मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं ८ अ. ४५ पान १०५ भज विघ्नेश्वरं तेन योगिवंद्यो भविष्यसि ॥५०॥ एवमुक्त्वा ददौ मह्यं मंत्रं गणपतेः परम् । षडक्षरं विधानेन पुत्र सर्वार्थ- दायकम् ॥५१॥ तं प्रणम्य महाभागमपृच्छं विनयान्वितः । योगप्राप्त्यर्थमत्यंतं वचनं संशयात्मकम् ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते जरत्कारुमंत्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ जरत्कारुरुवाच । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः । अन्नप्राणादिभेदैश्च संयुक्तं क्रमसिद्धये ॥१॥ मनोमयं ब्रह्म तेषु मनः कोशप्रकाशकम् । न मुख्यं तन् महाभाग सूक्ष्मं स्वप्रविकारजम् ॥२॥ मनोबुद्धिरहंकार- श्चित्तं चतुर्विधं परम् । अंतःकरणमित्युक्तं शास्त्रेषु मुनिसत्तमैः ॥३॥ चित्तमत्र समाख्यातं तत्र चिंतामणिः स्थितः । चित्तप्रकाशकत्वाद्वै मनो ब्रह्म कलात्मकः ॥४॥ प्राणो मनश्च विज्ञानं त्रिविधं खप्रमुच्यते । तेष्वेकदेशतः सोऽपि ब्रह्माकारो गजाननः ॥५॥ कथं शांतिप्रदं तत्त्वं वदसि ब्रह्मणस्पतिम् । वेदेषु कथितं विप्र कथं तन्नैव बुध्यते ॥६॥ कौंडिन्य उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषां हितकारकम् । कथयामि महाप्रीत्या प्रणम्य गणनायकम् ॥७॥ सांख्ययोगादिभेदैस्तैर्मागर्या नानाविधाः स्मृताः । पदार्थशोधनार्थं ते ज्ञातव्या वेदवादतः ॥८॥ अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः । तत्र चित्तं समाख्यातमंतःकरणगं परम् ॥९॥ एकभागाश्रितं चित्तं मनो ब्रह्मणि संस्थितम् । पदार्थशोधनाख्ये तद्द्विधौ जानीहि मानद ॥१०॥ कुत्र वेदविवादेषु मनसः परमा मता । बुद्धिस्तस्याः परं ब्रह्म शांतिदं सर्वसंमतम् ॥११॥ अंतःकरणगा बुद्धिरेकदेशप्रभावतः । न मुख्या सा समाख्याता तद्गूचित्तं मतं बुधैः ॥१२॥ अत्रान्यं बोधदं मार्गं वदामि वेदगं परम् । समाहितमना विप्र शृणु संशयनाशनम् ॥१३॥ देहः क्रियात्मकः प्रोक्तो मनो बोधात्मकं मतम् । तयोर्योगे स्वयं बुद्धि- र्मोहदा द्वंद्वधारिका ॥१४॥ गणेशोपासनेनैव द्वंद्वदुःखहरा भवेत् । ब्रह्माकारात्मयोगेन बुद्धिर्बुद्धिमतां परा ॥१५॥ ततः परं स्वयं लीना जायते गणपे परे । तदा शांतियुतो जंतुर्ब्रह्मभूतो भवेत् स्वयम् ॥१६॥ अहं गणेशरूपश्चेत्तदा मे देहजो भ्रमः । कुत्र मनोमयो मोहो विवेकदायकः परः ॥१७॥ तयोर्योगे योगमयः कुत्र मे संभवेद्भ्रमः । द्वंद्वभावयुतः सोऽपि
खं. ८ अ. ४५ पान १०६ द्वंद्वसंर्वजितः स्मृतः ॥१८॥ एवं ज्ञात्वा महायोगी शांतिं संलभते पराम् । गणेशो गणनाथोऽयं भवते मुनिसत्तम ॥१९॥ अनेन विधिना विद्धि चित्तं बुद्धिमयं परम् । तत्र चिंतामणिं ज्ञात्वा ब्रह्मभूतो नरो भवेत् ॥२०॥ अन्यच्च शृणु विप्रेश मनो विवेकधारकम् । विवेकादभिमानश्चोत्पद्यते विविधेषु वै ॥२१॥ अतो बुधैरहंकारो मनोमय उदाहृतः । कथितं वेद- वादेषु मता बुद्धिर्रमनः परा ॥२२॥ बुद्धिर्ज्ञानात्मिका प्रोक्ता सैव द्वेधाऽभवन् मुदा । जडा देहे क्रियामूला चैतन्यदा मनोमयी ॥२३॥ वृद्धिक्षयादिकं ज्ञानं सदा देहे प्रतिष्ठितम् । तदेव बुद्धिर्जं विद्धि जरत्कारो सुयोगतः ॥२४॥ देहात्मनि विवेकाख्यं ज्ञानं मनसि संस्थितम् । बुद्धिर्जं क्षयवृद्ध्यादिहीनं चैतन्यधारकम् ॥२५॥ तयोर्योगे स्वयं बुद्धिर्ज्ञानरूपा ययोः परा । ब्रह्माहमिति शब्दारूया मनोवाणीविवर्जिता ॥२६॥ बुद्धिरूपं महच्चित्तं जानीहि तत्स्वरूपकम् । कथया- म्यधुना प्रीत्या सर्वसंशयनाशनम् ॥२७॥ चित्तं प्रकाशकं प्रोक्तं प्रकाशो बुद्धिगो मतः । अतः चिंतामणिः प्रोक्तो बुद्धीशो गणनायकः ॥२८॥ चित्तं पंचविधं प्रोक्तं क्षिप्तं मूढं महामुने । विक्षिप्तं मुनिभिर्मुख्यैरेकाग्रं च निरोधकम् ॥२९॥ देहदेहिमयं चित्तमेकाग्रं शास्त्रसंमतम् । मनः खभ्रमयं ब्रह्म देहरूपं विचारय ॥३०॥ अतो मनोमयं चित्तं मा जानीहि महत्परम् । प्रकाशकारकं चित्तं सर्वशास्त्रेषु संमतम् ॥३१॥ संयोगाऽयोगगं चित्तं निरोधवाचकं मतम् । नानाब्रह्माणि चैकाग्रनिरोध- मयगानि तु ॥३२॥ देहदेहिप्रकाशत्वादेकाग्रं चित्तमुच्यते । संयोगायोगकाशत्वान्निरोधं चित्तमंजसा ॥३३॥ इति सर्वं समाख्यातं भज त्वं गणनायकम् । तेन योगींद्रवंद्यो वै भविष्यसि सुशांतिगः ॥३४॥ जरत्कारुरुवाच । एवमुक्त्वा महायोगी कौंडिण्यो विरराम ह । जरत्कारुः प्रणम्यैवागमं तं हर्षसंयुतः ॥३५॥ साधयित्वा महायोगं गाणपत्योऽभवं सुत । गणनायं त्वमपि तं भज शांत्यर्थमादरात् ॥३६॥ सूत उवाच । एवमुक्त्वा महायोगी जरत्कारुर्महामुने । विरराम पुनस्तं चास्तीक ऊचे विशेषवित् ॥३७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते जरत्कारुयोगप्राप्तिवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥
शीर्षक (Header): खं. ८ अ. ४६ | पान १०७
॥ श्रीगणेशाय नमः ॥ आस्तीक उवाच । बाल्यात्प्रभृति शैवोऽहं पितस्तं त्यज्य विघ्नपम् । कथं भजामि विप्रेश अतः शैवं वदस्व माम् ॥१॥ जरत्कारुरुवाच । त्यक्त्वा गणेशं शांतिस्थो न कोऽपि सुत संभवेत् । गणेशानं शंभुमुखा ध्यात्वा शांतियुता बभुः ॥२॥ शिवविष्णुवादि भावेषु ब्रह्मशब्दः प्रकीर्तितः । एकांशेन गणेशस्य वेदेषु वेदवादिभिः ॥३॥ तेषु योगं समाराध्य शांतिं प्राप्ताः सुयोगिनः । सा शांतिः स्वल्पभावाख्या न मुख्या योगिनां मते ॥४॥ शांतिभ्यः शांतिदः प्रोक्तो गणेशो ब्रह्मणस्पतिः । तं भजस्व विधानेन तदा शांतिमवाप्स्यसि ॥५॥ गणेशो मायया युक्तः पंचधा परिकीर्तितः । पंचभेदविहीनः स निर्मायिक उदाहृतः ॥६॥ मायायुक्तविहीनत्वं भ्रांतिमात्रं प्रकीर्तितम् । तयोर्योगे गणेशानः शांतिरूपो न संशयः ॥७॥ अतो गणेशरूपाद्वै शिवो भिन्नः प्रकीर्तितः । त्यजाज्ञानभवं दुःखंभेदं गणपं भज ॥८॥ अत्र ते कथयिष्यामि संवादं शंकरस्य च । उपमन्योर्महाभाग सर्वशांतिप्रदायकम् ॥९॥ महापाशुपतो विप्र उपमन्युर्महायशाः । सहजं शांकरं ब्रह्म ज्ञात्वा खेदयुतोऽभवत् ॥१०॥ जगाम शंकरं विप्रस्तं प्रणम्य पुपूज ह । स्तुत्वा नम्य जगादाथ कृतांजलिर्महामुनिः ॥११॥ उपमन्युरुवाच । सहजं शांकरं ब्रह्म स्वाधीनं दोषसंयुतम् । स्वाधीनं च पराधीनं नैव ब्रह्मणि विद्यते ॥