भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 159, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 159

५६ मुद्राराक्षसम्

हुआ कुलवहु विअ णिच्चला सवुत्ता । मए वि अमच्चरक्खसस्स णामंकिदेत्ति अज्जस्स पादमूल पाविदा । ता एसो इमाए आओमो । ( ततश्च एकस्मादपवरकात्पञ्चवर्षदेशीय प्रियदर्शनीयशरीराकृति कुमारको बालत्वसुलभकौतूहलोत्फुल्लनयनो निष्क्रमितु प्रवृत्त । ततो हा निर्गतो हा निर्गत इति शङ्कापरिग्रहनिवेदयिता तस्यैवापवरकस्याभ्यन्तरे स्त्रीजनस्योत्थितो महान्कलकल । तत ईषद्द्वारदेशदापितमुख्या एकया स्त्रिया स कुमारको निष्क्रामन्नेव निर्भर्त्स्यविलम्बित कोमलया बाहुलतया । तस्या कुमारसरोधसम्भ्रमप्रचलिताङ्गुले करात्पुरुषाङ्गुलिपरिणाहप्रमाणघटिता विगलितेयमङ्गुलिमुद्रिका देहलीबन्धे पतिता उत्थिता तया अनवबुद्धैव मम चरणपार्श्व समागत्य प्रणामनिभृता कुलवधूरिव निश्चला सवृत्ता । मयापि अमात्यराक्षसस्य नामाङ्कितेति आर्यस्य पादमूल प्रापिता । तस्मादेषोऽस्या आगम ।

व्याख्या—ततश्च—गीतगानानन्तर च, एकस्मात्, अपवरकात्—प्रकोष्ठात्, पञ्चवर्षदेशीय —ईषदसमाप्तपञ्चवर्ष , प्रियदर्शनीयशरीराकृति —प्रिया मनोहरा दर्शनीया भव्या शरीरस्य देहस्य आकृति आकारो यस्य स तथाविध , कुमारक —बालक , बालत्वसुलभकौतूहलोत्फुल्लनयन —बालत्वस्य शिशुत्वस्य सुलभ स्वभावज यत् कौतूहल कौतुक तेन उत्फुल्ले विकसिते नयने नेत्रे यस्य स तथोक्त , निष्क्रमितु—निर्गन्तुम्, प्रवृत्त —उद्युक्त । तत —तदनन्तर, हा निर्गत हा निर्गत —हा कष्टमपयात कुमार इति, शङ्कापरिग्रहनिवेदयिता—शङ्काया सन्देहस्य परिग्रह प्राप्ति तस्य निवेदयिता सूचक , तस्यैव अपवरकस्य, अभ्यन्तरे—मध्ये, स्त्रीजनस्य—नारीणा, महान्—विशेष , कलकल —अव्यक्तध्वनि , उत्थित —समुत्पन्न । तत —पश्चात्, ईषद्द्वारदेशदापितमुख्या—ईषत् अल्प द्वारमेव देश प्रदेश तत्र दापित निहित मुखम् आनन यया सा तादृश्या, एकया—केवलया, स्त्रिया—नार्या, स —पूर्वोक्त , कुमारक —बाल , निष्क्रामन्नेव—वहिर्निर्गच्छन्नेव, निर्भर्त्स्य—तिरस्कृत्य, कोमलया—मृद्व्या, बाहुलतया—भुजशाखया, अवलम्बित —धृत । तस्या —स्त्रिया , कुमारसरोधसम्भ्रमप्रचलिताङ्गुले —कुमारस्य बालस्य सरोध बहिर्गमनप्रतिषेध तत्र सम्भ्रम व्याकुलता तेन प्रचलिता प्रकम्पिता अङ्गुलय यस्य स तथाविध तस्मात्, करात्—पाणे , पुरुषाङ्गुलिपरिणाहप्रमाणघटिता—पुरुषस्य पुस अङ्गुलि.