मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
संयुतः ॥५॥ वनस्थो नकुलः कश्चित्तं ददर्श भुजंगमम् । आययौ हंतुमावेशात्तयोर्युद्धं बभूव ह ॥६॥ नकुलेन बलाद्येन हतं सर्पं वनांतरे । तं गृह्य गाणपाः सद्यो ब्रह्मभूतं प्रचक्रिरे ॥७॥ तं ज्ञात्वा विस्मिताः सर्वे देवेंद्राद्या महामते । परस्परं समूचुस्ते साश्रुनेत्रा महर्षयः ॥८॥ अहो मौद्गलमाहात्म्यं वक्तुं सर्वैर्न शक्यते । सर्पोऽज्ञानाच्च स श्रुत्वा किंचिद्ब्रह्म- मयोऽधुना ॥९॥ संपूर्ण मौद्गलं यैस्तु संश्रुतं तैः प्रलभ्यते । न ज्ञायते विशेषेण किं विशिष्टमतः परम् ॥१०॥ संपूर्ण मौद्गलं यैश्च संश्रुतं ते गणेश्वराः । ज्ञातव्या लोकनाथा वै पावनार्थं भवंत्यतः ॥११॥ नरजन्मधरो यः स्यान् मौद्गलं न शृणोति चेत् । वंचितो मायया पूर्णो वृथा धिक् तस्य जीवितम् ॥१२॥ विघ्नराज नमस्तुभ्यं देहि जन्म धरातले । नित्यं मौद्गल- संसक्तान् कुरु नो मानवान् किल ॥१३॥ धिक् स्वर्गं देवदेवेशान् यत्र कर्मफलं न च । क्रियते देवदेवेशैः कर्म तद्व्यर्थतां ययौ ॥१४॥ अहो कीटपतंगादि योनौ जन्मधरो भवेत् । भारते साधुसंगेन ब्रह्मीभूतो भविष्यति ॥१५॥ सर्पोऽयं नर- वाक्हीनो न जानाति किमप्यहो । मनुष्यवाग्भवं भावं तथा शुश्राव मौद्गलम् ॥१६॥ तेनैव ब्रह्मभूतोऽयं ततः स्वानंदके पुरे । किं पुनर्नरजातिस्थो प्राप्नुयान्न गजाननम् ॥१७॥ एवमुक्त्वाऽमराद्यास्तं स्वं स्वं स्थानकमाययुः । अधुना प्रकृतं वच्मि सर्वसौख्यकरं परम् ॥१८॥ आश्विन्यां पूर्णिमायां च तत् समाप्तं बभूव ह । मौद्गलं हर्षसंयुक्ताः श्रोतारस्तं पुपूजिरे ॥१९॥ सर्वैः साकं महायोगी पारणं स चकार ह । ततः सर्वान् प्रतिपदि विससर्ज महायशाः ॥२०॥ तदाज्ञया ययुः सर्वे स्वस्व- माश्रमकं मुने । गणेशभजने सक्ता बभूवुः सर्वभावतः ॥२१॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाययुः । बभूवुर्ब्रह्म- भूतास्ते परं दृष्ट्वा गणेश्वरम् ॥२२॥ इति ते सर्वमाख्यातं यशः सार्धैकमासजम् । मौद्गलश्रवणाज्जातं भाद्रमासादि- संभवम् ॥२३॥ एवं त्वनंतरूपाश्च जंतवो ब्रह्म लेभिरे । न वक्तुं शक्यते तत्र मौद्गलश्रवणेन वै ॥२४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे भाद्रपदादिसाधैकमास- श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणो वंध्यभावेन पीडितः कर्मणा पुरा । गार्ग्यवंशभवः कोऽपि नाम्ना शंभुरिती- रितः ॥१॥ नानोपायाः कृतास्तेन वांध्यदोषप्रहारिणः । तथापि तस्य पुत्रो वा पुत्री द्विज बभूव न ॥२॥ ततोऽतिदुःख- संयुक्तो गौतमं स जगाम ह । सस्त्रीकः पुत्रकामार्थं तं ननाम महामतिम् ॥३॥ गौतमेन मुनींद्रेण सत्कृतः शंभुरावसत् । सेवार्थं स्वगुरोस्तत्र यत्नयुक्तो बभूव ह ॥४॥ एकदा सुखमासीनं गौतमं तं च भक्तितः । जगाद पुत्रप्राप्त्यर्थं वचनं स्वहितावद्दम् ॥५॥ शंभुरुवाच । नाना यत्नाः कृताः स्वामिन् पुत्रप्राप्त्यर्थमादरात् । लभ्यते नैव संतानो मया किं वद कारणम् ॥६॥ येनोपायेन मे पुत्रो भविष्यति महामते । तमुपायं वद स्वामिन् करिष्यामि त्वदाज्ञया ॥७॥ त्वं गुरुर्मे परा काष्ठा परं त्वत्तो न विद्यते । तारयस्व महाभाग वांध्यदोषसमन्वितम् ॥८॥ तस्य तद्वचनं श्रुत्वा तं जगाद महामुनिः । गौतमः सर्वतत्त्वज्ञः शंभुं दुःखसमन्वितम् ॥९॥ गौतम उवाच । मा कुरुष्व वृथा चिंतां तव पुत्रा द्विजोत्तम । भविष्यंति त्रयः प्राज्ञा वेदज्ञा गणपप्रियाः ॥१०॥ शृणु त्वं मौद्गलं मत्तः सर्वसिद्धिप्रदायकम् । तेनानंतभवस्थं ते पापं नश्येच्च तत्क्ष- णात् ॥११॥ पुण्यराशिः स्वयं साक्षाद्भविष्यसि च तारकः । अन्येषां नात्र संदेहः सर्वसिद्धियुतस्तथा ॥१२॥ अंते गणेश्वरं प्राप्य ब्रह्मीभूतो भविष्यसि । तिष्ठात्र ज्येष्ठमासेऽहं कथयिष्यामि मौद्गलम् ॥१३॥ एवं तस्य वचः श्रुत्वा हर्षयुक्तो बभूव ह । सुशीलया स्त्रिया सार्द्धं तत्रैवं संस्थितोऽभवत् ॥१४॥ ततः स्वल्पे गते काले ज्येष्ठमासः समाययौ । अन्ये मुनिगणास्तत्र श्रवणार्थं समाययुः ॥१५॥ तान् दृष्ट्वा स्त्रीसमायुक्तः शंभुश्चातीव हर्षितः । विधियुक्ततया सर्वे श्रोतारस्तत्परा बभुः ॥१६॥ ज्येष्ठे शुक्ले प्रतिपदि गौतमो योगिनां वरः । समारभत् स हर्षेण मौद्गलं सर्वसिद्धिदम् ॥१७॥ व्याख्यां चकार सर्वज्ञो मौद्गलस्य यथार्थतः । तच्छ्रुत्वा विस्मिताः सर्वे बभूवुः श्रवणे रताः ॥१८॥ नित्यं नियमसंयुक्ताः शुश्रुवुर्भक्ति- संयुताः । तत्र कस्मिन् दिने विप्र बभूव परमाद्भुतम् ॥१९॥ गर्दभस्तत्र दैवेन ह्याययौ त्वतिदुःखितः । ज्वरेण पीडितोऽत्यंतं दूरे तस्थौ महामुने ॥२०॥ शुश्राव मौद्गलस्यैव श्लोकं ज्ञानविवर्जितः । पीडाहीनो बभूवाऽपि तत्र किंचित् स रासभः ॥२१॥ हृदा समन्वितो भूत्वा तस्थौ श्रवणलालसः । ततो गौतमविप्रेण समाप्तं तत्कृतं मुदा ॥२२॥ सर्वे स्वस्वक्रियां चक्रुः पुनः प्रातः समाययुः । गर्दभो दुःखहीनः स बभूवे तत्क्षणात् मुने ॥२३॥ स ययौ स्वेच्छया युक्तः कालवेगान् ममार सः । तस्मिन् काले च तं नेतुं गाणेशाः प्रययुर्मुदा ॥२४॥ तं गृह्य ब्रह्मभूतं ते चक्रुः श्रवणपुण्यतः । तं दृष्ट्वा देवविप्राद्याः स्वर्गस्था