१२॥ ब्रह्मभूयकरं योगं वद शैव सदाशिव । येनाहं शिवतां प्राप्य शांतिस्थस्तं भजे सदा ॥१३॥ इति तस्य वचः श्रुत्वा हर्षयुक्तः सदाशिवः । उवाच तं महाभागं योगं गाणेशसंज्ञकम् ॥१४॥ शिव उवाच । एकदा काशीसंस्थं मामुवाच मुनिसत्तमः । जैगीषव्यो यथा त्वं वै तथा पाशुपताग्रणीः ॥१५॥ जैगीषव्य उवाच । शिवः सहजसंज्ञस्थो ब्रह्मणि सहजं कथम् । अतः शैवं परं योगं वद मे शांतिदायकम् ॥१६॥ विश्वनाथ उवाच । गणेशं भज भावेन तदा शांतिमवाप्स्यसि । ढुंढयित्वा मया योगात् हृत्तो ढुंढिः हृदि स्थितः ॥१७॥ मम श्रुत्वा वचो रम्यं दुःखितो मामुवाच ह । जैगीषव्यो वचो विप्र तदहं कथयामि ते ॥१८॥ जैगीषव्य उवाच । त्यक्त्वा विश्वेश्वरं देवं भजाम्यन्यं न विश्वप । अशांतिशांतिदो वाऽपि शिवो मे परमा गतिः ॥१९॥ विश्वनाथ उवाच । असच्छक्तिश्च सद्द्वानुः समो हरिरहं शिवः । अव्यक्तश्च चतुर्णां वै योगे स्वानंद उच्यते ॥२०॥ स एव गणनाथोऽयं मायया पंचधा बभौ । मायाहीनो ह्ययोगाख्यः पंचभिर्वर्जितो मतः ॥२१॥ तयोर्योगे गणाधीशः शांतिदः पूर्णवाचकः । अतोऽयं ब्रह्मणां नाथो वयं ब्रह्मप्रवाचकाः ॥२२॥ खेलनाङ्गणनाथोऽयमस्मद्रूपधरोऽभवत् । कलया तत्र किं भिन्नं मन्यसे मुनिसत्तम ॥२३॥ भेदबुद्धिं परित्यज्य भज विघ्नेशमादरात् । न भिन्नः शंकरस्तस्मात्तद्रूपं तं विभावय ॥२४॥
पान १०८ एवमुक्त्वाददत्तस्मै मंत्रमेकाक्षरं ततः। सविधिं गणनाथस्य ततो ध्यानप्रसिद्धये ॥२५॥ साधयित्वा यथान्यायं योगं गाणेशसंज्ञितम् । ततो यज्ञं समारेभे ब्राह्मणस्पत्यसंज्ञकम् ॥२६॥ कृत्वा यज्ञं मुदायुक्तो द्विजान्नत्वा विसृज्य सः। संस्थित- स्तत्र विघ्नेशः प्रययौ वरदायकः ॥२७॥ तं दृष्ट्वा सहसोत्थाय प्रणामं पुपूज ह । पुनः प्रणम्य तुष्टाव यजुःस्तोत्रेण विघ्नपम् ॥२८॥ योगशांतिं प्रदत्त्वाऽसौ जैगीषव्याय धीमते । आचार्यतां तु योगस्य स्वयमंतर्दधे विभुः ॥२९॥ ततो गुरुं शिवं सोऽपि ढुंढिराजं तु दैवतम् । गाणपत्यस्वभावेनाभजत्काशीस्थितो मुनिः ॥३०॥ अतस्त्वं गणनांथं तं भज शांति- प्रसिद्धये । शांतिभ्यः शांतिदः प्रोक्तः सर्वेषां योगधारकः ॥३१॥ जरत्कारुरुवाच । एवमुक्त्वा ददौ तस्मै संत्रमेकाक्षरं परम् । विधियुक्तं गणेशस्य स्वशिष्यायोपमन्यवे ॥३२॥ तं प्रणम्य ययौ सोऽपि मंत्रध्यानपरोऽभवत् । इष्टिं कृत्वा गणेशस्य शांतिरूपो बभूव ह ॥३३॥ गणराजस्तुतमपि ययौ भक्तं महामुनिम् । दत्वा शांतिं स्तुतस्तेनाऽंतर्दधे ब्रह्मनायकः ॥३४॥ अतस्त्वं संशयं त्यक्त्वा भज विघ्नपतिं सुत । व्यभिचारो न ते भावी शांतियुक्तो भविष्यसि ॥३५॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै स्वमंत्रं तु षडक्षरम् । विधियुक्तं गणेशस्यास्तीकाय मुनिसत्तमः ॥३६॥ आस्तीकः साधयामास ध्यात्वा हृदि गजाननम् । इष्टिं कृत्वा गणेशस्य शांतियुक्तो बभूव ह ॥३७॥ गाणपत्यप्रियोऽत्यंतं मातरं स जगाम ह। उपदिश्य गणेशानं शांतियुक्तां चकार ताम् ॥३८॥ अतो गणपतिं नित्यमभजत् प्रीतिसंयुतः । अंते गाणेश्वरे धाम्नि ब्रह्मैव स बभूव ह ॥३९॥ एतत्त्वे कथितं सर्वं ब्राह्मणस्पत्ययज्ञजम् । माहात्म्यं गाणपत्यानां प्रियं संक्षेपतो मया ॥४०॥ यः शृणोति नरो भक्त्या पठते तस्य सिद्धिदम् । भविष्यति न संदेहो भुक्तिमुक्तिप्रदायकम् ॥४१॥ ब्राह्मणस्पत्ययज्ञस्थं पुण्यं स लभते परम् । अंते स्वानंदगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥४२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥
खं. ८ अ. ४७ पान १०९ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं दशहरा देवी दशमी चाश्विनेऽभवत् । कथं तत्र शमीपूजां कुर्वंति देवतादयः ॥१॥ सूत उवाच । शंखं हत्वा महावीरं विष्णुः परपुरंजयः । ददौ वेदान् विधात्रे स सांगोपांगसमन्वितान् ॥२॥ तान् दृष्ट्वा हर्षितो ब्रह्मा सस्मार गणनायकम् । ततो गणेश्वरं वेदा ययुः सृष्टाश्च तेन ये ॥३॥ पुरा कपिलरूपेण कर्मसिद्ध्यर्थनिर्मिताः । हृतेषु वेदशास्त्रेषु शंखेन पापरूपिणा ॥४॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा तुष्टाव विघ्नपम् । प्रार्थयामास वेदानां निर्विघ्नार्थं महामुने ॥५॥ ततस्तं प्रत्युवाचैवाकाशवाणी महाद्भुता । सर्वैर्विधे शमीं पूज्य विघ्नहीनो भविष्यसि ॥६॥ या शमी स गणेशानो न भेदस्तत्र वर्तते । अद्यैव तां महाभाग पूजयस्व विधानतः ॥७॥ ततो वेदान् समास्पृश्य प्रशस्तान् कुरु मानद । एवमुक्त्वा खवाणीस्थो विरराम गजाननः ॥८॥ श्रुत्वाऽतिहर्षितो ब्रह्मा वेदेंदैवैः सहेश्वरैः । मुनिभिस्तां प्रपूज्यैव वेदान् शस्तांन् चकार ह ॥९॥ यस्मिन् काले महाविप्र पूजिता विधिना शमी । आश्विनी दशमी तत्र सायाह्ने सा बभूव ह ॥१०॥ ततो दशहरा जाता सा शमीसंयुता तिथिः । तदर्थं शृणु भावेन सर्वकार्येषु सिद्धिदाम् ॥११॥ दश दिक्षु स्थितान्येव भूतानि भयदानि च । कार्यध्वंसं प्रकुर्वंति क्रूराणि प्रबलानि च ॥१२॥ दशमी हंति सा तानि शमी पूजाबलेन वै । अतो दशहरा प्रोक्ता सर्वकार्यप्रसिद्धये ॥१३॥ शमीपूजाविधिं कृत्वा सायाह्ने तानलोकयत् । सांगोपांगयुतान् वेदांस्ततः सर्वानुपदिशत् ॥१४॥ नानाकार्यप्रसिद्ध्यर्थं दशम्यां शमीपूजनम् । शुक्लाश्विन्यां च सायाह्ने कर्तव्यं सर्वजंतुभिः ॥१५॥ तेन विघ्नविहीनास्ते दशदिक्षु भ्रमंति चेत् । सर्वसिद्धियुताः सर्वे भवंति नात्र संशयः ॥१६॥ दशदिक्षु स्थितान् हंति विघ्नान् दशहरा मता । अद्य प्रभृति देवेशा मुनयो वार्षिकी भवा ॥१७॥ पूजयिष्यंति देवेशा शमीं कार्यप्रवर्धिनीम् । वार्षिकं दुःखमुत्सृज्य स्थास्यंति सुखभोगिनः ॥१८॥ पूजयित्वा शमीं विप्रा वेदान् ये पुस्तकस्थितान् । पठिष्यंति पुराणादींस्तेषां ज्ञानं भविष्यति ॥१९॥ न यो दशहरायां तु शमीं पूजयते कदा । स नाना विघ्नसंयुक्तो नरकेंऽते प्रगच्छति ॥२०॥ एवमुक्त्वा स्वयं ब्रह्मा जगाम वेदसंयुतः । स्वलोकं शंकराद्याश्च जग्मुर्विप्राः सुरा मुने ॥२१॥ तदादि चाश्विनी शुक्ला दशहरा बभूव ह । दशमी शमीसंयुक्ता सर्वार्थे सिद्धिदायिनी ॥२२॥ अतोऽवश्यं स्वभावेन पूजयंति शमीं नराः । देवा नागास्तथा वेदान् पठंते पाठयंत्यपि ॥२३॥ इदं सर्वं समाख्यातं चरितं शमीसंभवम् । यः शृणोति नरः सोऽपि लभते पठतीप्सितम् ॥२४॥ शौनक उवाच । किमाधारमिदं सर्वं वर्तते सूत तद्वद । कर्माधीनं वदंत्येव केचिदत्र मुनीश्वराः ॥२५॥ ईश्वराधीनमेतद्वै केचिच्चेदं यहच्छया । त्रिविधं तेषु किं सत्यं ज्ञायते न मुनीश्वरैः ॥२६॥ सूत उवाच । त्रिविधं प्रवदंत्येव मुनयो ब्रह्मवेदिनः ।
