मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 914, कुल 1023 में से
संदर्भ में पढ़ेंखं ८ अ. ४५ पान १०५ भज विघ्नेश्वरं तेन योगिवंद्यो भविष्यसि ॥५०॥ एवमुक्त्वा ददौ मह्यं मंत्रं गणपतेः परम् । षडक्षरं विधानेन पुत्र सर्वार्थ- दायकम् ॥५१॥ तं प्रणम्य महाभागमपृच्छं विनयान्वितः । योगप्राप्त्यर्थमत्यंतं वचनं संशयात्मकम् ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते जरत्कारुमंत्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ जरत्कारुरुवाच । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः । अन्नप्राणादिभेदैश्च संयुक्तं क्रमसिद्धये ॥१॥ मनोमयं ब्रह्म तेषु मनः कोशप्रकाशकम् । न मुख्यं तन् महाभाग सूक्ष्मं स्वप्रविकारजम् ॥२॥ मनोबुद्धिरहंकार- श्चित्तं चतुर्विधं परम् । अंतःकरणमित्युक्तं शास्त्रेषु मुनिसत्तमैः ॥३॥ चित्तमत्र समाख्यातं तत्र चिंतामणिः स्थितः । चित्तप्रकाशकत्वाद्वै मनो ब्रह्म कलात्मकः ॥४॥ प्राणो मनश्च विज्ञानं त्रिविधं खप्रमुच्यते । तेष्वेकदेशतः सोऽपि ब्रह्माकारो गजाननः ॥५॥ कथं शांतिप्रदं तत्त्वं वदसि ब्रह्मणस्पतिम् । वेदेषु कथितं विप्र कथं तन्नैव बुध्यते ॥६॥ कौंडिन्य उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषां हितकारकम् । कथयामि महाप्रीत्या प्रणम्य गणनायकम् ॥७॥ सांख्ययोगादिभेदैस्तैर्मागर्या नानाविधाः स्मृताः । पदार्थशोधनार्थं ते ज्ञातव्या वेदवादतः ॥८॥ अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः । तत्र चित्तं समाख्यातमंतःकरणगं परम् ॥९॥ एकभागाश्रितं चित्तं मनो ब्रह्मणि संस्थितम् । पदार्थशोधनाख्ये तद्द्विधौ जानीहि मानद ॥१०॥ कुत्र वेदविवादेषु मनसः परमा मता । बुद्धिस्तस्याः परं ब्रह्म शांतिदं सर्वसंमतम् ॥११॥ अंतःकरणगा बुद्धिरेकदेशप्रभावतः । न मुख्या सा समाख्याता तद्गूचित्तं मतं बुधैः ॥१२॥ अत्रान्यं बोधदं मार्गं वदामि वेदगं परम् । समाहितमना विप्र शृणु संशयनाशनम् ॥१३॥ देहः क्रियात्मकः प्रोक्तो मनो बोधात्मकं मतम् । तयोर्योगे स्वयं बुद्धि- र्मोहदा द्वंद्वधारिका ॥१४॥ गणेशोपासनेनैव द्वंद्वदुःखहरा भवेत् । ब्रह्माकारात्मयोगेन बुद्धिर्बुद्धिमतां परा ॥१५॥ ततः परं स्वयं लीना जायते गणपे परे । तदा शांतियुतो जंतुर्ब्रह्मभूतो भवेत् स्वयम् ॥१६॥ अहं गणेशरूपश्चेत्तदा मे देहजो भ्रमः । कुत्र मनोमयो मोहो विवेकदायकः परः ॥१७॥ तयोर्योगे योगमयः कुत्र मे संभवेद्भ्रमः । द्वंद्वभावयुतः सोऽपि