मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
दशमोऽङ्कः ६५३
टीका—गावः=सौरभेय्यः, क्षीरिण्यः=बहुदुग्धमत्यः, भूमार्थे इनिः, सन्तु=भवन्तु, दुग्धनिष्पन्नघृतादिभिरेवाज्यस्य निष्पादनात् यज्ञोपकारित्वम्, यज्ञेन च मेघादिसमुत्पत्तिः, तया च वृष्ट्या सस्योत्पत्तिरिति बोध्यम्, तदेवाह—वसुमती=रत्नगर्भा पृथिवी, सर्वसस्यैः=सर्वविधधान्यैः, सम्पन्ना=समृद्धिमती, विविधशस्य-परिपूर्णेत्यर्थः, भवतु=जायताम्, पर्जन्यः=मेघः, कालवर्षी=अपेक्षितकाले वृष्टिकारकः, भवतु, वाताः=पवनाः, सकलजनमनोनन्दिनः=सकलजनानाम्=समस्तलोकानाम्, मनांसि=चित्तानि, नन्दयन्ति=आनन्दयन्तीति तादृशाः, सन्तः, वान्तु=प्रवहन्तु, जन्मभाजः=उत्पत्तिमन्तः, जाताः प्राणिन इत्यर्थः, सततम्=निरन्तरम्, मोदन्ताम्=हृष्यन्तु, सुखिनो भवन्तु, सन्तः=सज्जनाः, श्रीमन्तः=धनादिसम्पन्नाः, सन्तु=भवन्तु, भूपाः=राजानः, प्रशमिताः=विनाशिताः, रिपवः=शत्रवः, यैस्तादृशाः, तथा, धर्म-निष्ठाः=धर्मपरायणाः पराक्रमिणः धार्मिकाश्च, सन्तः, पृथिवीम्=धरणीम्, स्वपाल्य-भूमिमित्यर्थः, पान्तु=रक्षन्तु। दण्ड्यान् दण्डयन् सज्जनान् रक्षन् परिपालयन्त्वित्यर्थः। अनेन प्रशस्तिर्नाम निर्वहण-सन्ध्यङ्गमपक्षिप्तम्। तदुक्तमादिभरते—'देवद्विजनृपादीनां प्रशस्तिः स्यात् प्रशंसनम्।' 'आदि-मध्यावसाने च कुर्यान्मङ्गलमि'ति वचनमनुसृत्य नाटकस्यान्ते मङ्गलं विहितमिति बोध्यम्। परिसंख्यालंकारः, स्रग्धरावृत्तम् ॥ ६१ ॥
विमर्श—प्रस्तुत श्लोक इस नाटक का अन्तिम वाक्य है। इसे भरतवाक्य कहा जाता है। इसमें सभी के कल्याण की कामना व्यक्त की जाती है। नाटक की समाप्ति हो जाने पर नट अपनी भूमिका को छोड़कर आचार्य भरत का रूप धारण कर मंगलवाक्य पढ़ता है। इसका विधान नाट्यशास्त्र में है—
'अन्ते काव्यस्य नित्यत्वात् कुर्यादाशिषमुत्तमाम्' ॥६१॥
॥ इस प्रकार जयशङ्कर-लाल-त्रिपाठि-विरचित 'भाव-प्रकाशिका' हिन्दीसंस्कृत-व्याख्या में मृच्छकटिक का दशम अङ्क समाप्त हुआ ॥
यत्प्रसादात् समाप्तेयं व्याख्या 'भावप्रकाशिका'।
विश्वनाथाय साम्बाय तस्मै भक्त्याहमर्पये ॥
॥ शुभं भूयात् ॥

मृच्छकटिकस्थ-सुभाषितानि
| गद्यानि | पृष्ठाङ्काः |

| अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक् अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यते । | ३०६ |
| अक्षिभ्यां मन्त्रितम्, वाचा मूकितम् । | ५५७ |
| अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च । | २१० |
| अपेयेषु तडागेषु बहुतरमुदकं भवति । | १६३ |
| अहो धिग्वैषम्यं लोकव्यवहारस्य । | ५४४ |
| अहो व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः । | ५०७ |
| ईदृशो दासभावः यत् सत्यं न कमपि प्रत्याययति । | ६०४ |
| एते खलु दास्याः पुत्रा अर्थकल्यवर्त्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति । | ४६ |
| कामो वामः । | ३११ |
| किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते । | १३४ |
| गगनतले प्रतिवसन्तौ चन्द्रसूर्यावपि विपत्तिं लभेते । | ६१३ |
| गणिका नाम पादुकान्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । | ३०८ |
| गणिका हस्ती कायस्थो भिक्षुश्चाटो रासभाश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते । | ३०८ |
| गुणः खल्वनुरागस्य कारणं न पुनर्बलात्कारः । | ८० |
| दरिद्रपुरुषसंक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति । | १३३ |
| दुर्लभा गुणा विभवाश्च । | १६३ |
| दुष्करं विषमौषधीकर्तुम् । | ४५३ |
| द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् । | १४७ |
| न कालमपेक्षते स्नेहः । | ४१८ |
| न चन्द्रादातपो भवति । | २५६ |
| न पुष्पमोषमर्हत्युद्यानलता । | ७५ |
| न युक्तं परकलत्रदर्शनम् । | ११८ |
| पुरुषभाग्यानामचिन्त्याः खलु व्यापारा यदहमीदृशीं दशामनुप्राप्तः । | ५७४ |
| पुरुषेषु न्यासा निक्षिप्यन्ते न पुनर्गेहेषु । | १५२ |
| मूले छिन्ने कुतः पादपस्य पालनम् । | ५६७ |
सुभाषितानि
६५५
गद्यानि
| गद्यानि | पृष्ठाङ्काः |

| रत्नं रत्नेन संगच्छते । | ८० |
| लोके कोऽप्युत्थितः पतति कोऽपि पतितोऽप्युत्तिष्ठते । | ६१३ |
| वीणा हि नामासमुद्रोत्थितं रत्नम् । | १८३ |
| सर्वत्रार्जवं हि शोभते । | ६३३ |
| साहसे श्रीः प्रतिवसति । | २४३ |
| स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति । | ६७ |
श्लोकाः
| श्लोकाः | अंकाः | श्लोकाः |

| अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः ।
न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ | ८ | २१ |
| अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ | ४ | १२ |
| अभ्युदयेऽवसाने तथैव रात्रिन्दिवमहतमार्गा ।
उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ॥ | १० | १९ |
| अम्भोजिनी लोचनमुद्रणं किं भानावदस्तंगमिते करोति ॥ | १० | १८ |
| अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ | ४ | ११ |
| आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी साऽर्थतः पुमान् ॥ | ३ | २८ |
| आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ | १ | ५० |
| इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् ।
सुपुरुषप्राणविपत्तिश्चत्वार इमे न द्रष्टव्याः ॥ | १० | ७ |
| इह सर्वस्वफलिनः कुल-पुत्र-महाद्रुमाः ।
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥ | ४ | १० |
| एता हसन्ति च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ | ४ | १४ |
| कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं
कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्युन्नतिम् ।
अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय-
न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ | १० | ६० |
६५६ मृच्छकटिकम्
| श्लोकाः | अङ्काः/श्लोकाः |

| किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । | ६ ७ |
| भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ | ८ २६ |
| कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं तलितं खलु मांसम् ।
भक्तं च हैमन्तिकरात्रिसिद्धं लीनायां च वेलायां न खलु भवति पूति ॥ | १ ५१ |
| क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥ | १ ५५ |
| गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ | ५ १६ |
| गुणेषु यत्नः पुरुषेण कार्यो न किञ्चिदप्राप्यतमं गुणानाम् ।
गुणप्रकर्षाड्डुडुपेन शम्भोरलङ्घ्यमुल्लङ्घितमुत्तमाङ्गम् ॥ | ४ २३ |
| गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा ।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ | ४ २२ |
| चारित्रेण विहीन आढ्योऽपि च दुर्गंतो भवति ॥ | १ ४३ |
| छिद्रेष्वनर्था बहुलीभवन्ति ॥ | ६ २६ |
| जलं कूलावपातेन प्रसन्नं कलुषायते । | ९ २४ |
| तपसा मनसा वाग्भिः पूजिताः बलिकर्मभिः ।
तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः ॥ | १ १६ |
| त्यजति तं किल जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ।
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥ | ६ १८ |
| दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते,
सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः ।
सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते,
पापं कर्म च यत् परैरपि कृतं तत्तस्य संभाव्यते ॥ | १ ३६ |
| दारिद्र्यात् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजस ,
निस्तेजाः परिभूयते परिभवान्निर्वेदमपद्यते ।
निर्विण्णः शुचमेति शोकपिहितो बुद्ध्या परित्यज्यते
निबुद्धिः क्षयमेत्यहो निधनता सर्वापदामस्पदम् ॥ | १ १४ |
| दारिद्र्यान्मरणाद् वा मरणं मम रोचते न दारिद्र्यम् ।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥ | १ ११ |
| द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च ॥ | ४ २५ |
| दैवी च सिद्धरपि लङ्घयितुं न शक्या । | ६ २ |
| धनैर्वियुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । | ५ ४० |
| न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति । | ४ १७ |
सुभाषितानि ६५७
| श्लोका: | अङ्काः | श्लोकाः |

| न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ | ५ | ३१ |
| न हि कमलं मधुपाः परित्यजन्ति । | ८ | ३२ |
| न ह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ | ६ | १६ |
| निवासचिन्तायाः परपरिभवो वैरमपरं
जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् ।
वनं गन्तुं बुद्धिर्भवति च कलत्रात् परिभवः
हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च ॥ | १ | १५ |
| निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ | ४ | २१ |
| नृणां लोकान्तरेस्थानां देहप्रतिकृतिः सुतः ॥ | ९ | ४२ |
| पक्षविकलश्च पक्षी शुष्कश्चतरुःसरश्च जलहीनम् ।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रस्य ॥ | ५ | ४१ |
| पंचजना येन मारिता अविद्यां मारयित्वा ग्रामो रक्षितः ।
श्वबलः क्व चाण्डालो मारितोऽवश्यमपि स नरः स्वर्गं गाहते ॥ | ८ | २ |
| बहुदोषा हि शर्वरी । | १ | ५८ |
| भीताभयप्रदानं ददतः परोपकाररसिकस्यं ।
यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ | ६ | १६ |
| मा दुर्गंत इति परिभवो नास्ति कृतान्तस्य दुर्गंतो नाम ।
चारित्रेण विहीन आढ्योऽपि च दुर्गंतो नाम ॥ | १ | ४३ |
| य आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः ।
तस्य स्खलनं न जायते न च कान्तारगत. विपद्यते ॥ | २ | १४ |
| यथैव पुष्पं प्रथमे विकाशे समेत्य पातुं मधुपाः पतन्ति ।
एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्थाः बहुलीभवन्ति ॥ | ९ | २६ |
| यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते ।
तदाऽस्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ | १ | ५३ |
| यदि संभोव्यते पापमपापेन च किं मया । | ६ | ३७ |
| येऽभिभवन्ति साधुं ते पापास्ते च चाण्डाला । | १० | २२ |
| राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य । | १० | २० |
| वरं व्यायच्छतो मृत्युर्नं गृहीतस्य बन्धने । | ६ | १७ |
| विपर्यस्तमनश्चेष्टैः शिलाशकलवर्मभिः ।
मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुन्धरा ॥ | ८ | ६ |
४२ मृ०
| ६५८ | मृच्छकटिकम् |

| श्लोकाः | अङ्काः/श्लोकाः |

| विभवानुगता भार्या सुखदुःखसुहृद्भवन् ।
सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ | ३ २८ |
| विषमा इन्द्रियचोराः हरन्ति चिरसंचितं धर्मम् । | ८ १ |
| वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः
भिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ | ५ ८ |
| वेश्याः श्मशानसुमना इव वर्जनीयाः । | १ १४ |
| शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता । | ३ २४ |
| शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः ।
शस्त्रेण न हन्तव्य उपकारहतस्तु कर्तव्यः ॥ | १० ५५ |
| शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किमर्थं मुण्डितम् ।
यस्य पुनश्च चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥ | ८ ३ |
| शून्यमपुत्रस्य गृहं चिरशून्यं यस्य नास्ति सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ | १ ८ |
| शून्यैर्गृहैः खलु समाः पुरुषाः दरिद्राः । | ५ ५२ |
| संगं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्
सम्प्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते ।
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ | १ ३७ |
| सत्कारधनः खलु सज्जनः कस्य न भवति चलाचलं धनम् । | ३ १५ |
| सत्यं न मे विभवनाशकृतास्तिचिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति ।
एतन्तु मां दहति नष्टधनाश्रयस्य
यत् सौहृदादपि जनाः शिथिलीभवन्ति ॥ | १ १३ |
| सत्येन सुखं खलु लभ्यते सत्यालापे न भवति पातकम् ।
सत्यमिति द्वे अक्षरे मा सत्यमलीकेन गूहय ॥ | ६ ३५ |
| समुद्रवीचीव चलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्तरागाः ।
स्त्रियो हतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ | ४ १५ |
सुभाषितानि ६५६
| श्लोकाः | अङ्काः/श्लोकाः |