तत्सर्वं सत्यरूपं त्वं जानीहि मुनिसत्तम ॥२७॥ गणेशेन कृतं सर्वं क्रीडार्थं स्वेच्छया मुने । तत्र माया समाख्याता सिद्धि रैश्वर्यदायिनी ॥२८॥ ऐश्वर्यमोहधरा सा बुद्धिर्मायिक उच्यते । मायाभोगार्थमत्यंतमतः श्रमयुतोऽभवत् ॥२९॥ मायामायिकयोगात् स गणेशो ब्रह्मनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥३०॥ न कोऽपि तत्र विघ्नेशप्रेरकस्तत्र विद्यते । अतो यदृच्छया सर्वं वर्तते योगिनां हृदि ॥३१॥ अन्यच्च शृणु विप्रेश माया नानाभ्रमात्मिका । सा जडा सर्व- भावेन कर्तुं नैव क्षमाऽभवत् ॥३२॥ तया संमोहितोऽत्यंतं मायिकस्तां चचाल ह । तदा सत्तायुता माया खेलते विविधे रता ॥३३॥ मायिकेन धृता देवी चचाल विविधात्मिका । मायिकेच्छावशेनैव संस्थिता नाऽत्र संशयः ॥३४॥ यदा त्यक्ता महामाया मायिकेन महामुने । तदा शक्ता न किंचित् सा कर्तुं जडप्रभावतः ॥३५॥ ईश्वराधीनभावेन वर्तते सर्वमंजसा । वदंति मुनयः केचित् ध्यानमार्गपरायणाः ॥३६॥ अन्यच्च कथयिष्यामि माया कर्मस्वरूपिणी । नानाभावयुता नित्यं खेलति त्रिविधा परा ॥३७॥ कर्माकर्मविकर्माण्यचालयत् सर्वरूपिणी । स्वर्गमुक्तिमहावीचिदायिनी त्रिविधे रता ॥३८॥ यादृशं कुरुते कर्म फलं भोक्ष्यति तादृशम् । कर्माधीनमिदं सर्वं वर्तते त्रिविधं किल ॥३९॥ शुभाशुभं कृतं कर्म भोक्तव्यं नात्र संशयः । कल्पकोटिशतैर्वाऽपि कृतं कर्म न तं त्यजेत् ॥४०॥ एवं वदंति विप्रेश ब्राह्मणा देहवादिनः । धारणायां स्थितास्ते वै सत्यं शास्त्रेषु निश्चितम् ॥४१॥ अथैकभावनां वक्ष्ये त्रयाणां शृणु शौनक । गणेशमायया भ्रांता न जानंति कुयोगिनः ॥४२॥ मायामायिकरूपेण संस्थितो गणनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥४३॥ तस्येच्छया महाविप्र ईश्वरश्चैव तिष्ठति । मोहितो गणनाथेन जानाति न गजाननम् ॥४४॥ अहं श्रेष्ठः परं ब्रह्म मदाधारमिदं जगत् । मदिच्छया प्रवर्तंते जंतवो नाऽत्र संशयः ॥४५॥ यादृशी गणनाधस्येच्छा भवेत्तादृशं स्वयम् । करोतीश्वर आनंदाततो भेदो न दृश्यते ॥४६॥ कर्मरूपा महामाया गणेशेच्छासमन्विता । चलते तं न जानाति मोहिता भ्रांतिसंयुता ॥४७॥ अहं श्रेष्ठा न संदेहो मदाधारमिदं जगत् । सकलं कर्मभावेन धारयामि चराचरम् ॥४८॥ यादृशी गणनाधस्येच्छा भवेत्तादृशं स्वयम् । कर्म कुर्वंति विप्रेश चराचरात्मजीविनः ॥४९॥ अतस्त्रिविधकं विप्र एकलक्ष्याश्रितं मतम् । एवं बाधविहीनं तन्त्रिधा सं वर्तते सदा ॥५०॥ मायावादिन एवं तत् कर्माधीनं वदंति हि । अद्वैतवादिनः सर्वे ईश्वराधीनगं तथा ॥५१॥ योगिनः प्रवदंत्येत- द्यदृच्छाधीनगं जगत् । एवं सत्यं प्रमाणेन त्रिविधं मुनिसत्तम ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥
खं. ८ अ. ४८ | पान १११
॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रसङ्गाच्छृणु मासानां चरितं गणपे रतम् । द्वादशानां सुसंक्षेपात् सर्वसिद्धिप्रदायकम् ॥१॥ श्रावणे पंचकं सेव्य गागेशं वरुणः स्वयम् । दिगीशत्वं समालेभे ज्ञानं गाणेशसंभवम् ॥२॥ स्वयं भाद्रपदे वायुस्तथा सेव्य मयूरपम् । योगं लेभे दिगीशत्वं गाणपत्योऽभवत् प्रभुः ॥३॥ आश्विने देवगंधर्वाः सेव्य विघ्नेश्वरं पुरा । स्वस्यैश्वर्यसमायुक्ता बभूवुस्ते महामुने ॥४॥ कार्तिके वक्रतुंडं तु सेव्य विद्याधरास्तथा । स्वस्वव्यापारसंयुक्ता बभूवुर्ज्ञान- धारकाः ॥५॥ विकटं मार्गशीर्षे चादित्याः संसेव्य सर्वपाः । जातास्तेजस्विनः सर्वे ज्ञानयुक्ता महामुने ॥६॥ पौषे लंबोदरं सेव्य वसवः स्वपदाश्रिताः । बभूवुर्ज्ञानसंयुक्ता नानाभावपरायणाः ॥७॥ माघे रुद्रा गणेशानं सेव्य सर्वत्रगा बभुः । गाणपत्या महाभागाश्चरंति ह्यकुतोभयाः ॥८॥ फाल्गुने निर्ऋतिः सेव्य गणेशं दिक्पतेः पदम् । लेभेऽभिचारभावाख्यं कर्मभोगं महामतिः ॥९॥ चैत्र अप्सरसः सर्वाः सेव्य तं धूम्रवर्णकम् । नानालावण्यजं लेभुर्गानादि भगमेव च ॥१०॥ हेरंबं सेव्य वैशाखेऽभवन् यक्षजनास्तथा । स्वस्वव्यापारकुशला नानाभोगपरायणाः ॥११॥ ज्येष्ठे विनायकं नागाः सेव्य सामर्थ्यसंयुताः । बभूवुः कार्यकर्त्तारो नानाभोगपरायणाः ॥१२॥ पक्षिणः पंचकं नित्यं सेव्याऽऽषाढे गजाननम् । अभवन् भोगसंयुक्ताः स्वकार्यकुशलाः किल ॥१३॥ ढुंढिराजं तथा ढौँढे धातुभिः सेव्य पर्वताः । बभूवू रत्नजातीनां धारका भोगकारिणः ॥१४॥ वार्षिकं स्वस्वमासं ते समाश्रित्य गजाननन् । अभवन् ग्लानकर्तारो गाणेशे पंचके रताः ॥१५॥ एवं नानाजनाः सिद्धिं लेभिरे मासजेन च । व्रतेन कति ते ब्रूयां नालं वर्षायुतैरपि ॥१६॥ इदं मासभवं सर्वं माहात्म्यं कथितं मया । पठनाच्छ्रवणात् सद्यो भवते सर्वसिद्धिदम् ॥१७॥ यं यमिच्छति तं तं स लभते नाऽत्र संशयः । अंते गाणेश्वरे धाम्नि लीनः संजायते मुने ॥१८॥ इदं सर्वं समाख्यातं यद्यत् पृष्टं त्वया मुने । श्रोतुमिच्छसि किं भूयो वद तत् कथयाम्यहम् ॥१९॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥
Here is the complete and accurate line-by-line transcription of the provided image:
खं. ८ अ. ४९ | पान ११२ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । प्रकृतं वद सूत त्वं संवादं शंकरस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥१॥ नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमृचुर्योगसिद्धये ॥२॥ सूत उवाच । धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् । चरितं हृष्टरोमाणः पप्रच्छुः शंकरं द्विजाः ॥३॥ सनकाद्या ऊचुः । नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमम् । धूम्रवर्णावतारस्य संतुष्टाः स्म सदाशिव ॥४॥ अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् । विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥५॥ श्रीशिव उवाच । गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागाः शीघ्रं वै शांतिदं परम् ॥६॥ पुराऽहं गणनांथस्य ध्यानयुक्तोऽभवं द्विजाः । तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥७॥ गंगोवाच । वद शंकर कस्य त्वं ध्यानं करोषि नित्यदा । इच्छामि तमहं ज्ञातुं त्वत्तः किं परमं मतम् ॥८॥ श्रीशिव उवाच । गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् । ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥९॥ तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् । कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥१०॥ पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् । तत्र तपःप्रभावेण हृद्यपश्यं गजाननम् ॥११॥ तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये । तथा गणेश्वरं ज्ञात्वा योगिवंद्यो- ऽभवं मुदा ॥१२॥ तत्तेऽहं शृणु वक्ष्यामि गणेशहृदयं परम् । येन गाणेशयोगे त्वं निपुणा संभविष्यसि ॥१३॥ ॐ ॥ अस्य गणेशहृदयस्तोत्रमंत्रस्य । शंभुर्ऋषिः । नाना चंदांसि । गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् । श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थं जपे विनियोगः । ॐ । गमित्येकाक्षरात्मकबीजैः करन्यासाः षडंगन्यासाश्च । अथ ध्यानम् । सिंदूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं पाशं चैवांकुशं वै रदनमभयकं पाणिभिः संदधानम् । सिद्ध्या बुद्ध्या प्रशिष्टं गजवदनमहं चिंतये ह्येकदंतं नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥१४॥ एवं ध्यात्वा मानसोपचारैः पूजयेत् । किंचिन्मूलमंत्रं जप्त्वा हृदयं पठेत् ॥ ॐ गणेशमेकदंतं च चिंतामणिं विनायकम् । ढुंढिराजं मयूरेशं लंबोदरं गजाननम् ॥१५॥ हेरंबं वक्रतुंडं च ज्येष्ठराजं निजस्थितम् । आशापूरं तु वरदं विकटं धरणीधरम् ॥१६॥ सिद्धिवुद्धिपतिं वंदे ब्रह्मणस्पतिसंज्ञितम् । मांगल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥१७॥ एकविंशति नामानि गणेशस्य महात्मनः । अर्थेन संयुतान्येव हृदयं परिकीर्तितम् ॥१८॥ गंगोवाच । एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव । गणेशहृदयं येन जानामि करुणानिधे ॥१९॥ श्रीशिव उवाच । ग काररूपं विविधं चराचरं ण कारगं ब्रह्म तथा परात्परम् । तयोः स्थितास्तस्य गणाः
खं. ८ अ. ४९ | पान ११३ प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥२०॥ मायास्वरूपं तु सदैकवाचकं दंतः परो मायिकरूपधारकः । योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥२१॥ चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् । भोगैर्वि- हीनं त्वथ भोगकारं चिंतामणिं तं प्रणमामि नित्यम् ॥२२॥ विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् । निरंकुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥२३॥ वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वर- देवमानवाः। नागासुरा ब्रह्मगणाश्च जंतवो ढुंढंति वंदे त्वथ ढुंढिराजकम् ॥२४॥ मायार्थवाच्यो हि मयूरभावो नाना भ्रमार्थं प्रकरोति तेन । तस्मान् मयूरेशमथो वदंति नमामि मायापतिमासमंतात् ॥२५॥ यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्गज्जठरे स्थितानि । अनंतरूपं जठरं हि यस्य लंबोदरं तं प्रणतोऽस्मि नित्यम् ॥२६॥ जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् । तयोश्च योगे प्रवदंति सर्वे गजाननं तं प्रणमामि नित्यम् ॥२७॥ दीनार्थवाच्यस्त्वथ हेर्जगद्द्रो ब्रह्मार्थ- वाच्यो निगेमषु रंबः । तत्पालकत्वाच्च तयोः प्रयोगे हेरंबमेकं प्रणमामि नित्यम् ॥२८॥ विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपम् । तुंडं तदेवं हि तयोः प्रयोगे तं वक्रतुंडं प्रणमामि नित्यम् ॥२९॥ माता पिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न । श्रेष्ठं वदंते निगमाः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥३०॥ नाना चतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् । पूर्णस्य सा पूर्णसमाधिरूपा स्वानंदनाथं प्रणमामि चातः ॥३१॥ मनोरथान् पूरयतीह गंगे चराचराणां जगतां परेषाम् । अतो गणेशं प्रवदंति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥३२॥ वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च । अतः परं विप्रमुखा वदंति वरप्रदं तं वरदं नतोऽस्मि ॥३३॥ मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च । तस्मात् परं ब्रह्म वदंति सत्यमेनं परेशं विकटं नमामि ॥३४॥ चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गंगे । तासां सदा धारक एक एव वंदे च धरणीधरमादिभूतम् ॥३५॥ विश्वात्मिका ब्रह्ममयी हि बुद्धिस्तस्या विमोहप्रदिका च सिद्धिः । ताभ्यां सदा खेलति योगनाथस्तं सिद्धिबुद्धीशमथो नमामि ॥३६॥ असत्यसत् साम्य- तुरीयनैज्यगन्निवृत्तिरूपाणि विरच्य खेलकः । सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥३७॥ अमंगलं विश्वमिदं सहात्मभिरयोगसंयोगयुतं प्रणश्वरम् । ततः परं मंगलरूपधारकं नमामि मांगल्यपतिं सुशांतिदम् ॥३८॥ सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् । पूज्यं न तस्मान्निगमादिसंमतं तं सर्वपूज्यं
[पान १२४]