खं. ९ अ. २९ | पान ७७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ विस्मयं ययुः ॥२५॥ अथो शृणु महाभाग गौतमो हर्षनिर्भरः । आषाढ्यां पूर्णिमायां स समाप्तं तच्चकार ह ॥२६॥ द्विजाद्यैः स प्रतिपदि चक्रे वै पारणं पुरा । सर्वे हर्षयुतास्तं ते नत्वा स्वस्वाश्रमं ययुः ॥२७॥ शंभुः सुशीलया सार्धं जगाम स्वाश्रयं ततः । गणेशमभजन्नित्यं ज्ञात्वा योगवपुर्धरम् ॥२८॥ ततः स्वल्पे गते काले सुशीला गर्भसंयुता । बभूव तां प्रहृश्यैवाभवच्छंभुः सुविस्मितः ॥२९॥ ततः शुभे मुहूर्ते सा सुषुवे पुत्रमुत्तमम् । सर्वलक्षणसंयुक्तं सुता एवं त्रयो- ऽभवन् ॥३०॥ वेदज्ञान् सर्वमान्यांश्च गाणपत्यपरायणान् । तान् दृष्ट्वा विस्मितः शंभुर्गुरुं सस्मार गौतमम् ॥३१॥ मौद्गले तत्परः सोऽपि बभूवे नित्यमादरात् । अंते विघ्नेश्वरं प्राप तल्लीनः प्रबभूव ह ॥३२॥ नाना जना गणेशानं लेभिरे मौद्गलस्य च । श्रवणेन च पाठेन मुने तेषु कति ब्रुवे ॥३३॥ एतत्ते कथितं विप्र ज्येष्ठात् सार्धैकमासके । मौद्गलश्रवणस्यैव माहात्म्यं स्वल्पभावतः ॥३४॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः 🙞🙢 ॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽऽसीत् पुंड्रदेशस्य सुग्रीवः सर्वशास्त्रवित् । नानाधर्मपरः सोऽपि शास्त्रार्थज्ञो विचक्षणः ॥१॥ तस्य देशे ह्यनावृष्टिर्बभूवे दुःखवर्धिनी । न ववर्ष कदा मेघस्ततो राजाऽतिदुःखितः ॥२॥ इंद्रस्य वरुणस्यै- वानुष्ठाने तत्परोऽभवत् । ब्राह्मणैर्नित्यमत्यंतं तोषयामास मेघपम् ॥३॥ ततो वै नव वर्षापि मेघः पापेन चेरितः । वीक्ष्यातिदुःखसंयुक्तः सुग्रीवोऽभूत्ततो नृपः ॥४॥ राजा राज्यं परित्यज विश्वामित्रं जगाम ह । पप्रच्छ तं प्रणम्याऽसौ मेघवृष्टिकंरं परम् ॥५॥ तेन संकथितं विप्र मौद्गलं शृणु भूमिप । देशे वृष्टिश्च संपूर्णा भविष्यति न संशयः ॥६॥ ततो राजा द्विजैस्तत्र लेखयित्वा च मौद्गलम् । ययौ स्वनगरं हृष्टस्तच्छुश्राव महामतिः ॥७॥ जनैः सार्धं समीपस्थैस्ततो वृष्टिर्बभूव ह । प्रारब्धे मौद्गले तत्र तत् दृष्ट्वा विस्मितो नृपः ॥८॥ सर्वे हर्षयुता लोका जाता पुंड्रनिवासिनः । राजा गणेश्वरं ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
खं. ९ अ. २९ | पान ७८ 卐卐 नित्यमभजद्भक्तिसंयुतः ॥९॥ भाद्रे शुद्धप्रतिपदि समारभ्य स मौद्गलम् । शुश्राव नित्यमानंदात् पुराणं सर्वसिद्धिदम् ॥१०॥ पुनर्भ्राद्रपदं प्राप्य परां शुक्लचतुर्थिकाम् । समाप्तं तत् स पंचम्यां चक्रे वै हर्षसंयुतः ॥११॥ अतिसंहर्षितो राजा श्रावणं प्राप्य सौख्यदम् । शुक्लप्रतिपदि प्राज्ञैः प्रारभन्मौद्गलं पुनः ॥१२॥ नित्यं शुश्राव सुग्रीवो गाणपत्यपरायणः । आषाढ्यां स समाप्तं तदमायां प्रचकार ह ॥१३॥ पुनः प्रारभ्य सुग्रीवो जनैः श्रेष्ठैः समन्वितः । शुश्राव वर्षमध्ये स एवं वार्षिक- माचरत् ॥१४॥ प्रतिवर्षं महाभक्त्या शुश्रुवुः सर्वनागराः । भक्तियुक्ता गणेशानमभजन् दुःखवर्जिताः ॥१५॥ न तत्र वांध्यदोषेण युक्तः कश्चिद्बभूव ह । न रोगशोकसंयुक्तः सुग्रीवे राज्यकर्तरि ॥१६॥ सर्वसंपत्समायुक्ता जनास्तत्र बभूविरे । रोगदोषादिभिर्भावैर्हीनाश्च भयवर्जिताः ॥१७॥ ततः सर्वैः स राजर्षिर्जगाम नगरस्थितैः । गणेशं ब्रह्मभूतस्तैर्बभूवे परमद्युतिः ॥१८॥ गच्छतो निजलोकं वै तस्यांगाद्वायुनाऽपरे । स्पृष्टा रौरवसंस्थास्ते पीडाहीना बभूविरे ॥१९॥ तान् गृह्य गाणपा विप्र ब्रह्मीभूतान् प्रचक्रिरे । यमाया विस्मिताः सर्वे प्रशंसुश्च मौद्गलम् ॥२०॥ विप्रवार्षिकमेवं ते कथितं श्रवणस्य यत् । मौद्गलस्य हि माहात्म्यं सर्वसिद्धिप्रदायकम् ॥२१॥ सुग्रीवदेशगः कश्चिच्छ्रुत्वा वृत्तांतमद्भुतम् । कुष्ठयुक्तो ययौ तत्र पुराणश्रवणार्थतः ॥२२॥ वार्षिकं राजशार्दूलो समारभत भक्तितः । सोऽपि नित्यं प्रशुश्राव कुष्ठनाशार्थमुत्तमम् ॥२३॥ श्रुत्वा कुष्ठविहीनः स बभूवे हर्षसंयुतः । जगाम स्वगृहं पद्भ्यां गृहकार्यरतोऽभवत् ॥२४॥ भुक्त्वा भोगान् मनोज्ञान् सोऽन्ते जगाम गजाननम् । ब्रह्मीभूतो बभूवाऽपि श्रवणस्य फलेन वै ॥२५॥ एवं सकृत् समाश्रुत्य मौद्गलं विविधा जनाः । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाययुः ॥२६॥ तत्रैव कति ते ब्रूयां नालं वर्षशतैरपि । अतः संक्षेपतः प्रोक्तं वर्षश्रवणजं फलम् ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमौद्गलसंवादे वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ❖ 卐卐
खं. ९ अ. ३० पान ७९
॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽभूच्चाक्षुषे कश्चिन् सुमेधो नाम धारकः । नानाधर्मपरो यज्वा दाता मानी महाबलः ॥१॥ सर्वशास्त्रार्थतत्त्वज्ञो द्विजदेवातिथिप्रियः । सप्तद्वीपाधिपो भूत्वा स चक्रे राज्यमुत्तमम् ॥२॥ एवं राज्यपरो राजा सर्वेषां हितकारकः । वांध्यदोषसमायुक्तो बभूवातीव दुःखितः ॥३॥ नानोपायांश्चकाराऽसौ पुत्रप्राप्त्यर्थमादरात् । नालभत् पुत्रमानंददायकं दुःखितोऽभवत् ॥४॥ पत्न्या विचार्य राजाऽसौ त्यक्त्वा राज्यं तया सह । प्रधानेषु वनं घोरं ययौ शोकसन्वितः ॥५॥ बभ्राम भ्रांतचित्तोऽसौ सुमेधा यत्र तत्र च । ततो महावनं राजा ददर्श भयदायकम् ॥६॥ मरणे निश्चयं कृत्वा प्रविवेश महावनम् । तत्र व्याला मृगा व्याघ्राः पपुलुस्तं निरीक्ष्य ते ॥७॥ ततो राजा प्रियायुक्तो बभ्राम भ्रांतवद्यथा । तत्र क्रतुं ददर्शापि महायोगींद्रमुत्तमम् ॥८॥ कृतांजलिः स्त्रिया विप्रं प्रणनाम पुरः स्थितः । तुष्टाव तं विधेः पुत्रं तेजायुक्तं प्रजापतिम् ॥९॥ संतुष्टस्तं महीपालं समाश्वास्य जगाद ह । दुःखं किं ते महीपाल किमर्थं वद चागतः ॥१०॥ राजा तस्मै स्ववृत्तांतं कथयामास विस्तरात् । तच्छ्रुत्वा ध्यानसंयुक्तो बभूव मुनिसत्तमः ॥११॥ जगाद नृपतिं विप्र क्रतुस्तं हर्षयन्निव । मौद्गलं शृणु राजंस्त्वं पुत्रयुक्तो भविष्यसि ॥१२॥ मुदितो राजशार्दूलस्तं प्रणम्य तदाज्ञया । ययौ स्वनगरं चित्रं पुरोहितमुवाच ह ॥१३॥ श्रुत्वा वृत्तं गुरुस्तस्य शांडिल्यः सर्वशास्त्रवित् । जगाद तं महीपालं हर्षनिर्भरमानसः ॥१४॥ शांडिल्य उवाच । मौद्गलं चानयिष्यामि सर्वसिद्धिप्रदायकम् । श्रावयिष्यामि ते राजन् मा चिंतां कुरु निश्चितम् ॥