| सर्वः खलु भवति लोके लोकः सुखसंस्थितानां चिन्तायुक्तः । विन्निपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ | १० १५ |
| सस्यलम्पटबलीवर्दो न शक्यो वारयितु— मन्यकलत्रप्रसक्तो न शक्यो वारयितुम् । द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुं योऽपि स्वाभाविकदोषो न शक्यो वारयितुम् ॥ | ३ २ |
| सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥ | १ १० |
| सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते । पिशुनः पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥ | ३ १ |
| स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः । पुरुषाणां तु पाण्डित्यं शास्त्रैरेवोपदिष्यते ॥ | ४ १६ |
| स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः । सत्पुरुषस्य स एव भवति मृदुर्नैव वा भवति ॥ | ८ ९ |
| स्त्रीषु रागो न कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति । रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ | ४ १३ |
| स्वात्मापि विस्मर्यंते ॥ | ७ ७ |
| हस्तसंयतो मुखसंयत इन्द्रियसंयतः स खलु मनुष्यः । किं करोति राजकुलं तस्य परलोको हस्ते सुनिश्चलः ॥ | * ४७ |
श्लोकानुक्रमणिका
| अङ्काः/श्लोकाः | | | अङ्काः/श्लोकाः | | | :--- | :---: | :---: | :--- | :---: | :---: | | अ | | | अमौक्तिकमसौवर्णम् | १० | १८ | | अंसेन विभ्रत्करवीरमालां | १० | २१ | अयं च सुरतज्वालः | ४ | ११ | | अग्राह्या मूर्धजेष्वेताः | ८ | २१ | अयं तव शरीरस्य | ४ | ७ | | अङ्गारकविरुद्धस्य | ६ | ३३ | अयं पटः सूत्रदरिद्रतां | २ | १० | | अत्थं शदं देमि शुवण्णअं | ८ | ४० | अयं हि पातकी विप्रो | ९ | ३६ | | अद्धं कलेवलं पडिवृत्तं | १० | ३५ | अयमेवंविधे काले | ६ | ३१ | | अद्याप्यस्य तथैव केश- | ८ | ५ | अये शस्त्रं मया प्राप्तं | ६ | २४ | | अनया हि समालब्धं | ३ | १५ | अलं चतुःशालमिमं प्रवेश्य | ३ | ७ | | अन्धआले पळाअन्ती | १ | ३१ | अवणेध बालअअणं | २ | १८ | | अन्धस्य दृष्टिरिव | ४ | ४६ | अवनतशिरसः प्रयाण | ८ | १५ | | अन्यं मनुष्यं हृदयेन | ४ | १६ | अवन्तिपुर्यां द्विजसार्थवाहो | १ | ६ | | अन्यस्यामपि जातौ मा | ८ | ४३ | अवहरइ कोवि तुरिअं | ६ | ११ | | अन्यासु भित्तिषु मया | ३ | १४ | अविज्ञातावसवेतेन | १ | ५४ | | अपण्डितास्ते पुरुषा मता मे | ४ | १२ | अशरणशरणप्रमोद- | ८ | ४ | | अपतितमपि तावत्सेव० | ८ | ४२ | अशी शुतिक्खे वलिदे | १ | ३० | | अपद्मा श्रीरेशा प्रहरणम् | ५ | १२ | असौ हि दत्त्वा तिमिराव० | ३ | ६ | | अपश्यतोऽद्य तां कान्तां | ७ | ६ | अस्मत्समक्षं हि वसन्तसेना | ९ | ३० | | अपापानां कुले जाते | ६ | ३७ | अह्मेहि चण्डं अहि | १ | २८ | | अप्येष नाम परिभूत- | ८ | २६ | आ | | | | अप्रीतिर्भवतु विमुच्यतां | ८ | ४१ | आअच्छध वीसत्था | ६ | ६ | | अभ्युदये अवशाणे | १० | १६ | आअट्टिदे शलोशं | १० | ३७ | | अब्भअं तुह देह हरो | ६ | २७ | आकर्षन्तु सुबद्ध्येनं | १० | ५३ | | अभ्युक्षितोऽसि सलिलैः | ६ | १६ | आत्मभाग्यक्षतद्रव्यः | ३ | २७ | | अमी हि दृष्ट्वा मदुपेतमेत- | १० | ६ | आर्येकेणार्यवृत्तेन | १० | ५१ | | अमी हि वस्त्रान्तनिरुद्ध- | १० | १६ | आलाने गृह्यते हस्ती | २ | ५० | | अमी हि वृक्षाः फलपुष्प- | ८ | ७ | आलोकविशाला मे | १ | ३६ | | अमूंहि भित्त्वा जलदान्तराणि | ५ | ४४ | आलोकितं गृहशिखण्डिभिः | ५ | १ |
श्लोकानुक्रमणिका
६६१
| अङ्काः/श्लोकाः | अङ्काः/श्लोकाः | ||||

| आश्रमं वत्स गन्तव्यं | १० | ३२ | एतत्तु मां दहति | १ | १२ |
| आहणिऊण सरोसं | २ | २० | एताः पुनर्हर्म्यगताः स्त्रियो | १० | ११ |
| इ | एता निषिक्तरजतद्रव | ५ | ४ | ||
| इच्छंतं मम णेच्छति ति | ८ | ३७ | एताभिरिष्टकाभिः | ३ | ३० |
| इदं गृहं भिन्नमदत्तदंडो | ६ | ३ | एता हसन्ति च रुदन्ति च | ४ | १४ |
| इदं तत्स्नेहसर्वस्वं | १० | २३ | एतेन मापयति भित्तिषु | ३ | १६ |
| इदानीं सुकुमारेऽस्मिन् | ६ | ३६ | एते हि विद्यद्गुणवद्धकक्षा | ५ | २१ |
| इंदे प्पवाहिअंते | १० | ७ | एतैः पिष्टतमालवर्णकनिभैः | ५ | ४६ |
| इयं रङ्गप्रवेशेन कलानां | १ | ४२ | एतैराद्र्रतमालपत्रमलिनैः | ५ | २० |
| इयं हि निद्रा नयनावलम्बि० | ३ | ८ | एतैरेव यदा गजेन्द्र | ५ | १८ |
| इह सर्वस्वफलिनः | ४ | १० | एत्थ मए विण्णविदा | ६ | २५ |
| ई | एदं दोशकलंडिअं | ८ | ३६ | ||
| ईदृशे व्यवहारानौ | ६ | ४० | एदेहि दे दशणहुप्पल्ल | ८ | २० |
| ईदृशैः श्वेतकाकीयैः | ६ | ४१ | एव्वं दूलमदिक्कते | १० | ५३ |
| उ | एशा णाणकमूशिका | १ | २३ | ||
| उज्जाणेसु सहासु अ | ६ | ७ | एशाशि वाशू शिलशिग्ग | १ | ४१ |
| उट्ठन्तपडन्ताह | १० | ३६ | एशे गुणलअणणिही | १० | १४ |
| उत्कण्ठितस्य हृदयानुगुणा | ३ | ३ | एशे पडामि चलणेशु | ८ | १८ |
| उत्ताशिता गच्छसि | १ | १९ | एशे म्हि तुलिदतुलिदे | ८ | ४५ |
| उत्तिष्ठ भोः पतितसाधु | १० | ३१ | एष ते प्रणयो विप्र | १ | ४५ |
| उदयति हि शशाङ्कः | १ | ५७ | एष भो निर्मलज्योत्स्नो | ६ | २४ |
| उदयन्तु नाम मेघाः | ४ | ३३ | एषा फुल्लकदम्बनीप | ५ | ३५ |
| उन्नमति नमति वर्षति | ५ | २६ | एषासि वयसो दर्पात् | १ | ४७ |
| उपरितलनिपातितेष्टको | ३ | २२ | एसो असोअबुच्छो | ३ | ३१ |
| ऋ | एह्येहीति शिखण्डिना | ५ | ३२ | ||
| ऋग्वेदं सामवेदं गणितम् | १ | ४ | ऐ | ||
| ए | ऐरावतोरसि चलेव | ५ | २३ | ||
| एककार्यनियोगेऽपि | ६ | १६ | ओ | ||
| एतत्तद्धृतराष्ट्रवक्र | ५ | ६ | ओशलध देध मग्गं | १० | ३० |
| ओहारिओ पवहणो | ६ | १२ |
६६२ मृच्छकटिकम्
क
| पाठः | अङ्काः | श्लोकाः |

