥

यत्प्रसादात् समाप्तेयं व्याख्या 'भावप्रकाशिका'।
विश्वनाथाय साम्बाय तस्मै भक्त्याहमर्पये ॥

॥ शुभं भूयात् ॥

---*---