१५॥ एवमुक्त्वा ययौ सोऽपि क्रतुं योगींद्रवंदितम् । तं प्रणम्य यथान्यायं मौद्गलं श्रुतवान् परम् ॥१६॥ लेखयित्वा स्वयं विप्रः शांडिल्यः सर्वतत्त्ववित् । ययौ सुमेधसं भूपं जगाद वचनं हितम् ॥१७॥ शांडिल्य उवाच । मौद्गलेन समं राजन्न किंचिद्विद्यते परम् । शास्त्रं योगींद्रवंद्यं तत् सर्वसिद्धिप्रदायकम् ॥१८॥ क्रतोः प्रसाद- माहात्म्यान् मया ज्ञातमिदं परम् । शृणु नित्यं महाराज मौद्गलं सर्वमुङ्गलम् ॥१९॥ एवमुक्त्वा स्वयं विप्रः समारभत हर्षितः । मौद्गलं तं प्रणम्याऽसौ जगाद नृपसत्तमः ॥२०॥ सुमेधा उवाच । मुहूर्तं पश्य विप्रेश शुभदं तत्पुनः प्रभो । मौद्गलं कथयस्व त्वं सर्वसिद्धिकरं परम् ॥२१॥ शांडिल्य उवाच । क्षणभंगुरदेहोऽयं न विश्वास्यो महीपते । विघ्नराजं स्मर त्वं वै तेन कालः शुभो भवेत् ॥२२॥ गाणेशं नृपशार्दूल यत्किंचित् सर्वसिद्धिदम् । तत्र द्विविधभावेन स नरोत्तम आचरेत् ॥२३॥ मुहूर्तं शुभमालोक्याथवा तं गणपं स्मरन् । समारभेन्न संदेहो मान्यत्वं तु विचारय ॥२४॥ एवमुक्तो नृपस्तेन तथेत्युक्त्वा
स्त्रिया सह । शुश्राव मौद्गलं नित्यं शांडिल्याद्धर्मसंयुतः ॥२५॥ ततः स्वल्पे गते काले गर्भयुक्तां निरीक्ष्य ताम् । पत्नीं महीपतिः सर्वैर्हर्षयुक्तो बभूव ह ॥२६॥ पुत्रं सा सुषुवे साध्वी सर्वलक्षणसंयुक्तम् । राजा नित्यं सुहर्षेण शुश्रुवे मौद्गलं परम् ॥२७॥ तदेकनिष्ठभावस्थो बभूवे नित्यमादरात् । अंते नगरसंयुक्तो जगाम गणपं परम् ॥२८॥ तत्र दृष्ट्वा गणेशानं ब्रह्मीभूतो बभूव ह । जनैः सार्द्धं सुमेधास्तु पुराणश्रवणेन वै ॥२९॥ शांडिल्योऽपि वनं गत्वा नित्यं विघ्नेशमाभजत् । गणेशाग्रे पुराणं स कथयामास मौद्गलम् ॥३०॥ नित्यं भावसमायुक्तो मौद्गले तत्परोऽभवत् । शांतियोगयुतो भूत्वाऽसेवत्तं गणनायकम् ॥३१॥ सर्वत्र सर्वमान्यः स बभूव ब्राह्मणाग्रणीः । अंते गणेश्वरं प्राप योगिवंद्यो महायशाः ॥३२॥ तस्याश्रमो गणेशस्य क्षेत्रमाभूच्च सिद्धिदम् । दर्शनाद्यैर्महाविप्र सर्वसौख्यकरं परम् ॥३३॥ एवं नित्यजपे सक्ता मौद्गलस्य महामुने । इह भुक्त्वा प्रभोगांस्ते ब्रह्मभूता बभूविरे ॥३४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । नानातपःपरः कुत्सः साक्षाद् द्विजवरोऽभवत् । तपसा शुद्धभावः स ब्रह्मश्रद्धा- परायणः ॥१॥ शमी दमपरो भूत्वा जडोन्मत्तादिकं परम् । चचार स ततः शाक्तोऽभवत् ब्रह्मणि तन्मयः ॥२॥ नाम- रूपात्मकानां तद्ब्रह्मासत्संज्ञकं मतम् । तज्ज्ञात्वा शांतिहीनश्च बभूवे खेदसंयुतः ॥३॥ तत्रागतं स योगींद्रं याज्ञवल्क्यं प्रतापनम् । ननाम तं महाभागं कुत्सो धर्मविदुत्तमः ॥४॥ संपूज्य हर्षसंयुक्तः प्रपच्छ विनयान्वितः । वद योगं महायोगिन् शांतिदं योगिनां मतम् ॥५॥ याज्ञवल्क्य उवाच । पंचचित्तमयी बुद्धिः संयोगायोगरूपिणी । तस्यां भ्रांतिप्रदा सिद्धिर्नानासिद्धिप्रदर्शिनी ॥६॥ तत्र बिंबं गणेशस्य पतितं मोहधारकम् । बिंबभावं परित्यज्य ब्रह्मीभूतो भविष्यसि ॥७॥ तदर्थं वक्रतुंडस्याऽराधनं कुरु सर्वदा । तेन शांतिसमायुक्तो भविष्यसि न संशयः ॥८॥ बिंबं मायायुतं प्रोक्तं मोहितं
खं. ९ अ. ३२ पान ८१ सिद्धिबुद्धिगम् । तद्भावं हंति तुंडेन तेनायं वक्रतुंडकः ॥९॥ मायासुखं नराकारं तस्माद्वक्रं परं सुखम् । तयोर्ब्रह्मसमायोगे वक्रतुंडोऽयमुच्यते ॥१०॥ कंठाधो मायया युक्तो मस्तकं तद्विवर्जितम् । वक्राख्यं तस्य विप्रेश तेनाऽयं वक्रतुंडकः ॥११॥ अनेनार्थेन संयुक्तं वक्रतुंडं भजस्व च । तेन शांतिसमायुक्तो गाणपत्यो भविष्यसि ॥१२॥ एवमुक्त्वा ययौ योगी याज्ञवल्क्यो महायशाः । कुत्सो हर्षसमायुक्तो वक्रतुंडपरोऽभवत् ॥१३॥ ततः स्वल्पेन कालेन शांतिं लेभे महामुनिः । गाणपत्यस्वभावेनाऽभजत्तं वक्रतुंडकम् ॥१४॥ कुत्सो नित्यं महायोगी वक्रतुंडचरित्रकम् । खंडं पपाठ भक्त्या स मौद्गलस्य सुहर्षितः ॥१५॥ तस्य गेहे कदाचित्तु अगमत् शूलसंयुतः । भगंदरयुतः पापी द्विज आंगिरसोद्भवः ॥१६॥ दुःखयुक्तो ननामाऽसौ कुत्सं योगविदां वरम् । स्नात्वा सुषुवाप विप्रेश तत्सांनिध्येऽतिदुःखितः ॥१७॥ कुत्सो गणेशं संपूज्याऽपठत्तं वक्रतुंडगम् । चरितं सोऽपि शुश्रावानायासेन गृहे स्थितः ॥१८॥ संपूर्गे संश्रुते तत्र रोगहीनो बभूव ह । प्रणम्यांगिरसस्तं च ययौ स्थानं स्वकीयकम् ॥१९॥ भुक्त्वा स विविधान् भोगान् जगामांते गणेश्वरम् । चित्रमांगिरसोद्भूतं पश्य शौनक ते नमः ॥२०॥ एवं नाना जनाः सिद्धिं ययुः श्रवणमात्रतः । वक्रतुंडचरित्रस्य मौद्गलस्यस्य मानद ॥२१॥ तन्नैवं कति ते ब्रूयां मया वक्तुं न शक्यते । अतः संक्षेपतः प्रोक्तं माहात्म्यं श्रवणे भवम् ॥२२॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वक्रतुंडचरित्रश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥
❧❧❧
॥ श्रीगणेशाय नमः ॥ सूत उवाच । पिप्पलादः पुरा कश्चिद्वभूव ब्राह्मणोत्तमः । स शैवमार्गसंयुक्तोऽभजत्तं शंकरं सदा ॥१॥ गौतमीतीरसंस्थः स क्रमतो योगसंस्थितः । बभूव सहजे संस्थः स्वाधीनत्वपरायणः ॥२॥ ततो वेदार्थजं योगं ज्ञात्वा शांतिधरं परम् । सहजं मोहहीनं तत् दृष्ट्वा दुःखयुतोऽभवत् ॥३॥ जगाम गौतमं विप्रो भक्तिसंयुक्त आनमत् । पप्रच्छ योगशांत्यर्थमुपायं ब्रह्मदं परम् ॥४॥ जगाद गौतमो विप्रं स पृष्टश्चैकदंतकम् । ब्रह्म तस्यैव भक्त्या त्वं शांतियोग-