| कः श्रद्धास्यति भूतार्थं | ३ | २४ |
| ,, ,, | ५ | ३४ |
| कत्ताशददे णिण्णाणअश्व | २ | ५ |
| करिकरसमबाहुः | ७ | ५ |
| कञ्चुलुआ गोच्छड | १ | ५१ |
| कस्सट्ठमो दिणअरो | ६ | ९ |
| कस्स तुहं तणुमज्झे | २ | १६ |
| कर्हि कर्हि सुसहिअ | २ | ४ |
| कांश्चित्तुच्छयति प्रपूरयति | १० | ६० |
| का उण तुलिदं एशा | १० | ३८ |
| कामं नीचमिदं वदन्तु | ३ | ११ |
| कामं प्रदोषतिमिरेण | १ | ३५ |
| किं अच्छध वीसट्ठा | ६ | ५ |
| किं यात्यस्य पुराः शनैः प्रवहणं | ७ | २ |
| किं याशि धावशि पलाअशि | १ | १८ |
| किं यासि बालकदली | १ | २० |
| किं शवके वालिपुत्ते महि | ८ | ३४ |
| किं कुलेनोपदिष्टेन | ८ | २६ |
| , ,, | ६ | ७ |
| किं ते ह्यहं पूर्वप्रतिप्रसक्ता | ५ | २६ |
| किं त्वं कटीतटनिवे० | १ | २७ |
| किं त्वं पदैर्मम पदानि | १ | २२ |
| किं त्वं भयेन परिवर्तित- | १ | १७ |
| किं नु नाम भवेत्कार्यम् | ८ | २६ |
| किं नु स्वर्गत्पुनः प्राप्ता | १० | ४० |
| किं पेक्खध छिज्जंतं | १० | ४ |
| किं पेक्खध शप्पुलीशं | १० | २४ |
| किं भीमशेणे जमदग्निपुत्ते | १ | २९ |
| कुतो बाष्पाम्बुधाराभिः | १० | ४२ |
| कृत्वा शरीरपरिणाहसुख- | ३ | ६ |
| कृत्वा समुद्रमुदकोच्छ्रय- | ६ | २२ |
| कृत्वैवं मनुजपतेर्महद्व्यलोकं | ७ | ८ |
| केयमभ्युद्यते शस्त्रे | १० | ३६ |
| केशवगात्रश्यामः | ५ | ३ |
| को तं गुणरविदं | ६ | १३ |
| कोऽयमेवंविधे काले | १० | २६ |
| क्षीरिण्यः सन्तु गावो | १० | ६० |
| क्षेमेण व्रज बान्धवान् | ७ | ७ |
ख
| पाठः | अङ्काः | श्लोकाः |

| खणेण गंठी खणजूलके मे | ६ | २ |
| खलचरित निकृष्टजात- | ८ | ३२ |
ग
| पाठः | अङ्काः | श्लोकाः |

| गता नाशं तारा उप | ५ | २५ |
| गर्जन्ति शैलशिखरेषु | ५ | १३ |
| गर्जं वा वर्ष वा शक्र | ५ | ३१ |
| गुणप्रवालं विनयप्रशाखं | ४ | ३२ |
| गुणेषु यत्नः पुरुषेण कार्यः | ४ | २३ |
| गुणेष्वेव हि कर्तव्यः | ४ | २२ |
घ
| पाठः | अङ्काः | श्लोकाः |

| घोणोन्नतं मुखमपाङ्ग | ६ | १६ |
च
| पाठः | अङ्काः | श्लोकाः |

| चन्दनश्चन्द्रशीलाढ्यो | ६ | २६ |
| चाणक्केन जधा शीदा | ८ | ३५ |
| चालुदत्तविणाशाय | ८ | ४४ |
| चिन्तासक्तनिमग्नमन्त्रि | ६ | १४ |
| चिरं खलु भविष्यामि | १० | १७ |
छ
| पाठः | अङ्काः | श्लोकाः |

| छन्नं कार्यमुपक्षिपन्ति | ६ | ३ |
| छन्नं दोषमुदाहरन्ति | ९ | ४ |
| छायार्थं ग्रीष्मसंतप्तो | ४ | १८ |
| छायासु प्रतिमुक्तशष्प० | ८ | ११ |
श्लोकानुक्रमणिका
६६३
ज
| श्लोक | अङ्कः | श्लोकाः |

| जइ वज्जसि पादालं | २ | ३ |
| जदिच्छशे लंवदशाविशालं | ८ | २२ |
| जधा जधा वशदि अब्भ | ५ | १० |
| जयति वृषभकेतुर्दक्षयज्ञ- | १० | ४६ |
| जलधर निलंज्जस्त्वं | ५ | २८ |
| जाणंतो वि हु जादि | ६ | २१ |
| जाणामि चारुदत्तं | ६ | १५ |
| जाणामि ण कीलिशं | २ | ६ |
| जादी तुज्झ विसुद्धा | ६ | २३ |
| जूदेण तं कदं मे | २ | १७ |
| जे अत्तबलं जाणिआ | २ | १४ |
| जे चुम्बदे अम्बिकम!दु | ८ | १२ |
| जेण-म्हि गब्भदाशे | ८ | २५ |
| ज्ञातीन्विटाम्स्वभुज- | ४ | २६ |
| ज्ञातो हि किं नु खलु | ६ | ६ |
झ
| श्लोक | अङ्कः | श्लोकाः |

| झाणज्झणंतबहुभूषण | १ | २५ |
ण
| श्लोक | अङ्कः | श्लोकाः |

| णअलीपधाणभूदे | १० | ८ |
| ण अलुमदि अंतलिक्खे | १० | ६ |
| णवबंधणमुक्काए | २ | १ |
| णहमज्जगदे शूले | ८ | १० |
| ण हु अम्हे चांडाला | १० | २२ |
| णिव्वक्कलं मूलकपेशिवण्णं | १ | ५२ |
| ण्हादेहं शलिलजलेहिं | ६ | १ |
त
| श्लोक | अङ्कः | श्लोकाः |

| तक्किक ण केलअ कालण | १० | १ |
| तं तस्य स्वरसंक्रमं | ३ | ५ |
| तपसा मनसा वाग्भिः | १ | १६ |
| तयोरिदं सत्सुरतोत्सवा- | ३ | ७ |
| तरुणजनसहायश्चिन्त्यतां | १ | ३१ |
| तालीषु तारं विटपेषु मन्द्रं | ५ | ५२ |
| तुलनां चाद्रिराजस्य | ६ | २० |
| तेनास्म्यकृतवैरेण | १० | २८ |
| त्यजति किल तं जयश्रीः | ६ | १८ |
| त्रेता हृतसर्वस्वः | १ | ९ |
| त्वत्स्नेहबद्धहृदयो हि | ४ | ६ |
| त्वदर्थमेतद्विनिपात्य- | १० | ४३ |
| त्वद्यानं यः समारुह्य | १० | ५२ |
| त्वरया सर्पणं तत्र | १० | ५७ |
द
| श्लोक | अङ्कः | श्लोकाः |