प्रणतोऽस्मि नित्यम् ॥३९॥ भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो यो निजविग्रहा च । भक्त्या विहीनाय ददाति विघ्नांस्तं विघ्नराजं प्रणमामि नित्यम् ॥४०॥ नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् । त्रिः सप्त नाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥४१॥ गंगोवाच । नाम्नां यत् हृदयं प्रोक्तं त्वया ब्रह्मपदं परम् । न तत्रानुभवो मे तु तदर्थं वद शंकर ॥४२॥ शंकर उवाच । मंत्रं गृह्य गणेशस्य पुरश्चरणमार्गतः । भज तं तेन ते ज्ञानं भविष्यति न संशयः ॥४३॥ हृदयं मंत्रराजस्य कथयामि समासतः । मंत्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥४४॥ गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः । बिंदुः शिवस्तथा भानुरनुनासिकसंज्ञितः ॥४५॥ तेषां संधिर्महाशक्तिरेभिर्मंत्रः स उच्यते । देवता गणनायस्तु तेषां संयोगकारकः ॥४६॥ तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा । अतस्तारयुतो मंत्रो गणेशैकाक्षराकृतिः ॥४७॥ तारः स षड्विधः प्रोक्तस्तं निबोध सरिद्वरे । अकारोकारकौ प्रोक्तौ मकारो नादबिंदुकौ ॥४८॥ शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहिस्वरूपं तु बिंदुर्देह इति स्मृतः ॥४९॥ ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदकारकम् । एतादृशं विजानीहि मंत्रराजं गजाननम् ॥५०॥ आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥५१॥ तद्दशांशेन होमं वै कुर्यादागममार्गतः । तद्दशांशामितं प्रोक्तं तर्पणं गणपस्य च ॥५२॥ तद्दशांशमितं देवि मार्जनं तद्दशांशतः । विप्राणां भोजनं प्रोक्तमेवं पंचांगमुच्यते ॥५३॥ यथाविधि कृतं चैतत् सद्यो हि फलदं भवेत् । अतस्त्वं मंत्रराजस्य पंचकं तत् समाचर ॥५४॥ एवमुक्त्वाऽददात्तस्यै मंत्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थतः ॥५५॥ मयूरेशं समासाद्य चकार तपमुत्तमम् । गंगा तत्रैव विप्रेशा मंत्रध्यानपरायणा ॥५६॥ पुरश्चरणमेकं सा चकार सरितां वरा । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥५७॥ तस्यैव कृपया तस्या हृदि ध्यानं बभूव ह । तेनैक- विंशतिनाम्नार्थज्ञा तत्क्षणादभूत् ॥५८॥ ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥५९॥ सनकाद्या ऊचुः । ब्रह्मभूता सरिच्छ्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥६०॥ शिव उवाच । ब्रह्मभूतो नरो योगी गणेशमभजत् सदा । नवधा भक्तिभावेन तत्परश्च महर्षयः ॥६१॥ पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्यया युतम् । स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥६२॥ सांसर्गिकं कायिकवाचिकं परं कर्माऽचरं मानसजं त्रिदेहतः । ज्ञानं हृदिस्थं च मया परात्परं विघ्नेश्वरायेति
ख. ८ अ. ४९ पान १९५ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ समर्पितं किल ॥६३॥ योगाकारेण विघ्नेश एकानेकादिसंश्रितः । भुंक्ते स विविधान् भोगान् शुभाशुभसमाश्रितान् ॥६४॥ नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः । स्वामिसेवकभावेन रतो ब्रह्मणि शोभते ॥६५॥ अनेन विधिना विप्रा भजंते गणनायकम् । योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥६६॥ एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया । हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥६७॥ यथा देहेंद्रियायेषु मुख्यं स्वहृदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥६८॥ तथा गणपतेरेतत् हृदयं परिकीर्तितम् । अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥६९॥ अनेन गणनाथं तु यस्तोष्यति नरोत्तमः । स भुक्त्वा सकलान् भोगानंते योगमयो भवेत् ॥७०॥ एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् । प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥७१॥ एकाक्षरस्य मंत्रस्य पंचकं सेव्य योगिनः । गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥७२॥ ततो नित्यं गणेशस्य हृदयं ते महर्षयः । जपंति भक्तिसंयुक्ता भ्रमंति स्वेच्छयेरिताः ॥७३॥ अतस्त्वमपि भावेन गणेशहृदयं परम् । सेवस्व गाणपत्येषु तथा मुख्यो भविष्यसि ॥७४॥ मुद्गल उवाच । एवमुक्त्वा महानागं शेषाय प्रददौ शिवः । मंत्रमेकाक्षरं सांगं स ययौ तं प्रणम्य च ॥७५॥ साधयित्वा यथान्यायं हृदयज्ञो बभूव ह । नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥७६॥ गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः । ईप्सितं प्राप्नुयादंते ब्रह्मभूतो भवेदिदम् ॥७७॥ नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः । स गणेशो न संदेहो दर्शनात् सिद्धिदो भवेत् ॥७८॥ पुत्रपौत्रकलत्रादि लभते पाठतो नरः । धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥७९॥ एकविंशतिवारं यो दिवसानेकविंशतिम् । पठेद्गणपतिं चिंत्यं स लभेदीप्सितं फलम् ॥८०॥ असाध्यं साधयेन् मर्त्यो गणेशहृदयेन यत् । राजबंधात्रिकालेषु मोचयेत् पाठतो विधे ॥८१॥ मारणोच्चाटनादीनि वश्यमोहादिकानि तु । अनेन साधयेन्मर्त्यः परकृत्यं प्रणाशयेत् ॥८२॥ संग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किंचिद् दुर्लभं भवेत् ॥८३॥ विद्यामायुर्यशः प्रज्ञामंगहीनोऽंगमाप्नुयात् । यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥८४॥ नानेन सदृशं किंचित् शीघ्रसिद्धिकरं भवेत् । साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥८५॥ गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य हृदयं वै कदाचन ॥८६॥ गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥८७॥ महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । हृदयं किं पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥८८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोनपंचाशत्तमोऽध्यायः ॥ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
[Header] खं. ८ अ. ५० पान ११६