मवाप्स्यसि ॥५॥ यन्मायाविकारैश्च संयुक्तं मुनिसत्तम । मायया सह तद्विद्धि एकशब्दप्रवाचकम् ॥६॥ मायाहीनं स्थितं यत्तन्मायिकं वा द्विजोत्तमं । दंतसंज्ञं विजानीहि पश्य वेदे विचक्षण ॥७॥ तयोर्योगे गणेशान एकदंत इति श्रुतः । तं भजस्व विधानेन शांतियुक्तो भविष्यसि ॥८॥ एवमुक्त्वा महायोगी गौतमो विरराम ह । पिप्पलादश्च संनम्य ययौ स्वस्याश्रमं परम् ॥९॥ तत्रस्थश्चैकदंतं सोऽभजद्भक्तिसमन्वितः । गणेशाकृपया विप्रो योगशांतियुतोऽभवत् ॥१०॥ ततो नित्यं महाविप्र एकदंतचरित्रकम् । अपठन्मौद्गले संस्थं गाणपत्यस्वभावतः ॥११॥ कस्मिंश्चित् समये योगी पूजयित्वैक- दंतकम् । अपठच्चरितं तस्य तत्सान्निध्ये सुभक्तितः ॥१२॥ तत्र पल्ली स्थिता काचित् सा शुश्राव चरित्रकम् । ज्वरयुक्ता महाभाग ज्वरहीना बभूव ह ॥१३॥ देहांते गणनांथं तु जगाम चरितश्रवात् । तं दृष्ट्वा ब्रह्मभूता सा बभूवे चित्रमद्भुतम् ॥१४॥ एवमेकरदस्यैव चरितस्य च सेवने । श्रवणेन नरा नार्यो ब्रह्मीभूता बभूविरे ॥१५॥ तेषां न शक्यते वक्तुं चरितं केनचिन् मुने । अतः संक्षेपतः प्रोक्तं सर्वसिद्धिप्रदायकम् ॥१६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे एकदंतचरितमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ सूत उवाच । माध्यंदिनो महाभागो मुनिः सर्वार्थकोविदः । स्वधर्मनिरतो नित्यं नानाबलतपोन्वितः ॥१॥ स शांत्यर्थ जगामैव व्यासं सर्वज्ञमुत्तमम् । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥२॥ माध्यंदिन उवाच । शांत्यर्थं किं नरैः कार्यं तन्मे वद महामते । येन योगयुताः सर्वे ब्रह्मीभूता बभूविरे ॥३॥ व्यास उवाच । संयोगाऽयोगयोर्योगे ब्रह्मभूतो नरो भवेत् । तेन शांतियुतो भावी सा शांतिः सर्वसंमता ॥४॥ स एव गणनांथस्तु महोदर इति स्मृतः । तं भजस्व विधानेन तदा शांतिमवाप्स्यसि ॥५॥ संयोगाऽयोगरूपः सन् तयोरुदरगान् परान् । भुनक्ति सकलान् भोगान् स्मृतस्तेन महोदरः ॥६॥ ब्रह्मसु ब्रह्मसौख्यं यद्भोगरूपं प्रकीर्तितम् । भुक्तो भोगः स्थितो यत्र तदेव जठरं स्मृतम् ॥७॥ जगतां
खं. ९ अ. ३४ | पान ८३
ब्रह्मणां विप्र जठरे संस्थितः सदा । गणेशो भोगभोक्ता वै कोऽपि तस्योदरे न तु ॥८॥ प्रोक्तो महोदरस्तेन वेदेषु गणनायकः । एकस्तं भज भक्त्या वै तया शांतिमवाप्स्यसि ॥९॥ एवमुक्त्वा महायोगी व्यासो योगींद्रसत्तमः । विरराम स तं नत्वा आश्रमं स्वं जगाम च ॥१०॥ महोदरचरित्रं स मौद्गलस्थं विशेषतः । सेव्ययोगपरो भूत्वाऽभजत्तं तु महोदरम् ॥११॥ तस्मै तुष्टो गणाधीशो ददौ योगं सुशांतिगम् । ततः शांतियुतो नित्यमभजद्गणनायकम् ॥१२॥ महोदरचरित्रं यदपठन्नित्यमादरात् । महायोगी स्वयं तत्र स्थापयामास विघ्नपम् ॥१३॥ कदाचिद्गणराजं स पूजयित्वा पपाठ तत् । महोदरस्य माहात्म्यं तत्र चित्रं बभूव ह ॥१४॥ मंडूको दैवयोगेन शुश्रावाज्ञानसंयुतः । निर्माल्ये संस्थितस्तत्र भयभीतः समंततः ॥१५॥ ततो बहौ गते काले मृतं तं कुत्रचित् स्थले । मंडूकं च समानेतुमगमन् गाणपा मुदा ॥१६॥ संगृह्य ब्रह्मभूतं ते चक्रुरेकश्रवात् परम् । पाठस्य पश्य विप्रेश माहात्म्यं परमाद्भुतम् ॥१७॥ एवं नाना जना विप्र महोदर- चरित्रकम् । संसेव्य भुक्तभोगास्तेऽभवन् ब्रह्ममयाऽमृताः ॥१८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय् नमः ॥ सूत उवाच । आश्वलायनवंशस्थो ब्राह्मणः सुरुचिः पुरा । नाम्ना स्वधर्मनिष्ठः स ब्रह्मज्ञानपरोऽभवत् ॥१॥ नानायोगक्रमे सक्तः शमी दमपरायणः । चचार योगचर्यां तामंते सहजगोऽभवत् ॥२॥ तत्र स्वाधीनतां दृष्ट्वा विस्मितः प्रययौ स्वयम् । स्वगुरुं तं प्रणम्याऽऽदौ योगं पप्रच्छ उत्तमम् ॥३॥ सुरुचिरुवाच । वद योगं महायोगिन् शांतिदं सर्वभावतः । अस्माकं त्वं परा काष्ठा गुरुवंशधरः प्रभुः ॥४॥ आश्वलायन उवाच । पैलेन कथितो योगो मह्यं शांतिप्रदः परः । तं तेऽहं कथयिष्यामि ब्रह्मभूतप्रदायकम् ॥५॥ चित्तं पंचविधं त्यक्त्वाऽहं ब्रह्मेति प्रबोधतः । सरसं तेन शांतिस्थो भविष्यसि न संशयः ॥६॥ सरसं चित्तकं यस्मात् संभूतं यन्मयं मतम् । अंते यत्र गतं तत्त्वं गजं जानीहि मानद ॥७॥ तदेवाननकं
यहाँ दिए गए पृष्ठ का मूल संस्कृत पाठ (श्लोक संख्या ८ से २५ एवं अध्याय समाप्ति पुष्पिका) प्रस्तुत है:
यस्य तं भजस्व विधानतः । गजाननं सुशांतिस्थो भविष्यस्यधुना मुने ॥८॥ एवमुक्त्वा महाविप्र आश्वलायन आदरात् । तूष्णीं स्थितः स तं नत्वा ययौ स्वस्याश्रमं पुनः ॥९॥ गजाननपरो भूत्वाऽभजत्तं नित्यमादरात् । गजाननचरित्रं सोऽपठन् मौद्गलसंस्थितम् ॥१०॥ तेन तुष्टो गणाधीशो ददौ योगं प्रशांतिदम् । भक्ताय वै सुरुचये भक्तवाञ्छाप्रपूरकः ॥११॥ ततस्तेन रहस्यं यच्चतुर्वेदसमुद्भवम् । ज्ञातं गजाननाख्ये तत् संस्थितं ब्रह्मणोदितम् ॥१२॥ गच्छंति यत्र सर्वाणि विश्वानि ब्रह्मकाणि तु । योगरूपेण यस्तेषु स गच्छतिग उच्यते ॥१३॥ सर्वगं ब्रह्म सत्प्रोक्तमृग्वेदे सारगं परम् । तदेव गश्च विज्ञेयो मुने नाम्नि गजानने ॥१४॥ जायंते विविधान्येव विश्वानि ब्रह्मकाणि च । तस्माददः स जः ख्यातोऽद्वितीयात्मक एककः ॥१५॥ आदिमध्यांतभावेषु यादृशं तादृशं भवेत् । यजुषि ब्रह्म संप्रोक्तं स्मृतोऽजः स गजानने ॥१६॥ पंचचित्तमयं सर्वं नाशनन्नात्र संशयः । नष्टं नकारगं विद्ध्याऽऽसमंतादा च तन्न वै ॥१७॥ नष्टभावेषु यस्तिष्ठेदासमंतात्तदेव तत् । ब्रह्म साम्ना समाख्यातं स्थित आनो गजानने ॥१८॥ पंचचित्तमयं सर्वं नष्टं ज्ञातव्यमंजसा । तदेव योगभावेन ब्रह्मरूपं प्रकीर्तितम् ॥१९॥ अथर्वणसमाख्यातमहमात्मा न संशयः । अज्ञानेन विनाशाख्यो न स्मृतः स गजानने ॥२०॥ एतद् ब्रह्ममुखेभ्यश्च चतुर्भ्यः सारमीरितम् । गजाननो महाविप्र चतुर्वेदात्मकः स्मृतः ॥२१॥ एवं गजाननं ज्ञात्वाऽभजत्तं सुरुचिः सदा । अपठत्तस्य माहात्म्यं तत्र चित्रं बभूव ह ॥२२॥ कपोतो वृक्षसंस्थः कः तत् शुश्राव चरित्रकम् । स रोगसंयुक्तः पापी रोगहीनो बभूव ह ॥२३॥ अंते गजाननं गत्वा ब्रह्मीभूतोऽभवन् मुदा । अज्ञानश्रवणेनैवाऽतः फलं किं वदामि ते ॥२४॥ एवं नाना जना खंडं यद्गजानननामकम् । श्रुत्वा पठित्वा भुक्त्वांते भोगान् ब्रह्म प्रलेभिरे ॥२५॥