| दत्त्वा निशाया वचनीय- | ४ | १ |
| दाक्षिण्योदकवाहिनी | ८ | ३८ |
| दारिद्र्यं शोचामि भवन्त- | १ | ३८ |
| दारिद्र्यात्पुरुषस्य | १ | ३६ |
| दारिद्र्याद्ध्रियमेति | १ | १४ |
| दारिद्र्यान्मरणाद्वा | १ | ११ |
| दारिद्र्येणाभिभूतेन | ४ | ५ |
| दिण्णकलवीलदामे | १० | २ |
| दिष्ट्या भो व्यसनमहार्णवा- | १० | ४६ |
| दीनानां कल्पवृक्ष- | १ | ४८ |
| दुर्बलं नृपतेश्चक्षुः | ९ | ३२ |
| दुर्वर्णोऽसि विनष्टोऽसि | २ | १३ |
| दुष्टात्मा परगुणमत्सरी | ६ | २७ |
| देशः को नु जलावसेकशिथि- | ३ | १२ |
| दो ज्जेव पूअणीओ | ६ | १४ |
| द्रव्यं लब्धं द्यूतेनैव | २ | ८ |
| द्वयमिदमतीव लोके | ४ | २५ |
| द्विरदेन्द्रगतिश्चकोरनेत्रो | १ | ३ |
ध
| श्लोक | अङ्कः | श्लोकाः |

| धनैर्वियुक्तस्य नरस्य लोके | ५ | ४० |
| ६६४ | मृच्छकटिकम् |

| अङ्काः/श्लोकाः | अङ्काः/श्लोकाः | ||

| धन्यानि तेषां खलुजीवितानि | ५ ४९ | पूर्वं मानादवज्ञाय | ८ १७ |
| धाराभिरार्यजनचित्त | ५ ४५ | पूर्वानुबद्धवैरेण | १० ४५ |
| धिगस्तु खलु दारिद्र्यं | ३ १९ | प्रभवति यदि धर्मो दूषित- | १० ३४ |
| न | प्रविश गृहमिति प्रतोद्यमाना | १ ५६ | |
| न खलु मम विषादः | ४ २० | प्रसरसि भयविक्लवा | १ २४ |
| न गणयति पराभवं | २ ७ | प्राप्तोऽहं व्यसनकृतां | १० २५ |
| न पर्वताग्रे नलिनी | ४ १७ | प्राप्यैतद्व्यसनमहार्णवं | १० ३३ |
| न भीतो मरणादस्मि | १० २७ | प्रियसहृदयकारणे | ४ २७ |
| न महीतलस्थितिसहानि | १० ५६ | ब | |
| नयनसलिलसिक्तं | १० ३ | बलाकपाण्डुरोष्णीषं | ५ १६ |
| नरपतिपुरुषाणां | ७ ३ | बहुकुसुमविचित्तिदा | ८ ८ |
| निःश्वासोऽस्य न शङ्कितः | ३ १८ | बालां स्त्रियं च नगरस्य | ८ १३ |
| निवासश्चिन्तायाः | १ १५ | भ | |
| निष्पन्दीकृतपद्मखण्ड | ५ २४ | भण कस्स जम्मछट्ठो | ६ १० |
| नृणां लोकान्तरस्थानां | ६ ४२ | भवेद गोष्ठीयानं न च | ६ ४ |
| नृपतिपुरुषशङ्कितप्रचारं | ३ १० | भाग्यानि मे यदि तदा | ६ २ |
| नो मुष्णाम्यबलां | ४ ६ | भीदामअपपदारणं | ६ १६ |
| प | भीमस्यान्तरिष्यामि | ६ १७ | |
| पक्षविकलश्च पक्षी | ५ ४१ | भुजग इव गतो गिरिः | ३ २१ |
| पङ्कक्लिन्नमुखाः पिबन्ति | ५ १४ | भैक्ष्येणाप्यर्जयिष्यामि | ३ २६ |
| पंचउज्जण जेण मालिद | ८ २ | भो मेघ गम्भीरतरं नद | ५ ४७ |
| पदमव्याकोशं भास्करं | ३ १३ | म | |
| परगृहललिताः परान्नपुष्टाः | ४ २८ | मंशेण तिक्खामिलकेण | १० २९ |
| परिजनैकथासक्तः | ४ ३ | मखशतपरिपूतं गोत्रमु | १० १२ |
| परिज्ञातस्य मे राज्ञा | ६ ८ | मदनमपि गुणैर्विशेषयन्ती | ४ ४ |
| पर्यङ्कग्रन्थिबन्धद्विगुणित | १ १ | मम मअणअणंम | १ २१ |
| पवनचपलवेगः स्थूल | ५ १७ | मया किल नृशंसेन | ९ ३८ |
| पश्यन्ति मां दशदिशो | ८ २४ | मया खलु नृशंसेन | ९ ३० |
| पातु वो नीलकण्ठस्य | १ २ | मयाप्ता महती बुद्धिः | ४ २२ |
| पादप्यह्ररपरिभव | ६ २३ | मयि विनिहितदृष्टिः | ६ १९ |
| पादेनैकेन गगने | २ ११ | महावाताध्मातंमहिष | ५ २२ |
श्लोकानुक्रमणिका
| अङ्काः | श्लोकाः | अङ्काः | श्लोकाः | ||