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगिध्येयं गणेशस्य रूपं सर्वत्र संमतम् । ध्यातुं त्वयोगिभिः शक्यं प्रत्यक्षं नाऽत्र संशयः ॥१॥ कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमम् । वद तत् कारणं विप्र संशयस्यापनुत्तये ॥२॥ मुद्गल उवाच । अयोगिनो गणेशानं पंचभूतमयं प्रभुम् । जानंति सर्वतुल्यं तं देहधारिणमंजसा ॥३॥ न तेषां हृदये दक्ष रूपं योगमयं परम् । शोभते गणराजस्य योगाकारमपि स्फुटम् ॥४॥ योगिनस्तं विशेषेण जानंति योगरूपिणम् । तत्र भेदं प्रवक्ष्यामि शृणुष्वैकाग्र- मानसः ॥५॥ समष्टिव्यष्टिरूपाख्यं ब्रह्म वेदे प्रकीर्तितम् । कुंभस्थले गणेशस्य पश्यंति तन्मये च ते ॥६॥ त्रिविधं विविधं दक्ष त्रिनेत्रे संगतं महः । पश्यंति योगिनस्तस्य गणेशस्य महात्मनः ॥७॥ महाकारणरूपा तु शुंडा तस्य प्रकीर्तिता । बिंदुः कंठस्तथा दंतः सोऽहं मात्रात्मकः स्मृतः ॥८॥ बोधरूपं गणेशस्य जठरं सांख्यवाचकौ । कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतम् ॥९॥ मायामोहयुतं ब्रह्म मोहहीनं सुसाक्षिकम् । द्वौ पादौ गणराजस्य पश्यंति योगिनः किल ॥१०॥ संहारारूयं च यद्ब्रह्म परशुस्तस्य शोभनः । नियंतारूयं तथा दक्ष अंकुशश्च महात्मनः ॥११॥ कमलं सृष्टिरूपाख्यं पाशं मोहमयं परम् । बंधमोक्षात्मकं हंत दुष्टनाशकरं मुदा ॥१२॥ अभयं भक्तजातिभ्यो रक्षकं वाञ्छितप्रदम् । वरं सकामकानां तु कामदं तं वदंति ते ॥१३॥ चिंतामणिं मणिं तत्र भुक्तिमुक्तिप्रदं परम् । अक्षीणतेजसं चंद्रममृतं ब्रह्म निश्चितम् ॥१४॥ स्वानंदारूयं परं ब्रह्म तदेव नगरं प्रभोः । इक्षुसागररूपं च रसाणां ब्रह्म कथ्यते ॥१५॥ पंचचित्तमयी बुद्धिस्तत्रैश्वर्य- भ्रमात्मिका । सिद्धिर्माये वदंत्येव योगिनो योगभावतः ॥१६॥ मूषकं व्यापकारूयं च परं पश्यंति वाहनम् । धर्माधर्मौ गणेशयोरःपृष्ठे पार्श्वगे किल ॥१७॥ शुभाशुभेऽथ रोमाणि ओषध्यश्च प्रकीर्तिताः । कल्पा उन्मेषणं तस्य निमेषणं प्रजापते ॥१८॥ लक्षलाभौ सुतौ तस्य सर्वकार्यप्रवर्तकौ । यादृशं क्रियते लक्ष्यं तादृशं फलमश्नुते ॥१९॥ इत्यादि विविधं तस्य ब्रह्माकारं न संशयः । सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते ॥२०॥ योगिनः शुकमुख्यास्तं ध्यायन्ते देहधारिणम् । ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् ॥२१॥ सगुणं कंठपर्यन्तं निर्गुणं गजवाचकम् । मस्तकं च तयोर्योगे योगं जानंति विप्रपम् ॥२२॥ योगिध्येयमतो वेदादिषु संकथितं विधे । रूपं गणपतेः प्रोक्तं योगाकारं स्वभावतः ॥२३॥ दक्ष उवाच । मूषको वाहनं तस्य कथं बभूव विप्रप । तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे ॥२४॥ मुद्गल उवाच । मायया व्यापकं ब्रह्मा मोह्य नानाजनान् परान् । भुंक्ते भोगांस्तत्कृतांस्तच्छुभाशुभविवर्जितम्
खं. ८ अ. ५० | पान ११७
॥२५॥ मुषस्तेये समाख्यातो धातुः स एव मूषकः। व्यापकश्चौरवत् सर्वान् भुंक्ते मोह्य हृदि स्थितः ॥२६॥ तपसाऽऽराधित- स्तेन व्यापकेन गजाननः। प्रसन्नो वाहनं चक्रे तत्प्रीतिवर्धनार्थतः ॥२७॥ एतत्सर्वं समाख्यातं धूम्रवर्णचरित्रकम् । नानाख्यानसमायुक्तं सर्वसिद्धिप्रदायकम् ॥२८॥ य इदं श्रावयेद्दक्ष शृणुयाद्वा पठेन्नरः। स सर्वसुखसंयुक्तोऽन्ते ब्रह्मणि गतो भवेत् ॥२९॥ नानेन सदृशं किंचित् सर्वसिद्धिकरं परम् । यत्र साक्षाद्गणेशानः कीर्त्यते धूम्रवर्णकः ॥३०॥ यं यमिच्छति तं तं स लभेदनेन निश्चितम् । श्रवणेन न संदेहो मानवः शुभमश्नुते ॥३१॥ लेखयित्वा गृहे यस्तु पूजयेत् पुस्तकं नरः । न तत्र राक्षसादिभ्यो भयं भवति कर्हिचित् ॥३२॥ भोगान् भुक्त्वा स विविधान् पुत्रपौत्रसुहृद् वृतः । अंते सानंदगो भूत्वा गणेशे तन्मयो भवेत् ॥३३॥ धर्मार्थकाममोक्षाणां दायकः श्रवणेन च। पठनेन न संदेहः खंडोऽयं धूम्रवर्णकः ॥३४॥ तीर्थानि विविधान्येव तपः कुर्यान्नरोत्तमः। विविधं तत् फलं सद्य अस्य श्रवणतो लभेत् ॥३५॥ इष्टापूर्तादिकं यस्तु कुर्यात् यात्रादिकार्चनम् । विविधं स लभेत् पुण्यमस्य श्रवणतो नरः॥३६॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं परम्। किंचिन्नाना- विधेष्वेव साधनेषु प्रजापते ॥३७॥ यत्र योगपतिः साक्षाद्वर्ण्यते धूम्रवर्णकः। तेन किं तुल्यतां यांति विचारय महामते ॥३८॥ सर्वसिद्धिकरं पूर्णं कथितं ते चरित्रकम् । धूम्रवर्णस्य संक्षेपाद्यथामति प्रमाणतः ॥३९॥ विस्तरेण शिवाद्याश्च वेदा योगिन एव च। न समर्था भवंतीह तत्र कोऽहं प्रजापते ॥४०॥ अधुना त्वं गणेशानं भज यत्नपरायणः । अथवा श्रोतुमिच्छा ते वदतां कथयाम्यहम् ॥४१॥ सूत उवाच। एवमुक्त्वा महायोगी तूष्णीं मुद्गल आदधे । दक्षो हृष्टमनास्तं तु प्रणाम कृतांजलिः ॥४२॥ धूम्रवर्णचरित्रं तु कथितं ते महामुने । यथा दक्षाय तेनैव कथितं तादृशं परम् ॥४३॥ सर्वसिद्धिकरं चित्रं नानाख्यानसमन्वितम् । श्रुतं त्वया महाभाग किं भूयः श्रोतुमिच्छसि ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते फलश्रुतिवर्णनं नाम पंचाशत्तमोऽध्यायः ॥ ॥ इति श्रीमुद्गलपुराणे अष्टमः खंडः समाप्तः ॥ ॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे अष्टमः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे नवमः खंडः प्रारभ्यते ॥
खं. ९ अ. १ पान १ ॥ श्रीगणेशाय नमः ॥ श्रीगणेशशारदागुरुभ्यो नमः ॥ शौनक उवाच । धूम्रवर्णावतारस्य श्रुत्वा चरितमुत्तमम् । नानाख्यान- समायुक्तं न तृप्तोऽहं महामते ॥१॥ अधुना वद दक्षस्य संवादं मुद्गलस्य च । पुनः किं पृष्टवान् दक्षो मुद्गलाय महर्षये ॥२॥ सूत उवाच । श्रुत्वा माहात्म्यमुख्यं स धूम्रवर्णात्मकं परम् । हृष्टरोमा प्रजानाथः पुनः पप्रच्छ तं मुनिम् ॥३॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च त्वत्तः श्रुत्वा महाद्भुतम् । चरितं धूम्रवर्णस्य सर्वसिद्धिप्रदायकम् ॥४॥ अधुना वद विप्रेश योगं पूर्णपदप्रदम् । अष्टौ विनायकाः प्रोक्तास्तेषां योगे स्वरूपकम् ॥५॥ स्वानंदः कीदृशो योगोऽयोगस्तथैव कीदृशः । सुशांतिदः पूर्णयोगस्तेषां रूपं सुविस्तरात् ॥६॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण हर्षसंयुतः । तं जगाद शृणुष्व त्वं द्विजैः शौनक सौख्यदम् ॥७॥ मुद्गल उवाच । स्वानंदात् स्वेच्छया दक्ष ब्रह्माणि निःसृतानि तु । असत् सत् समनेतीति चत्वारि मायया प्रभोः ॥८॥ एकैकाश्रितभावेन सृष्टं तैः सौख्यरूपकम् । ततो बोधस्ततः सोऽहं ततो बिंदुर्महामते ॥९॥ ततश्चतु- र्विधं विश्वं स्थूलं सूक्ष्मं समात्मकम् । नाद एतानि ब्रह्माणि मीलितानि परस्परम् ॥१०॥ निजसत्ताविहीनानि जातानि दैवयोगतः । स्वस्वव्यापारजं भोगं लेभिरे न कदाचन ॥११॥ ततस्तैश्च तपस्तप्तं घोरं चित्तैकभावतः । यस्मै कस्मै नमश्चोक्त्वा मूलभूताय सर्वपैः ॥१२॥ दिव्यवर्षसहस्रेण प्रसन्नो गणपोऽभवत् । हृदिस्थं दर्शयामास मंत्रमेकाक्षरं स्वकम् ॥१३॥ तं दृष्ट्वा हर्षयुक्तानि जेपुर्मंत्रं ततः परम् । गते वर्षशते पूर्णे दर्शयामास स्वं वपुः ॥१४॥ नरकुंजररूपं तु दृष्ट्वा विस्मितमानसैः । सद्यस्तत्कृपया ज्ञानं प्राप्तं तद्रूपबोधकम् ॥१५॥ ज्ञात्वा स्वानंदनाथं तं ब्रह्माणि हर्षतः परम् । तमेव हृदये ध्यात्वा जेपुर्मंत्रं सुसिद्धये ॥१६॥ वर्षेणैकेन विघ्नेशः सुप्रसन्नो बभूव ह । आययौ वरदानार्थं पुरस्तेषां प्रतापवान् ॥१७॥ तं दृष्ट्वा तानि ब्रह्माणि तुष्टुवुः पूज्य विघ्नपम् । बद्ध्वा करपुटं दक्ष स्वस्वसामर्थ्यसिद्धये ॥१८॥ ब्रह्माण्यूचुः । नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय । स्वसंवेद्यरूपाय चानंददाय निजानंदयोगाय ढूंढे नमस्ते ॥१९॥ अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय । शिवायाथ त्रैविध्यभावप्रदात्रे निजा- नंदयोगाय ढूंढे नमस्ते ॥२०॥ समायाथ मायास्वरूपाय द्वंद्वप्रकाशाय सर्वात्मकार्यायैव विष्णो । महानंदरूपाय सर्वातिगाय निजानंदयोगाय ढूंढे नमस्ते ॥२१॥ सदा सत्यरूपाय सर्वात्मने ते विकारैर्विहीनाय सूर्याय भूम्ने । अनंताय भेदादिभि- र्वर्जिताय निजानंदयोगाय ढूंढे नमस्ते ॥२२॥ अपारस्वरूपाय नानामयाय विहारेषु सक्ताय पूर्णात्मकाय । महाशक्तये
खं. ९ अ. १ पान २
शक्तिरूपाय मोहिन् निजानंदयोगाय ढुंढे नमस्ते ॥२३॥ निरोधस्वरूपां समास्थाय बुद्धिं निजानंदभ्रांतिप्रदां सिद्धिरूपाम्। प्रविश्यैव तुर्येषु बिंबात्मकाय निजानंदयोगाय ढुंढे नमस्ते ॥२४॥ ततः सांख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वै बोध- काय। सदा स्वात्मनिष्ठाय संकल्पहंत्रे निजानंदयोगाय ढुंढे नमस्ते ॥२५॥ ततो बोधरूपं विनिर्माय बोधस्वरूपाय माया- मयाकारधाम्ने। सदा खेलकायाथ नानाप्रचारिन्निजानंदयोगाय ढुंढे नमस्ते ॥२६॥ ततो देहिरूपाय निर्माय तं वै सदैक- प्रबोधाय भ्रांतेर्धराय। स्वतो भ्रांतिहीनाय सोऽहंप्रदाय निजानंदयोगाय ढुंढे नमस्ते ॥२७॥ ततो बिंदुमात्राय निर्माय बिंदुं चतुर्धा चतुष्पादरूपेण खेलिन्। अनंतस्वरूपाय देहप्रचार निजानंदयोगाय ढुंढे नमस्ते ॥२८॥ ततो नादरूपं विनिर्माय नादस्वरूपाय तत्स्थाय चैतन्यदाय। अजायथ त्रैविध्यदेहस्थिताय निजानंदयोगाय ढुंढे नमस्ते ॥२९॥ समास्थाय बाह्यांतरे संस्थिताय विनिर्माय सौषुप्तरूपं परात्मन्। तदाकाररूपेण चानंददाय निजानंदयोगाय ढुंढे नमस्ते ॥३०॥ सदा स्वप्न- रूपाय सर्वांतरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय। विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानंदयोगाय ढुंढे नमस्ते ॥३१॥ नमस्ते प्रभो स्थूलरूपाय तन्न विनिर्माय जागृत्तदाकाररूप। सदा ह्यन्नभूताय बाह्यात्मकाय निजानंदयोगाय ढुंढे नमस्ते ॥३२॥ गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांशांश्च तान् रक्ष ब्रह्मेश दासान्। सदा पादपद्मे रतांस्ते कुरुष्व निजानंदयोगाय ढुंढे नमस्ते ॥३३॥ गजाकारतुंडाय लंबोदराय चतुर्बाहवे शूर्पकर्णाय तुभ्यम्। त्रिनेत्राय पाशांकुशाद्यैर्युताय निजानंद- योगाय ढुंढे नमस्ते ॥३४॥ नराकाररूपाय कंठादधस्तात्तथा ह्येकदंताय रक्तांबराय। महाऽऽखुध्वजायाऽऽखुवाहाय नित्यं निजानंदयोगाय ढुंढे नमस्ते ॥३५॥ अनंतप्रसूतिश्च ते वामभागे महासिद्धिरूपा तथा दक्षिणांगे। धृते पूर्णमाये परे देव- देव निजानंदयोगाय ढुंढे नमस्ते ॥३६॥ स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यम्। तथैक्षोः समुद्रे सुलीलाकराय निजानंदयोगाय ढुंढे नमस्ते ॥३७॥ समाधिस्वरूपं गणेशं स्तुवीमः कथं ब्रह्मणो ब्रह्मभूतं महात्मन्। तथापि स्वबुद्ध्या प्रमाणैः स्तुतोऽसि निजानंदयोगाय ढुंढे नमस्ते ॥३८॥ वयं धन्यरूपा गणाधीश ते वै स्तवेनाऽथ पूजादिना दीनबंधो। नमस्ते नमस्ते प्रसीदाऽऽशु भूमन् निजानंदयोगाय ढुंढे नमस्ते ॥३९॥ मुद्गल उवाच। एवं स्तुत्वा गणा- धीशं प्रणेमुस्तं प्रजापते। ब्रह्माणि तान्यथोवाच हर्षितः स गजाननः ॥४०॥ श्रीगणेश उवाच। वरान् ब्रूत हृदिस्थान् वै ब्रह्माणि तुष्टिमागतः। दास्याम्यनेन स्तोत्रेण तपसा दुर्लभानपि ॥४१॥ भवत्कृतमिदं स्तोत्रं मम संतोषकारकम्। भविष्यति न
यहाँ पृष्ठ का सम्पूर्ण पाठ देवनागरी लिपि में पंक्ति-दर-पंक्ति प्रस्तुत है:
खं. ९ अ. २ पान ३ संदेहः सर्वसिद्धिप्रदायकम् ॥४२॥ यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः । स भुक्त्वा ह्यखिलान् भोगानंते स्वानंदगो भवेत् ॥४३॥ विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् । धनधान्यपशूनां तु दायकं प्रभविष्यति ॥४४॥ अंगहीनजनानां तु स्वंगदं रोगनाशनम् । अलक्ष्मीसंकटस्यैव दहनं पाठकारिणाम् ॥४५॥ विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् । भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥४६॥ षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् । राजबंधहरं चैव भविष्यति सुसेविनाम् ॥४७॥ एकविंशतिवारं चैकविंशति दिनानि यः । पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥४८॥ एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विन्नपम् । प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥४९॥ ब्रह्माण्यूचुः । वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् । देहि यया महामोहो नश्यत्यत्र न संशयः ॥५०॥ निजव्यापारजं देहि बोधं कथय सर्वप । कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥५१॥ सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् । निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥५२॥ त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते । भजतां सर्वदातृप्तिं त्वत्प्रसादान्नमोऽस्तु ते ॥५३॥ यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् । सत्यसंकल्पजं सौख्यं देहि नो गणनायक ॥५४॥ एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः । तथेति तान्योक्तवासावंतर्धानं चकार ह ॥५५॥ अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः । तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥५६॥ एतत् सर्व समाख्यातं स्वसंवेद्यस्य चेष्टितम् । श्रवणात् पठनान्नृणां सर्वसिद्धिप्रदायकम् ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं निवृत्तिरूपधारिणः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥१॥ स्वानंदः सकलाधारो नानाब्रह्मसु संस्थितः । जगत्सु योगभावेन संयोगेन तदात्मकः ॥२॥ स नानामायया युक्तो नानाभाव- परायणः । भावाभावादिहीनत्वाच्छोभते नित्यमंजसा ॥३॥ अनंतकल्पकाले तु गते संतोषमादधे । निवृत्तिमिच्छति