अध्याय पुष्पिका (समाप्ति सूचक वाक्य):
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥
खं. ९ अ. ३६ पान ८५ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । भार्गवः कपिलो नाम सर्वशास्त्रविशारदः । कपिलस्य वरेणैव समुत्पन्नः सुधर्मवित् ॥१॥ नानातपःसमायुक्तो योगनिष्ठो बभूव ह । तदर्थं शुनकं सोऽपि जगाम विनयान्वितः ॥२॥ तं प्रणम्य महात्मानं स्थित आर्जवसंयुतः । कदाचित्ते महाभागं पप्रच्छ पितरं मुदा ॥३॥ कपिल उवाच । योगशांतिप्रदं नाथ वद ब्रह्मणि तन्मयम् । त्वं नो गुरुः समाख्यातस्तारयस्व भवार्णवत् ॥४॥ शौनक उवाच । विश्वानि विद्धि तं योगं ब्रह्मणि निःसृतानि च । यदाधारेण वर्तंते ते गच्छंति यदात्मनि ॥५॥ तदेव योगदं ब्रह्म लंबोदरप्रवाचकम् । तस्योदरे स्थितं ब्रह्म विश्वं च भज तं सदा ॥६॥ तेन शांतिसमायुक्तो ब्रह्मीभूतो भविष्यसि । नान्यथा त्वं महाभाग सिद्धिबुद्धिविमोहितः ॥७॥ एवमुक्त्वा महायोगी शुनको विरराम ह । तं प्रणम्य ययौ सोऽपि स्वाश्रमं हर्षसंयुतः ॥८॥ लंबोदरचरित्रं स मौद्गलस्थं जजाप ह । गणेशं पूजयामास नित्यं भक्तिपरायणः ॥९॥ तेन तुष्टो गणाधीशो ददौ योगं सुशांतिदम् । कपिलाय स्वभक्ताय भक्तवात्सल्य- कारणात् ॥१०॥ शांतियुक्तः स्वयं योगी तज्जजाप चरित्रकम् । नित्यं पूजापरो भूत्वा लंबोदरसमीपगः ॥११॥ तत्र चित्रं कदाचिद्वै बभूव शृणु शौनक । बलीवर्दः स्थितः कश्चिद्रोगाक्रांतः पपात ह ॥१२॥ शुश्राव तच्चरित्रं स संपूर्णं ज्ञानहीनतः । सद्यो वै रोगनिर्मुक्तो बभूवे हर्षसंयुतः ॥१३॥ नाजानंस्तन् महत् पुण्यं बलीवर्दः कदाचन । कालेन स मृतस्तत्र ब्रह्मीभूतो बभूव ह ॥१४॥ एवमज्ञानतो वाऽपि ज्ञानतो विविधा जनाः । ब्रह्मीभूता बभूवुश्च मया वक्तुं न शक्यते ॥१५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे लंबोदरचरितवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ❧ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अश्वत्थामा महाभागो द्रोणपुत्रः प्रतापवान् । कृपेण मातुलेनैव जगाम वनमुत्तमम् ॥१॥ भारते संस्थितं सारं ज्ञात्वा कृष्णमुखाच्च्युतम् । बुद्धेः परतरं ब्रह्माऽभवत्तत्रैव लालसः ॥२॥ बुद्धेः पत्युर्गणेशस्य हृदि ज्ञानं कथं भवेत् । परिपूर्णं तदर्थं स गौतमं शरणं ययौ ॥३॥ कृपस्तं विनयेनैव प्रणम्याश्रमसंस्थितः । सेवार्थं भागिनेयेन संयुक्तः परमार्थवित् ॥४॥ कदाचियोगिनां मध्ये गौतमः संस्थितोऽभवत् । कथयामास योगं स शांतिदं योगसेवया ॥५॥ तत्र हर्षेण संयुक्तोऽश्वत्थामा विनयान्वितः । पप्रच्छ कृपसंयुक्तः संशयस्यापनुत्तये ॥६॥ अश्वत्थामोवाच । योगप्राप्त्यर्थ-
मानंदात् कस्योपासनमाचरेत् । योगरूपस्य योगीश वद सर्वज्ञ ते नमः ॥७॥ गौतम उवाच । गणेशोपासनं मुख्यं पूर्णं शांतिप्रदायकम् । योगाकारः स वै वेदे नरे गजमयत्वतः ॥८॥ पंचचित्तात्ममोहेन तेन सर्वं विमोहितम् । न जानाति परं भावं योगदं गणनायकम् ॥९॥ समोहं चित्तमुत्सृज्य स्वयं चिंतामणिर्भवेत् । तस्माद्विकटभक्त्या स लभ्यते विकटः प्रभुः ॥१०॥ पंचचित्तमयं यद्यत्तस्माद्विकटभावतः । भ्रमं त्यक्त्वा स्वचित्तस्थं तं भजस्व गजाननम् ॥११॥ तच्छ्रुत्वा विस्मिताः सर्वे मुनयस्तं प्रणम्य च । स्वस्वाश्रमं समागम्य विकटे भजने रताः ॥१२॥ अश्वत्थामा कृपश्चैव तं प्रणम्य महामतिम् । स्वस्वाश्रमं समागत्य विकटे भजने रतौ ॥१३॥ मौद्गलस्थं चरित्रं तौ विकटस्य महात्मनः । प्रपेठतुर्महा- भक्त्या पूज्य नित्यं गणेश्वरम् ॥१४॥ ततः स्वल्पेन कालेन संतुष्टो विकटोऽभवत् । ददौ योगं स ताभ्यां वै पूर्णशांति- प्रदायकम् ॥१५॥ तथापि तौ महाभागौ पाठं चक्रतुरादरात् । खंडस्य विकटस्यैव विकटं पूज्य नित्यदा ॥१६॥ एकदा पाठसंयुक्तावभूतां च द्विजोत्तमौ । तत्र श्वा च कृपस्याग्रे शुश्रुवे संस्थितो महान् ॥१७॥ अश्वत्थाम्नश्च मार्जारः समीपस्थित आशृणोत् । तौ रोगाद्यैर्विहीनौ च जातावज्ञानतः श्रवात् ॥१८॥ अंते स्वानंदगौ जातावेकश्रवणपुण्यतः । अतः किं महिमानं ते कथयामि ह्यपार कम् ॥१९॥ अश्वत्थामा कृपश्चैव स्वस्वांशे संगतो मुदा । अंते योगयुतौ विप्र विकटे भजने रतौ ॥२०॥ शौनक उवाच । योगयुक्तौ कथं सूत स्वांशगौ तौ बभूवतुः । गणेशेन तदाकारौ महच्चित्रं वदस्व माम् ॥२१॥ सूत उवाच । देवाः कलांशभावेन भूभारहरणाय वै । भवंति मानवाद्यास्ते नानासामर्थ्यसंयुताः ॥२२॥ इह पापं यदा कृत्वा गच्छंति यमपं मृताः । पतंति नरकेष्वेव यथा दशरथादयः ॥२३॥ अथवा पुण्यमुग्रं ते कृत्वाऽन्ते स्वर्गगा मुदा । भवंति भोगसंयुक्ता यथा रामो यमस्थले ॥२४॥ भवंति योगयुक्तास्ते यदा स्वस्वांशगास्तदा । तदाकारा गणेशानं कल्पांते संगता मुदा ॥२५॥ यथा विदूरकः सद्यः कौरवे यमदेहगः । यमाकारो गणेशानमभजद्भक्तिसंयुतः ॥२६॥ अंते योगसमायुक्तो यमः परमपावनः । ययौ गणेश्वरं विप्र ब्रह्मभूतः स्वभावतः ॥२७॥ एतत्ते कथितं पूर्णं चरित्रं श्रवणात्मकम् । विकटस्यैव खंडस्य सर्वसिद्धिप्रदायकम् ॥२८॥ एवं नानाजनाश्चाश्च श्रुत्वा खंडं महाद्भुतम् । विकटस्य सुखं भुक्त्वा ब्रह्मीभूता बभूविरे ॥२९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते दक्षमद्गलसंवादे योगामृतार्थशास्त्रे विकटखंडमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥
खं. ९ अ. ३७ पान ८७ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । बिभीषणो महाभागो लंकां प्राप्य सुहृद्वृतः । रामं पूज्यं स्वयं नित्यं भक्तियुक्तोऽभजत् परम् ॥१॥ तत्रादौ गणनाथस्य पूजनं वेदसंमतम् । विचार्य विस्मितः सोऽपि दुःखयुक्तो बभूव ह ॥२॥ धारयामास मनसि गणेशं ब्रह्मनायकम् । सर्वपूज्यं गणेशस्योच्छिष्टभुजोऽमरान् परान् ॥३॥ कदाचित्तत्र योगीशो नारदः स्वेच्छया- ऽऽगतः । तं प्रणम्य प्रपूज्यैव परं पप्रच्छ हृत्स्थितम् ॥४॥ बिभीषण उवाच । गणेशोच्छिष्टभोक्तारो देवा विष्णुमुखा मुने । अग्रपूज्यप्रभावत्वात् किमिदं वेदसंमतम् ॥५॥ नारद उवाच । ब्रह्माकाराः शिवाद्याश्च नानायोगप्रधारकाः । ब्रह्माण्यन्नमुखान्येव वेदेषु कथितं बुधैः ॥६॥ तेषां स्वामी गणेशानो ब्रह्मणस्पतिसंज्ञितः । ब्रह्मणां पातृभावाद्द्वै पालयितृप्रभावतः ॥७॥ तेषां योगप्रदानार्थं देहधारी बभूव ह । गजाननादिचिह्नैः स संयुक्तो ब्रह्मरूपकैः ॥८॥ विघ्ना सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः । विघ्नैः सर्वान् प्रमथ्यैव खेलते योगरूपधृक् ॥९॥ ब्रह्माणि विघ्नयुक्तानि भवन्ते राक्षसाधिप । सत्यसंकल्पहीनानि तदा तमभजन् परम् ॥१०॥ पराधीनस्वभावं च जानते तानि नित्यदा । स्वकीयं च ततः प्रीतो गणेशो जायते परः ॥११॥ ददाति योगमुख्यं स्वं गणेशस्तेभ्य आदरात् । तदा विघ्नविहीनानि भवन्ते वीर्यवंति तु ॥१२॥ अतो गणेश्वरः पूर्णः सर्वेषां पूर्णतां गतः । पूर्णसर्वादितां वेदे ज्येष्ठराजप्रभावतः ॥१३॥ एवं विघ्नेश्वरं नित्यं भज त्वं शांतिदायकम् । रामः स एव विघ्नेशः कलांशेन न संशयः ॥१४॥ गणेशभजने कस्य व्यभिचारो भवेन्न वै । समूहानां पतित्वात्तु समूहा विष्णुमुख्यकाः ॥१५॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । ययौ सोऽपि महाबुद्धिर्विचार्य गणपे रतः ॥१६॥ पपाठ विघ्नराजस्य स खंडं मौद्गलस्थितम् । नित्यं भक्तिप्रयुक्तः संपूज्य तं गणनायकम् ॥१७॥ ततः शांतिसमायुक्तो बभूवेह बिभीषणः । गणेशमभजन्नित्यं परं रामैक्यमार्गतः ॥१८॥ एकदा राक्षसाधीशो ह्यगमत् सेतुबंधनम् । महोदरं प्रपूज्यैव तत्रस्थः पाठमकरोत् ॥१९॥ तत्र भेकी जले संस्था शुश्रुवे खंडमुत्तमम् । विघ्नराजस्य तेनैव सुखयुक्ता बभूव ह ॥२०॥ एतस्मिन्नंतरे तत्र सा सर्पेण धृताऽभवत् । ग्रस्ता ममार गाणेशैर्नीता स्वानंदके पुरे ॥२१॥ भेकीं गृह्य ब्रह्मभूतां चक्रुर्हर्ष- समन्विताः । एवमज्ञानतः पुण्यं विघ्नेशचरितोद्भवम् ॥२२॥ नाना जनादयो विप्र श्रुत्वा खंडं ययुर्मुदा । स्वानंदं भुक्तभोगाश्च मया वक्तुं न शक्यते ॥२३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विघ्नराजखंडश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ म. पु. १२
खं. ९ अ. ३८ | पान ८८ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । वरतंतुर्मुनिश्श्रेष्ठो नानाविधतपः परः । शांतिं न तपसा लेभे ततः खेदयुतोऽभवत् ॥१॥ नश्वरं विश्वमेवं स ज्ञात्वा ब्रह्मपरोऽभवत् । तत्राऽऽजगाम पौलस्त्यो विश्रवा मुनिसत्तमः ॥२॥ तं दृष्ट्वोत्थाय विप्रेशं प्रणनाम पुपूज ह । पप्रच्छाऽऽभोज्य हर्षेण युक्तः परमपावनम् ॥३॥ वरतंतुरुवाच । त्वं साक्षाद्योगिनां वंद्यः पावनो हि समागतः । महापुण्येन ते पादपद्मं दृष्टं मया प्रभो ॥४॥ योगशांतिप्रदं ब्रूहि येन शांतो भवाम्यहम् । नश्वरं सर्वमुत्सृज्य तदर्थं लालसोऽधुना ॥५॥ विश्रवा उवाच । ब्रह्मज्ञानं विना तात न शांतिं लभते नरः । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ॥६॥ तेषां पतिं गणाधीशं ब्रह्मणस्पतिसंज्ञितम् । तं भजस्व विधानेन तदा शांतो भविष्यसि ॥७॥ विश्वं वपुः शिरो ब्रह्म गजं योगे तयोर्मतः । सिद्धिवृद्धिपतिः साक्षात् परः स्वानंदवासकृत् ॥८॥ वर्णा धूम्रायिता यत्र मनसा मुनिसत्तम । तेन धूम्राक्षरः प्रोक्तो ब्रह्मभूयप्रदायकः ॥९॥ धूम्रवर्णं गणाधीशं भज यत्नेन मानद । तस्यैव भजनं कृत्वा शांतिं प्राप्नो- ऽहमुत्तमाम् ॥१०॥ नान्यथा पूर्णशांतिं तु लभते कोऽपि निश्चितम् । वेदादिभिर्मुनींद्रैश्च वेदाद्यैः पश्य तं विभुम् ॥११॥ पुलस्त्येनोपदिष्टोऽहं नानायोगपरायणः । त्यक्त्वा ब्रह्माणि तन्निष्ठः सदाऽभूवं न संशयः ॥१२॥ एवमुक्त्वा महायोगी विश्रवाः स्वस्थलं ययौ । वरतंतुर्विचार्यैवं गणेशभजने रतः ॥१३॥ खंडं मौद्गलसंस्थं स धूम्रवर्णात्मकं परम् । जजाप नित्यमानंदात् पूज्य विघ्नेश्वरं परम् ॥१४॥ पूर्णशांतियुतो जातो योगींद्रः सर्वपारगः । गणेशकृपया नित्यमभजद्गण- नायकम् ॥१५॥ एकदा तीर्थसंस्थः स धूम्रवर्णं पुपूज ह । तस्याग्रे नित्यकं पाठं स चक्रे धौम्रवर्णकम् ॥१६॥ तत्र काकः स्थितः सोऽपि वृक्षशाखापरायणः । शूलयुक्तः स शुश्राव धूम्रवर्णचरित्रकम् ॥१७॥ सद्यश्च शूलहीनः स बभूवे हर्षसंयुतः । उड्डीय प्रययौ तस्माद् वृक्षात् स्वेच्छापरायणः ॥१८॥ अंते गणेश्वरं गत्वा ब्रह्मभूतो बभूव ह । अज्ञानश्रवणात् पुण्यं पश्य किं कथयाम्यहम् ॥१९॥ एवं नाना जनाः श्रुत्वा धूम्रवर्णचरित्रकम् । ब्रह्मीभूता बभूवुस्ते भुक्त्वा भोगान् विशेषतः ॥२०॥ तेषु किं ते महाविप्र कथ्यते तन्न शक्यते । अतः संक्षेपतः प्रोक्तं श्रवणस्य चरित्रकम् ॥२१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे धूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः ॥
यहाँ पृष्ठ का मूल पाठ (प्रतिलेखन) प्रस्तुत है:
खं. ९ अ. ३९ पान ८९
॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रह्लादो नाम विख्यातो योगी योगपरायणः । मयूरेशं समाश्रित्याऽभजत्तं भक्ति- संयुतः ॥१॥ स्वप्ने ददर्श देवेशं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं गजास्यं भक्तवत्सलम् ॥२॥ तं प्रणम्य ननर्ताऽसौ साश्रुनेत्रो महायशाः । तं जगाद मयूरेशो वरयस्व वरान् परान् ॥३॥ स तं प्रणम्य विघ्नेशमगदद्धर्षसंयुतः । योगशांतिप्रदां देहि भक्तिं तेऽतितरां प्रभो ॥४॥ तस्य तद्वचनं श्रुत्वा तं जगाद गजाननः । मौद्गले नवमं खंडं पश्य योगप्रदायकम् ॥५॥ तेन योगींद्रवंद्यस्त्वं भविष्यसि महामते । भक्तिर्मे भविता ते तु दृढा संपूर्णभावतः ॥६॥ एवमुक्तां- ऽतर्दधेऽसौ मयूरेशो महामतिम् । संजाग्रतोऽभवत् सोऽपि स्मृत्वा स्वप्नं सुविस्मितः ॥७॥ ततो मौद्गलसंस्थं स खंडं योगात्मकं परम् । पपाठाऽलिरुद्य भक्त्या स नवमं नित्यमादरात् ॥८॥ योगगीतार्थकं योगमलभत्तत्प्रसादतः । ततोऽतिहर्षसंयुक्तो- ऽभजत्तं नवधा प्रभुम् ॥९॥ क्षेत्रसंन्याससंयुक्तो नित्यं भक्तिसमन्वितः । पपाठ पाठकृत् पूर्णं नवमं मौद्गले स्थितम् ॥१०॥ कदा दैत्येंद्रमुख्यश्च बहुधा सिंधुसंज्ञितः । क्षेत्रमूर्तिं गणेशस्य खंडयामास संस्थिताम् ॥११॥ सिंधोश्च प्रतिमां तत्र स्थापितां दैत्यपैः पुरा । प्रह्लादो दुःखसंसक्तोऽभवद् दृष्ट्वा च शौनक ॥१२॥ क्षेत्रवासिजनाः सर्वे त्यक्त्वा क्षेत्रं मयूरकम् । प्रपेलुर्भयसंयुक्ता यत्र तत्र सुदुःखिनः ॥१३॥ प्रह्लादो योगिवंद्यः स क्षेत्रसंन्यासभक्तितः । उपोषणपरो भूत्वाऽतिष्ठत्त- त्रैव नित्यदा ॥१४॥ मानसीमकरोत्त्तत्र पूजां विघ्नेश्वरस्य सः । तस्योच्छिष्टं बुभोजैव मनसा भक्तिसंयुतः ॥१५॥ दृढाऽऽग्रहं तस्य दृष्ट्वा मयूरेशोऽमृतं सदा । भक्ततालुस्थं तु कृत्वा तोषयामास तेन तम् ॥१६॥ एवं बहुौ गते काले शिवपुत्रो बभूव ह । मयूरेशो वधार्थाय सिंधोर्देवर्षिभिस्तुतः ॥१७॥ स समागत्य सिंधोश्च खंडयामास मूर्तिकाम् । तत्रस्थां स्वयमेवं तु निवासमकरोत् प्रभुः ॥१८॥ दृष्ट्वा तं पूजयामास प्रह्लादो योगिनां वरः । पारणं स चकारैव हर्षनिर्भरमानसः ॥१९॥ प्रत्यक्षं गणराजस्तं प्रसन्नो वरदोऽभवत् । स वव्रे सन्निधानस्थो भजामि त्वां तथा कुरु ॥२०॥ ब्रह्मैव ब्रह्मकल्पांते मयूरेशश्चकार तम् । अन्यं सन्निधिवासस्थं गणं ब्रह्मप्रियाख्यकम् ॥२१॥ अन्यच्च शृणु विप्रेश विश्वामित्रो महामुनिः । चकार मौद्गलस्यैव भक्त्या पारायणं परम् ॥२२॥ सरठस्तत्र वृक्षस्थः शुश्रावाज्ञानभावतः । ज्वरयुक्तः कदाचिद्वै नवमं खंडमुत्तमम् ॥२३॥ सद्यो हि ज्वरहीनः स बभूवे पुण्यगौरवात् । यथेष्टं विषयान् भुक्त्वाऽंते स्वानंदगतोऽभवत् ॥२४॥
नवमखंडमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥
गणेश्वरं तत्र दृष्ट्वा ब्रह्मीभूतो बभूव ह । एवं नाना जना ब्रह्म लेभिरे खंडसंश्रवात् ॥२५॥ कति तेषु ब्रवीम्येव केन वक्तुं न शक्यते । भुक्तिमुक्तिप्रदश्चायं खंडो नवमसंज्ञितः ॥२६॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखंडमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अयं ते कथितः पूर्णः खंडो योगात्मकः परः । नवमः सर्वदः साक्षात् पूर्णयोगप्रदायकः ॥१॥ एकस्य श्रवणेनैव खंडस्यास्य महामते । संपूर्ण मुद्गलस्थं यत् फलं प्राप्नोति मानवः ॥२॥ न शक्यते मया विप्र माहात्म्यं खंडसंभवम् । यत्र योगपतिः पूर्णो वर्णितो गणनायकः ॥३॥ चतुर्वेदभवं पुण्यं श्रवणेन भविष्यति । सांगैः साधनकैश्चास्य खंडस्यात्र न संशयः ॥४॥ अष्टादश पुराणान्युपपुराणानि यस्तथा । शृणुयात् स नरस्तस्मादनंतं त्वस्य संश्रवात् ॥५॥ शब्दब्रह्ममयान्नाना शास्त्राणि निःसृतानि तु । तेषां श्रवणतो जंतुरस्यानंतं फलं लभेत् ॥६॥ तीर्थानि सकलान्येव यः कुर्याद्विधिसंयुतः । तेभ्योऽनंतगुणं पुण्यमस्य श्रवणतो लभेत् ॥७॥ क्षेत्राणि विविधान्येव यः कुर्याद्भक्ति- संयुतः । तेभ्योऽस्य श्रवणेनैव लभेतासंख्यकं फलम् ॥८॥ दानानि विविधान्येव यः कुर्यान् मानवोत्तमः । अस्य श्रवण- मात्रेणानंतं तेभ्यः फलं लभेत् ॥९॥ यज्ञान् कुर्याच्च संपूर्णान् यथा शास्त्रप्रमाणतः । तेभ्योऽनंतं फलं प्रोक्तमस्य श्रवणमात्रतः ॥१०॥ इष्टापूर्तादिकान्येव नाना सत्कर्मकानि यः । प्रकुर्यात् स फलं तेभ्यो नरोऽनंतं लभेच्छ्रवात् ॥११॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं भवेत् । साधनं योगखंडेन योगो यत्र निरूपितः ॥१२॥ संपूर्णो योगखंडस्ते कथितो व्यासवर्णितः । अतः परं गमिष्यामि स्वाश्रमं त्वाज्ञया च ते ॥१३॥ संपूर्ण मौद्गलं तुभ्यं कथितं सर्वसिद्धिदम् । अतः परं पुराणं च नास्ति शौनक ते नमः ॥१४॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखंडमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पुराणेषु महाभाग संशयैर्विविधैः परैः । प्राप्तैस्तैः संयुक्तोऽहं च संस्थितः खेदसंयुक्तः ॥१॥ अन्यस्यैव पुराणस्य संशयाः श्रवणेन मे । गमिष्यंति महाबुद्धे विचार्यैवं स्थितोऽभवम् ॥२॥ अंत्यं मौद्गलं श्रुत्वा संशया मे गताः पुरा । निःसंशयः कृतः सूत त्वयाऽहं नात्र संशयः ॥३॥ एको मे संशयश्चैव हृदि तिष्ठति तं नुद । गच्छ पश्चान्निजं स्थानं धन्यं मां कुरु शांतिद ॥४॥ गणेशस्य रहस्यं यज्ज्ञातं व्यासेन धीमता । सर्वातिगं मौद्गलस्थं महच्चित्रं परात्परम् ॥५॥ ततो व्यासेन शास्त्रं तत् कृतं भारतकं परम् । धर्माधर्मव्यवस्थानं ब्रह्मसायुज्यदायकम् ॥६॥ तत्राऽऽदौ गणनांथस्य पूजनं स्मरणं कृतम् । पश्चाद्गणेश्वरस्यैव वर्णनं न कृतं किल ॥७॥ संपूर्णे भारते जाते कृतकृत्यो महामुनिः । अभवन्नात्र संदेहः किमिदं कौतुकं वद ॥८॥ शौनकस्य वचः श्रुत्वा सूतः सस्मार तं गुरुम् । तत्क्षणात्तत्र योगीशोऽभवत् व्यासः समागतः ॥९॥ तं दृष्ट्वा हर्षसंयुक्ताः सूतशौनकमुख्यकाः । उत्थायाऽऽपूज्य ते नेमुः स्थाप्य प्रांजलयोऽभवन् ॥१०॥ ततः समीपे संस्थाप्य जगाद मुनिसत्तमः । व्यासः शौनकमुख्यांस्तु ज्ञात्वा सूतप्रयोजनम् ॥११॥ व्यास उवाच । मया शास्त्रं कृतं विप्र भारतं नात्र संशयः । तत्रार्थं बुद्धिगः साक्षाद्वर्णितो ब्रह्मसंज्ञितः ॥