| मा दाब जइ वि एसो | ५ | २६ | राजमार्गो हि शून्योऽयं | १ | ५८ |
| मा दुग्गदोत्ति परिहवो | १ | ४३ | रूक्षस्वरं वाशति वायसो- | ६ | १० |
| मार्जारः क्रमणे मृग | ३ | ३० | रे रे वीरअ किं किं | ६ | ८ |
| मूढे निरन्तरपयोधरया | ५ | १५ | ल | ||
| मेघा वर्षन्तु गर्जन्तु | ५ | १६ | लज्जाए भीलुदाए वा | ६ | १७ |
| मेघो जलाद्र्रमहिषोदर- | ५ | २ | लब्धा चारित्र्यशुद्धिः | १० | ५६ |
| मैत्रेय भोः किमिद | ९ | २६ | लाभशशुले मम पिदा | ६ | ६ |
| लामेहि अ लाअवल्लहं | १ | २६ | |||
| य | लिम्पतीव तमोऽङ्गानि | १ | ३४ | ||
| यं समालम्ब्य विश्वासं | ३ | २६ | लेखअवावडहिअअं | २ | २ |
| ऽ ” ” | ५ | ७ | |||
| व | |||||
| यः कश्चित्त्वरितगतिः | ३ | २ | वंशं वाए शत्तछिद्दं शुशद्दं | ५ | ११ |
| यः स्तब्धं दिवसान्तमानत- | २ | १२ | वज्जम्मिणीअमाणे | १० | १० |
| यत्नेन सेवितव्यः पुरुषः | ८ | ३३ | वणिज इव भान्ति तरवः | ७ | १ |
| यथा यथेदं निपुणं विचा- | ६ | २५ | वर्षशतमस्तु दुर्दिन | ५ | ४८ |
| यथैव पुष्पं प्रथमे विकाशे | ६ | २६ | वर्षोदकमुद्गिरता | ५ | ३८ |
| यदा तु भाग्यपक्षयपीडितां | १ | ५३ | वसन्तसेना किमियं द्वितीया | १० | ३६ |
| यदि कुप्यसि नास्ति रतिः | ५ | ३४ | वस्त्वन्तराणि सदृशानि भवन्ति | ३४ | |
| यदि गर्जति वारिधरो | ५ | ३२ | वादादवेण तत्ता चोवल | ८ | ४६ |
| यदि तावत्कृतान्तेन | ३ | २५ | वाप्यां स्नाति विचक्षणो | १ | ३२ |
| यद्वदहल्याहेतोर्मृषा | ५ | ३० | विचलइ णेउरजुअलं | २ | १६ |
| यया मे जनितः कामः | १ | ५५ | विद्युज्जिह्वेदं महेन्द्र | ५ | ५१ |
| यस्यार्थास्तस्य सा कान्ता | ५ | ६ | विद्युद्भिर्ज्वलतीव | ५ | २७ |
| यासां बलिः सपदि | १ | १ | विधिर्नैवोपनीतस्त्वं | ७ | ६ |
| येन ते भवनं भित्त्वा | १० | ५६ | विपर्यस्तमनश्चेष्टैः | ८ | ६ |
| योऽस्माभिश्चिन्तितो ब्यार्जः | ५ | २१ | विभवानुगता भार्या | ३ | २८ |
| योऽहं लतां कुसुमितां | ६ | २८ | विषसलिलतुलाग्निप्रार्थिते | ६ | ४३ |
| विषादस्त्रस्तसर्वाङ्गी | २ | ८ | |||
| र | वेगं करोति तुरगः | ५ | ८ | ||
| रक्तं च नाम मधुरं च | ३ | ४ | वेदार्थान्प्राकृतस्त्वं वदसि | ९ | २१ |
| रक्तं तदेव वरवस्त्रमियं च | १० | ४४ | |||
| रन्धानुसारी विषमः | ८ | २७ |
६६६ मृच्छकटिकम्
| अङ्काः | श्लोकाः | अङ्काः | श्लोकाः | ||