[Header] खं. ९ अ. २ पान ४
प्राज्ञो मायाहीनत्वकारणात् ॥४॥ जगद्भिर्ब्रह्मभिः सार्धं गणेशमभजत्ततः । संयोगभावनाशार्थं सर्वतो भक्तिसंयुतः ॥५॥ एकाक्षरविधानेन पूजयामास तं विभुम् । मंत्रं जजाप सर्वेशो ध्यात्वा हृदि गजाननम् ॥६॥ दक्ष उवाच । स्वसंवेद्यात्मकः प्रोक्तो मंत्र एकाक्षरो महान् । अयोगगणनाथस्य प्रीतिदः स कथं वद ॥७॥ मुद्गल उवाच । शब्दशब्दार्थसंयुक्तो मंत्रो गणपतेः स्मृतः । स्वसंवेद्यात्मकः प्राज्ञैः सर्वशास्त्रेषु संमतः ॥८॥ नामैकदेशमात्रत्वात् स एवायॊगवाचकः । न तत्र शब्दशब्दार्थौ तयोर्भोगादिकं कदा ॥९॥ गते वर्षशते तत्र प्रसन्नो गणनायकः । आययौ तं वरान् दातुं निजभक्तसुख- प्रदः ॥१०॥ दृष्ट्वा गजाननं दक्ष प्रहृष्टः सर्वसंयुतः । स्वानंदः प्रणनामाथ पूपुजे भक्तिसंयुतः ॥११॥ दक्ष उवाच । सगुणो देह एतस्य निर्गुणं मस्तकं परम् । तयोर्भेदभावेऽयं गजाननो निजात्मकः ॥१२॥ अयोगे सगुणं नैव निर्गुणं नैव वर्तते । तयोः संयोगरूपं यन्नैव योगींद्रसत्तम ॥१३॥ कथं गजाननश्चायमयोगे वाचकोऽभवत् । छिंधि मे संशयं पूर्णं वचसा योगभाविना ॥१४॥ मुद्गल उवाच । सिद्धिर्देहमयी माया बभूवे तस्य भो विधे । नानाश्रमं परित्यज्य लीना जाता शरीरके ॥१५॥ नानाज्ञानप्रभावं तु त्यक्त्वा बुद्धिः शिरोऽभवत् । भ्रांतिधारकभावं सा तल्लीना संबभूव ह ॥१६॥ तयो- र्योगे स्वसंवेद्यं ब्रह्म संयोगधारकम् । गजाननाकृतिस्थं तद् बभूवे लीनभावतः ॥१७॥ सिद्धिवुद्धिविहीनोऽयमयोगे वाचको- ऽभवत् । गणेशो गजवक्त्रादिचिह्नयुक्तो न संशयः ॥१८॥ शब्दशब्दार्थसंयोगैस्त्रिभिर्हीनो गजाननः । अयोगे शोभते दक्ष मायाभ्यां वर्जितः सदा ॥१९॥ अथो शृणु चरित्रं त्वं प्रकृतं शांतिदायकम् । स्वसंवेद्यः प्रतुष्टाव गणेशं हर्षसंयुतः ॥२०॥ ससर्वस्वानंद उवाच । अजं पुराणं परमव्ययं तं निवृत्तमात्रं ह्यसमाधिसंस्थम् । अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकाम- प्रमेयम् ॥२१॥ न जारजं स्वेदजमंडजं न न चोद्भिदं स्थावरजंगमं न । अनादिमध्यांतममोघरूपं नमामि निर्मायिकम- प्रमेयम् ॥२२॥ न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुंढिम् । न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकम- प्रमेयम् ॥२३॥ न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् । न बिंदुमात्रं न च सोऽहमेव नमामि निर्मायिकम- प्रमेयम् ॥२४॥ न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् । न निर्गुणं नो सगुणं तथा तं नमामि निर्मा- यिकमप्रमेयम् ॥२५॥ न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न । न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥२६॥ असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् । निजात्मरूपं विविधेषु नैव
खं. ९ अ २ पान ५ नमामि निर्मायिकमप्रमेयम् ॥२७॥ अनंतरूपं न तथैकरूपं समं न तुर्यं न च पंचमं तम् । सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥२८॥ न चागतं नैव गतं गणेशमयोगरूपं प्रवदंति वेदाः । सदा निवृत्तिमयमासमंतान्नमामि निर्मायिकमप्रमेयम् ॥२९॥ वचोभिरारात् कथितुं कदाचिदयोगभावान्न मनसो न शक्यम् । कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥३०॥ न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् । अनंतपारं गजवक्त्र- धारं नमामि निर्मायिकमप्रमेयम् ॥३१॥ त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महांंतम् । महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥३२॥ न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् । निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥३३॥ न भक्तभक्तिप्रियमैव देवं तथापि योगेन निवृत्तिदं तम् । अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥३४॥ अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् । जगत्सु नानाविध- ब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥३५॥ समाधिरूपोऽहमचिंत्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् । भ्रमामि मां रक्ष निवृत्तिदातंर्नमामि निर्मायिकमप्रमेयम् ॥३६॥ सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् । चतुः पदार्थेषु चरामि भ्रांत्या नमामि निर्मायिकमप्रमेयम् ॥३७॥ सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै । न शांतिजं सौख्यमणु ह्यविंदं नमामि निर्मायिकमप्रमेयम् ॥३८॥ अनंतभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश । निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥३९॥ नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखान्धि- वासिने । नमश्च हेरंब महोदराय ते नमो नमो ब्रह्मपते सुशांतये ॥४०॥ अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुंढे । दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥४१॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं स्वानंदः प्रणनाम तम् । भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥४२॥ श्रीगणेश उवाच । वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् । माया- मायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥४३॥ त्वया कृतमिदं स्तोत्रं सर्वशांतिप्रदं भवेत् । न मायासंभवं दुःखं प्रलभेत् पाठतो नरः ॥४४॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥४५॥ एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् । जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥४६॥ ससर्वस्वानंद उवाच । यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् । सुखं नान्यं वरं भ्रांतिं मायामेतां निवारय ॥४७॥ तथेति तमुवाचैव गणेशोऽंतर्दधे ततः ।