१२॥ सिद्धिदो ब्रह्मरूपोऽयं मुख्यं तदेव संमतम् । विर्कुठादय एवं वै नाशयुक्ताः प्रकीर्तिताः ॥१३॥ सिद्धिवुद्धिवरेणैव मोहितोऽहं न संशयः । गणेशं सर्वभावेन वर्णितुं विस्मृतोऽभवम् ॥१४॥ अन्यं ग्रंथं ततः कर्तुमुद्यतो ह्यभवं मुने । तत्राऽऽकाशभवा वाणी मामुवाच शृणुष्व तत् ॥१५॥ गणेशवर्णनं पूर्णं प्रशस्तं मा कुरुष्व वै । मोहनार्थं गणेशेन जनानां रचितं त्विदम् ॥१६॥ मुद्गलं मुनिमुख्यं च त्यक्त्वा सर्वे मुनींद्राः । स्पष्टं गणपते रूपं वर्णितुं न क्षमाः कदा ॥१७॥ श्रुत्वाऽहं तां नमस्कृत्य संस्थितो मौद्गले रतः । अतः संशयहीनस्त्वं मौद्गलं भज भक्तितः ॥१८॥ पुराणेषु गणेशस्य स्वरूपं वर्णितं परम् । ब्रह्मणस्पतिबोधस्य दायकं नात्र संशयः ॥१९॥ तथापि मोहिताः सर्वे विप्राद्या न गजाननम् । जानंति तादृशं तेषु सिद्धिवुद्धिवरेण ते ॥२०॥ गणेश- वरदानेन भक्त्यै मौद्गलकं परम् । दृष्ट्वा गणेश्वरं पूर्णं ज्ञास्यंते नान्यथा क्वचित् ॥२१॥ अतो मौद्गलमेकं त्वं भज वै नित्यमादरात् । कलिदोषेण हीनः सन् सर्वं च लभसे परम् ॥२२॥ एवमुक्त्वा महायोगी व्यासस्तत्र महामतिः । विरराम च तत्रैव धूम्रवर्णः समाययौ ॥२३॥ तं दृष्ट्वोत्थाय नेमुस्ते गणेशं भक्तिसंयुताः । संपूज्य तुष्टुवुस्ते वै गाणेशै- र्गणपप्रियैः ॥२४॥ धूम्रवर्णः संजगाद तुष्टस्तान् हास्यसंयुतः । स्वभक्तान् गणनांथस्तु वचनं सुखदायकम् ॥२५॥
धूम्रवर्ण उवाच । कलेः पराक्रमः सर्वो मया संपूर्णभावतः । खंडितो मुनिमुख्याश्चाऽधुना चरत निर्भयाः ॥२६॥ एवमुक्त्वा गणाधीशस्तान् गृह्य धरणीतले । स्थापयामास धर्मेण युक्तांश्चक्रे स मानवान् ॥२७॥ जगाद मुनिमुख्यांस्तान् मौद्गलं मे रहस्यदम् । जपध्वं नित्यमानंदात्तेनाऽहं वशगो भवे ॥२८॥ नानेन सदृशं किंचित् प्रियं चोपनिषत् परम् । यत्राऽहं पंचधा संस्थो योगाकारस्वरूपधृक् ॥२९॥ पंचधा मे स्वरूपं तु मौद्गलेन प्रकाश्यते । श्रवणेन पुराणस्य पठनेन तदर्थतः ॥३०॥ मौद्गलं यत्र विप्रेशाः पठ्यते श्रूयते जनैः । तत्राऽहं संस्थितः सर्वैर्भक्तिग्रहणलोलुपः ॥३१॥ ब्राह्मे बुद्धि- स्थितं रूपं वर्णितं मे तदंशतः । तत्राऽहं संस्थितश्चैव निर्गुणाकृतिलक्षणः ॥३२॥ ब्रह्मांडे प्रणवाकारो नानाखेलसमन्वितः । विश्वाकारप्रभावेणांऽशेन तत्र स्थितो मुदा ॥३३॥ गाणेशे मूर्तिगोऽहं तु तयोर्ज्ञानप्रकाशकः । गजवक्त्रादिचिह्नैः संयुक्त- स्तिष्ठामि सर्वदा ॥३४॥ अन्येषु च पुराणेषु शिवविष्णुवादिरूपधृक् । संस्थितस्तत्कलांशेन नानाभेदविहारतः ॥३५॥ मौद्गले योगरूपोऽहं तिष्ठाम्युपनिषद्व्रतः । सर्वेषां मे स्वरूपाणां योगस्तत्र प्रकीर्तितः ॥३६॥ तेषां प्रकाशकं पूर्णं तथा योगप्रकाशकम् । मौद्गलं मे प्रियं तस्मात्तत् समं नैव विद्यते ॥३७॥ भक्त्या संप्रार्थितोऽहं तु सृष्ट्याऽऽदौ मुनिसत्तमाः । तदा मया वरो दत्तो भक्त्यै भक्तिविवर्धनः ॥३८॥ तदर्थं मौद्गलं पूर्णं रचितं च मया पुरा । मुद्गलस्य हृदि क्षिप्तं सर्व- सौख्यप्रदायकम् ॥३९॥ मयाऽसौ प्रेरितो योगी परं दक्षाय मौद्गलम् । कथयामास संपूर्णं पुराणं मे मुदाकृती ॥४०॥ ततः शिवादिभिर्देवैर्मरीचादिमहर्षिभिः । शेषादिभिर्नरैः सर्वैः सेव्यते मे पुराणकम् ॥४१॥ न मौद्गलं विना विप्राः स्वरूपं मे यथार्थतः । ज्ञायते केनचित् कापि पूर्णं सर्वप्रकाशकम् ॥४२॥ अन्यत्र मे स्वरूपं तु वर्णितं पूर्णभावतः । तत्र मोहो भवेन्नूनं सिद्धिबुद्धिकृतः परः ॥४३॥ सृष्ट्याऽऽदौ सिद्धिबुद्धिभ्यां प्रार्थितोऽहं विशेषतः । जगतां मोहनार्थं च ब्रह्मणां खेलकारणात् ॥४४॥ तदा मया वरो दत्तो मौद्गलं त्यज्य मां कदा । ज्ञास्यंति न च विश्वानि तेषु ब्रह्माणि संस्थितम् ॥४५॥ अतो मां मौद्गले संस्थं भजध्वं त्वेकचेतसः । तेन मे भक्तिसंयुक्ताश्चरिष्यथ निरंतरम् ॥४६॥ नानेन सदृशं किंचिन् मत्प्राप्तौ साधनं परम् । सर्वसिद्ध्यर्थमेवं तु ज्ञातव्यं द्विजसत्तमाः ॥४७॥ अस्य श्रवणमात्रेण कृतकृत्यो नरो भवेत् । न शक्यते फलं वक्तुमपारत्वान् मया कदा ॥४८॥ मौद्गलश्रवणेनैव संतुष्टोऽहं महर्षयः । दास्यामि सकलाभीष्टं वृणुध्वं निर्विशंकया ॥४९॥ शौनकाद्या ऊचुः । भक्तिं देहि त्वदीयां नौ योगं शांतिप्रदायकम् । यद्यदिच्छामहे नाथ तत्तत् सिद्ध्यतु सर्वदा ॥५०॥
खं. ९ अ. ४१ पान ९३ 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 गाणपत्यांश्च नःसर्वान् कुरु त्वं सर्वदा परान् । इमान् वरान् गुणाध्यक्ष प्रार्थितान् देव देहि नः ॥५१॥ तथेति तानथोक्त्वाऽसौ गणेशो ब्रह्मनायकः । व्यासादींश्च जगादाऽसौ वृणुध्वं वाञ्छितान् वरान् ॥५२॥ तैस्तथैव गणाध्यक्षः प्रार्थितो गणपप्रियैः । तथेति तानथोक्त्वा च सूतमूचे च विघ्नपः ॥५३॥ वरान् ब्रूहि महाभाग त्वया संश्रावितं परम् । द्विजेभ्यस्तेन संतुष्टो दास्यामि स तथाऽब्रवीत् ॥५४॥ तथेति तमथोक्त्वाऽसौ धूम्रवर्णो गजाननः । अंतर्धाय स्वमात्मानं स्वानंदस्थो बभूव ह ॥५५॥ सर्वे संतुष्टचित्तास्ते स्वं स्वं स्थानं ययुस्ततः । मौद्गलं तत् समाश्रित्य गणेशमभजन् परम् ॥५६॥ इमां मुद्गलजां श्लोकैः संहितां वेदबृंहिताम् । त्रयोविंशतिसाहस्रैः सार्धैकशतसंयुतैः ॥५७॥ अष्टाविंशत्यधिकैश्च अध्यायैश्च चतुः शतैः । खंडैश्च नवभिः पूर्णां सर्वसिद्धिमयींचिताम् ॥५८॥ मुद्गलः कथयामास सर्वेषां हितकारणात् । शब्दब्रह्म- रहस्याख्यां साक्षाद्ब्रह्मप्रदायिनीम् ॥५९॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥
॥ श्रीगजाननार्पणमस्तु ॥
॥ वक्रतुंडाद्यष्टमूर्तिधरः गणेशः प्रसन्नो वरदो भवतु ॥
॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥
॥ इति श्रीमुद्गलपुराणे नवमः खंडः समाप्तः ॥