| वैदेश्येन कृतो भवेन्मम | ३ | २३ | स तावदस्माद्व्यसनार्णवो- | ७ | ४ |
| व्यवहारः सविघ्नोऽयं | ६ | १८ | सत्यं न मे विभवनाश- | १ | १३ |
| श | सदा प्रदोषो मम याति | ५ | ३१ | ||
| शंजम्मध णिअपोटं | ८ | १ | समरव्यसनी प्रमादशून्यः | १ | ५ |
| शक्कालधणे क्खु शुज्जणे | २ | १५ | समुद्रवीचीव चलस्वभावाः | ४ | १५ |
| शत्रुः कृतापराधः | १० | ५४ | सर्वगात्रेषु विन्यस्तैः | १० | ५ |
| शरच्चन्द्रप्रतीकाशं | ८ | १६ | सव्यं मे स्पन्दते चक्षुः | ९ | १५ |
| शब्बकालं मए पुश्ते | ८ | २८ | साटोपकूटकपटावृत- | ५ | ३६ |
| शब्बे क्खु होइ लोए | १० | १५ | सिण्णसिलाअलहत्थो | ६ | २२ |
| शशिविमलमयूख- | १० | १३ | सीधुसुरासवमत्तिआ | ४ | ३० |
| शशपलक्कवलद्दे | ३ | २ | सुअणे क्खु भिच्चवाणु कम्पके | ३ | १ |
| शास्त्रज्ञः कपटानुसार- | ९ | ५ | सुखं हि दुःखान्यनुभूय | १ | १० |
| शिखा प्रदीपस्य सुवर्ण- | ३ | १५ | सुदृष्टः क्रियतामेषः | ४ | २४ |
| शिल मुण्डिद तुण्ड मुण्डिदे | ८ | ३ | सोऽस्मद्विधानां प्रणयैः | १ | ४६ |
| शिलशि मम णिलीणे | ८ | १२ | स्खलति चरणं भूमौ न्यस्तं | ६ | ३ |
| शुक्खा हि ववदेशाशे | १० | २० | स्तम्भेषु प्रचलितवेदि- | ५ | ५० |
| शुवण्णं देमि पिअं | ८ | ३१ | स्त्रियो हि नाम खल्वेताः | ४ | १९ |
| शुष्कवृक्षस्थितो ध्वाङ्क्षः | ६ | ११ | स्त्रीभिर्विमानितानां | ८ | ९ |
| शून्यमपुत्रस्य गृहं | १ | ८ | स्त्रीषु न रागः कार्यः | ४ | १३ |
| शून्यैर्गृहैः खलु समाः | ५ | ४२ | ह | ||
| शूले विवकंते पंडवे | १ | ४७ | हत्थशंजदो मुहशंजदो | ८ | ४७ |
| स | हत्वा तं कुन्नृपमहं हि | १० | ४७ | ||
| सगं नैव हि कश्चिदस्य | १ | ३७ | हत्वा रिपुं तं बलमन्त्रिहीनं | १० | ४८ |
| संस्रवत्तैरिव चक्रवाक- | ५ | ५ | हा प्रेयसि प्रेयसि विद्यमाने | १० | ५७ |
| संभ्रमघग्घरकण्ठो | ६ | १० | हिंगुज्जले जीरकमद्दमृश्ते | ८ | १३ |
| सकामान्विष्यतेऽस्माभिः | १ | ४४ | हिंगुज्जले दिण्णमरीचचुण्णे | ८ | १४ |
| सच्चेण सुहं क्खु लब्भइ | ६ | ३५ | हित्वाहं नरपतिबन्धनाप- | ६ | १ |
परिशिष्ट
छन्दोविवेचन
छन्दःशास्त्र के अनुसार संस्कृत के प्रत्येक श्लोक में चार पाद या चरण होते हैं। इन छन्दों के दो भेद हैं—(१) वर्णवृत्त और (२) मात्रिक। वर्णवृत्तों में प्रत्येक चरण के वर्णों की गणना की जाती है और मात्रिक छन्दों में प्रत्येक चरण की मात्राओं की गणना की जाती है। वर्णवृत्तों को वृत्त और मात्रिक छन्दों को जाति कहा जाता है, ये तीन प्रकार के होते हैं--(१) समवृत्त—इसके चारों चरणों में वर्णों की संख्या बराबर-बराबर होती है। (२) अर्धसमवृत्त—इसमें प्रथम और तृतीय चरण में तथा द्वितीय और चतुर्थ चरण में वर्णों की संख्या समान रहती है। (३) विषमवृत्त—इसमें सभी चरणों में समानता नहीं रहती है। इसका प्रयोग कम मिलता है।
गणपरिचय—
वर्णवृत्तों में वर्णों की गणना के लिये 'गण' का उपयोग होता है। एक गण में तीन वर्ण होते हैं। ये गण आठ हैं—(१) यगण, (२) मगण, (३) तगण, (४) रगण, (५) जगण, (६) भगण, (७) नगण, (८) सगण। इनमें लघु वर्ण के लिये '।' ऐसा और गुरु के लिये 'ऽ' ऐसा चिह्न प्रयुक्त होता है। किस गण में कौन ह्रस्व और कौन गुरु होता है इनके लिये निम्न सूत्र प्रसिद्ध है—
'यमाताराजभानसलगा।'
इसका स्पष्ट ज्ञान इस श्लोक से होता है—
“आदिमध्यावसानेषु य-र-ता यान्ति लाघवम्।
भजसा गौरवं यान्ति, मनौ तु गुरुलाघवम्॥”
जो सामान्यतया दीर्घ=गुरु प्रसिद्ध हैं उनके अतिरिक्त अनुस्वार वाला, विसर्ग वाला तथा संयुक्त अक्षर के पूर्व का लघु वर्ण भी गुरु माना जाता है। पाद के अन्त का लघु वर्ण विकल्प से गुरु माना जा सकता है—
“सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत्।
वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा॥”
छन्दों के लक्षणों में यति=विराम का भी निर्देश रहता है।
६६८ मृच्छकटिकम्
मृच्छकटिक में प्रयुक्त छन्द—
मृच्छकटिक में विविध छन्दों का सुन्दर प्रयोग किया गया है यहाँ उनका संक्षिप्त परिचय दिया जा रहा है।
(१) अनुष्टुप् या श्लोक—
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम् । द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः ॥ अथवा पंचमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयाच्छेषेषु नियमो न हि ॥
इसके चार चरणों में आठ-आठ अक्षर होते हैं। इनमें पंचम लघु और षष्ठ गुरु होता है। द्वितीय और चतुर्थ चरण में सप्तम लघु होता है। शेष के लिये कोई नियम नहीं है। उदा० प्रथम अंक में २, १६, ३४ आदि।
(२) आर्या—
यस्याः प्रथमे पादे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पंचदश साऽर्या ॥
यह मात्रिक वृत्त है। इसके प्रथम पाद में १२ मात्रायें, द्वितीय में १८, तृतीय में १२ और चतुर्थ में १५ मात्रायें होती हैं। यह छन्द भी सरलतया समझा जाता है। मृच्छकटिक में इसका पर्याप्त प्रयोग है। उदा० प्रथम अंक में ८, ११, ३३ आदि श्लोक हैं।
(३) इन्द्रवंशा—
तच्चेन्द्रवंशा प्रथमाक्षरे गुरौ ।
यह वंशस्थ के समान है। इसका प्रथम वर्ण गुरु होता है। यह स्वतन्त्ररूप से नहीं प्रयुक्त है। यह उपजाति के रूप में प्रयुक्त है। प्रथम अंक का ४६ और तृतीय का ७ श्लोक इसका उदा० है।
(४) इन्द्रवज्रा—
स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
प्रत्येक चरण में तगण तगण जगण और दो गुरु वर्णों के क्रम से ११ वर्ण होते हैं। उदा० चतुर्थ अंक का १६, पंचम का ४६ और दशम का ११, २१, ४८, ५८ श्लोक हैं।
(५) उपजाति—
स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतजास्ततो गौ ।
परिशिष्ट ६६१
“अनन्तरोदीरितलक्ष्मभाजो पादौ यदीयावुपजातयस्ताः ।
इत्थंक्लिवान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम ।”
इन्द्रवज्रा और उपेन्द्रवज्रा के दो-दो पादों के मिलने पर इसी प्रकार अन्य छन्दों के मिलने पर ‘उपजाति’ भेद माना जाता है। इस छन्द का पर्याप्त प्रयोग किया गया है। उदा० प्रथम अंक का ३८, ४६, तृतीय अंक का ६, चतुर्थ अंक का १, १२, १५, ३२, पंचम अंक का २१, २९, ४०, ४७, ५२, अष्टम अंक का २७, ३०, नवम अंक का १० २६, और दशम अंक का ६, १६, ४०, ४३ श्लोक ।
(६) उपेन्द्रवज्रा--
उपेन्द्रवज्रा जतजास्ततो गौ ।
इसमें जगण, तगण, जगण के बाद दो गुरु वर्ण होते हैं। यह प्रथम अंक में ६ चतुर्थ में २३ और षष्ठ में ३ श्लोक में है।
(७) गीति :-
आर्यापूर्वार्धसमं द्वितीयमपि यत्र भवति हंसगते ।
छन्दोविदस्तदानीं गीति ताममृतवाणि भाषन्ते ॥
यह आर्या के समान होता है केवल अन्तिम पाद में १५ के स्थान पर १८ मात्रायें होती हैं। यह चतुर्थ अंक के ३४ वें श्लोक में है। इसे ‘उद्गाथा’ भी कहते हैं।
