मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 1003, कुल 1023 में से
संदर्भ में पढ़ेंसंयुतः ॥५॥ वनस्थो नकुलः कश्चित्तं ददर्श भुजंगमम् । आययौ हंतुमावेशात्तयोर्युद्धं बभूव ह ॥६॥ नकुलेन बलाद्येन हतं सर्पं वनांतरे । तं गृह्य गाणपाः सद्यो ब्रह्मभूतं प्रचक्रिरे ॥७॥ तं ज्ञात्वा विस्मिताः सर्वे देवेंद्राद्या महामते । परस्परं समूचुस्ते साश्रुनेत्रा महर्षयः ॥८॥ अहो मौद्गलमाहात्म्यं वक्तुं सर्वैर्न शक्यते । सर्पोऽज्ञानाच्च स श्रुत्वा किंचिद्ब्रह्म- मयोऽधुना ॥९॥ संपूर्ण मौद्गलं यैस्तु संश्रुतं तैः प्रलभ्यते । न ज्ञायते विशेषेण किं विशिष्टमतः परम् ॥१०॥ संपूर्ण मौद्गलं यैश्च संश्रुतं ते गणेश्वराः । ज्ञातव्या लोकनाथा वै पावनार्थं भवंत्यतः ॥११॥ नरजन्मधरो यः स्यान् मौद्गलं न शृणोति चेत् । वंचितो मायया पूर्णो वृथा धिक् तस्य जीवितम् ॥१२॥ विघ्नराज नमस्तुभ्यं देहि जन्म धरातले । नित्यं मौद्गल- संसक्तान् कुरु नो मानवान् किल ॥१३॥ धिक् स्वर्गं देवदेवेशान् यत्र कर्मफलं न च । क्रियते देवदेवेशैः कर्म तद्व्यर्थतां ययौ ॥१४॥ अहो कीटपतंगादि योनौ जन्मधरो भवेत् । भारते साधुसंगेन ब्रह्मीभूतो भविष्यति ॥१५॥ सर्पोऽयं नर- वाक्हीनो न जानाति किमप्यहो । मनुष्यवाग्भवं भावं तथा शुश्राव मौद्गलम् ॥१६॥ तेनैव ब्रह्मभूतोऽयं ततः स्वानंदके पुरे । किं पुनर्नरजातिस्थो प्राप्नुयान्न गजाननम् ॥१७॥ एवमुक्त्वाऽमराद्यास्तं स्वं स्वं स्थानकमाययुः । अधुना प्रकृतं वच्मि सर्वसौख्यकरं परम् ॥१८॥ आश्विन्यां पूर्णिमायां च तत् समाप्तं बभूव ह । मौद्गलं हर्षसंयुक्ताः श्रोतारस्तं पुपूजिरे ॥१९॥ सर्वैः साकं महायोगी पारणं स चकार ह । ततः सर्वान् प्रतिपदि विससर्ज महायशाः ॥२०॥ तदाज्ञया ययुः सर्वे स्वस्व- माश्रमकं मुने । गणेशभजने सक्ता बभूवुः सर्वभावतः ॥२१॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाययुः । बभूवुर्ब्रह्म- भूतास्ते परं दृष्ट्वा गणेश्वरम् ॥२२॥ इति ते सर्वमाख्यातं यशः सार्धैकमासजम् । मौद्गलश्रवणाज्जातं भाद्रमासादि- संभवम् ॥२३॥ एवं त्वनंतरूपाश्च जंतवो ब्रह्म लेभिरे । न वक्तुं शक्यते तत्र मौद्गलश्रवणेन वै ॥२४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे भाद्रपदादिसाधैकमास- श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