(८) पथ्यावक्त्र--
युजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्तितम् ।
अनुष्टुप् छन्द के द्वितीय और चतुर्थ चरण में जब चतुर्थ अक्षर के बाद जगण आता है तब यह छन्द होता है। वास्तव में यह अनुष्टुप् का भेद हैं। मृच्छकटिक में इसका प्रचुर प्रयोग है। प्रथम अंक के—२, ५४, ५८, द्वितीय अंक के १२, तृतीय अंक के १६, २४, २५, २७, २८, २६, चतुर्थ अंक के ५, ७, ८, १८, १९, २१, पंचम अंक के ७, १६, ३९, षष्ठ अंक के १७, २६, सप्तम अंक के ६, अष्टम अंक के ६, १६, १७, २१, २८, २६, ३६, नवम अंक के ७, ८, ११, १८, २०, २४, ३०, ३१, ३२, ३३, ३६, ३७, ३८, ३६, ४२, दशम अंक के ५, १७, १८, २३, २६, २७, २८, ३२, ३९, ४१, ४२, ४५, ५०, ५१, ५२, ५६।
(६) पुष्पिताग्रा--
अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताग्रा ।
६७० मृच्छकटिकम्
यह अर्धसम वृत्त है। इसके प्रथम और तृतीय चरण में नगण, नगण, रगण, यगण-इस क्रम से १२ अक्षर होते हैं। और द्वितीय तथा चतुर्थ चरण में नगण, जगण, जगण, रगण और अन्त में एक गुरु-इस क्रम से १३ अक्षर होते हैं। यह प्रथम अंक के २४, ५६, द्वितीय अंक के ७, तृतीय अंक के १०, २१, २२, चतुर्थ अंक के ४, २७, २८, अष्टम अंक के ४, ८, १५, ३२ और दशम अंक का १३ श्लोक।
(१०) प्रमिताक्षरा--
प्रमिताक्षरा सजससैः कथिता।
इसके पाद में सगण, जगण, सगण, सगण---इस क्रम से १२ अक्षर होते हैं। यह दशम अंक के ५६ श्लोक में हैं।
(११) प्रहर्षिणी--
त्र्याशाभिर्मनजरगा प्रहर्षिणीयम्।
इसके प्रत्येक पाद में मगण, नगण, जगण, रगण और एक गुरु-इस क्रम से १३ अक्षर होते हैं। इसमें ३ और १० पर यति होती है। यह चतुर्थ अंक के २, पञ्चम के ५०, षष्ठम् के १, सप्तम के ८, अष्टम के ४१, नवम के २७ और दशम के २५, ३३, ४७, ४९, श्लोक में है।
(१२) मालभारिणी--
विषमे ससजा गुरू समे चेत् सभरा यैन तु मालभारिणीयम्।
इसे औपच्छन्दसिक भी कहा जाता है। इसमें प्रथम तथा तृतीय पादों में सगण, सगण, जगण और दो गुरु-इस क्रम में ११, ११ अक्षर होते हैं। द्वितीय और चतुर्थ पादों में सगण, भगण, रगण और यगण--इस क्रम से १२, १२ अक्षर होते हैं। यह अर्ध समवृत्त है। यह प्रथम अंक के ३, ५० श्लोक में है।
(१३) मालिनी--
ननमययुतेयं मालिनी भोगिलोकैः।
इसमें नगण, नगण, मगण, यगण, यगण इस क्रम से १५ अक्षर प्रत्येक पाद में होते हैं। ८ और ७ वर्णों पर यति होती है। यह प्रथम अंक के ३१, ५७, चतुर्थ अंक के २०, पंचम अंक के १७, सप्तम अंक के ३, ५, अष्टम अंक के ४२, नवम अंक के १२, ४३, दशम अंक के ३, १२, ३४, ४६ श्लोक में है।
(१४) वंशस्थ--
जतौ तु वंशस्थमुदीरितं जरौ।
इसके प्रत्येक पाद में जगण, तगण, जगण, रगण-इस क्रम से १२ अक्षर होते हैं। यह प्रथम अंक के ७, १०, ५३, तृतीय अंक के ८, १७, पंचम अंक के ३७,
परिशिष्ट ६७१
सप्तम अंक के ४, अष्टम अंक के ७, नवम अंक के २५ श्लोक में है। इसे वंशस्थ बिल भी कहा जाता है।
(१५) वसन्ततिलका--
उक्ता वसन्ततिलका त-भ-जा जगौ गः ।
इसके प्रत्येक चरण में तगण, भगण, जगण; जगण और दो गुरु—इस क्रम से १४-१४ वर्ण होते हैं। यह छन्द प्रचुर रूपेण प्रयुक्त है। प्रथम अंक के ९, १२, १३, १७, २०, २२, २७, ३५, ४६, तृतीय अंक के ३, ४, ९, १४, १६, चतुर्थ अंक के ६, १४, २६, पंचम अंक के १, २, ४, ८, १३, १५, ३३, ३६, ४२, ४५, षष्ठ अंक के २, अष्टम अंक के २३, २४, २६, नवम अंक के ६, १६, १६, २२, २८, २६, ३४, दशम अंक के ३१, ३४, श्लोक में हैं।
(१६) विद्युन्माला--
मो मो गो गो विद्युन्माला ।
इसके प्रत्येक पाद में मगण, मगण और दो गुरु-इस क्रम से ८, ८ अक्षर होते हैं। यह द्वितीय अंक के ८ श्लोक में है।
(१७) वैश्वदेवी--
वाणार्श्वेश्चिन्ना वैश्वदेवी ममौ यौ ।
इसके प्रत्येक पाद में मगण, मगण, यगण, यगण,—इस क्रम से १२ वर्ण होते हैं। पंचम वर्ण के बाद यति होती है। यह तृतीय अंक के १३ वें श्लोक में है।
(१८) शार्दूलविक्रीडित -
सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् ।
इसके प्रत्येक पाद में क्रमशः मगण, सगण, जगण, सगण, तगण, तगण और अन्त में एक गुरु वर्ण मिलाकर १९ वर्ण होते हैं। इसमें १२ और ७ वर्ण पर यति होती है। इसका पर्याप्त प्रयोग किया गया है। यह प्रथम अंक के १, १४, ३२, ३६ ३७, द्वितीय अंक के १२, तृतीय अंक के ५, ११, १२, १८, २०, २३, चतुर्थ अंक के ६, पंचम अंक के ५, ६, १४, १८, २०, २३, २४, २७, ३५, ४६, सप्तम अंक के २, ७, अष्टम अंक के ५, ११, २८, नवम अंक के ३, ४, ५, १४, दशम अंक के ६० श्लोक में है।
(१६) शिखरिणी--
रसैः रुद्रैश्छिन्ना यमनसभलागः शिखरिणी ।
इस छन्द के प्रत्येक पाद में यगण, मगण, नगण, सगण, भगण और अन्त में लघु और एक गुरु—इस क्रम से १७-१७ वर्ण होते हैं। इसमें ६ और ११ वर्ण
६७२ मृच्छकटिकम्
पर यति होती है। यह प्रथम अंक के १५, पञ्चम अंक के १२, २२, २५, षष्ठ अंक के ४ श्लोक में है।
(२०) सुमधुरा—
म्रौ म्नौ मो नो गुरुश्चेद् हयऋतुरसैरुक्ता सुमधुरा।
इस छन्द के प्रत्येक पाद में मगण, रगण, मगण, नगण, मगण, नगण, और एक गुरु--इस क्रम से १९ वर्ण होते हैं। इसमें ७ और १३ वर्ण पर यति होती है। यह नवम अंक के २१ श्लोक में है।
(२१) स्रग्धरा—
म्रभ्नैर्यानां त्रयेण त्रिमुनि-यतियुता स्रग्धरा कीर्तितेयम्।
इस छन्द के प्रत्येक पाद में मगण, रगण, भगण, नगण, यगण, यगण, यगण, इस क्रम से २१ वर्ण होते हैं। इसमें ७, ७, ७ वर्ण पर यति होती है। सामान्यतया प्रयुक्त छन्दों में यह सबसे बड़ा है। यह प्रथम अंक के १, ४, ४८ और दशम अंक के ५६, ६१ श्लोक में है।
(२२) हरिणी—
नसमरसलागा षड् वेदैर्हयैर्हरिणी मता।
इस छन्द के प्रत्येक पाद में नगण, सगण, मगण, रगण, सगण और लघु तथा अन्त में गुरु--इस क्रम से १७, १७ वर्ण होते हैं। इसमें ६, ४, ७ पर यति होती है। यह चतुर्थ अंक के ३ और नवम अंक के १३ श्लोक में है।
प्राकृत छन्द—
प्राकृत भाषा के विभिन्न रूपों का प्रयोग मृच्छकटिक में हुआ है। इस पर भूमिका में लिखा जा चुका है। प्राकृत के अनेक छन्द भी इसमें प्रयुक्त हैं। इनकी संस्कृतच्छाया भी मूल में दी गयी है। प्राकृतच्छन्दों के विषय में विशेष ज्ञान के लिये 'प्राकृत-पिंगल' आदि ग्रन्थ देखने चाहिये। यहाँ गाथा, आर्या, वैतालीय आदि छन्द प्रयुक्त हैं।
उपसंहार—
ऊपर यह प्रस्तुत किया जा चुका है कि मृच्छकटिक में लगभग २२ प्रकार के संस्कृत छन्दों का और कुछ प्राकृत छन्दों का प्रयोग किया गया है। परिशीलन से यह ज्ञात होता है कि इसके रचनाकार को (१) पथ्यावक्त्र, (२) वसन्ततिलका और (३) शार्दूलविक्रीडित छन्द अधिक प्रिय थे।
—:०:—